Book Title: Haimlaghuprakriya
Author(s): Vinayvijay
Publisher: Jain Dharm Prasarak Sabha
Catalog link: https://jainqq.org/explore/004079/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ उपाध्याय श्रीविनयविजयविरचिता हैमलघुप्रक्रिया | पेथापुरनिवासिकालिदासात्मजसकरचन्द्रश्रेष्ठिद्रव्यसाहाय्येन भावनगरस्थ श्री जैन धर्मप्रसारकसंसदध्यक्षेण श्रेष्ठि श्रीकुंवरजी-आनंदजीत्यनेन मुम्बापुर्या निर्णयसागरयन्त्रालये मुद्रापिता संवत् १९७४. वीर संवत् २४४५. For Personal & Private Use Only सने १९१८० Page #2 -------------------------------------------------------------------------- ________________ Printed by Ramchandra Yesu Shedge, Nirnaya Sagar Press, 23, Kolbhat Lane, Bombay. Published by Kuvarjee Anandjee, Jain Dharma Prasarak Sabha, State Bhawnagar. For Personal & Private Use Only Page #3 -------------------------------------------------------------------------- ________________ प्रथमावृत्तेः। मुखवेदिका। इह तावत् सर्वे जनाः प्रयोजनमुद्दिश्य कार्यविशेषे प्रवर्तन्ते । प्रयोजनं हि मुख्यगौणभेदेन द्विविधं । तत्रैहिकं गौणप्रयोजनं दुखसमिन्नत्वा. दल्पत्वादसारत्वाच नात्यादरणीयं । आमुष्मिकं मुख्यप्रयोजनं तु निःश्रेयसशब्दवाच्यं दुःखासंभि. नत्वादनल्पत्वात्सारत्वाच्च सर्वैरापामरमादरणीयमेव । तच्च न किल द्रव्यादिना लभ्यं अपितु ज्ञानेनैव । तत् ज्ञानं तु ग्रन्थस्थितत्वेन शब्दस्वरूपं । अतस्तच्छुद्धियुक्तं चेत्तदा सफलं । सा शुद्धियोंकरणसाध्या एव अतो व्याकरणशास्त्रमावश्यकारम्भम् । इह कालमाहात्म्यात् प्रमादाच्च जैनानां स्वकीयव्याकरणशास्त्रसंपत्तिणुता विनष्टप्राया चासीत् । केचिदन्यमतावलम्बिनो न केवलं जैना अपि केचित् "जैनदर्शने सरलं व्याकरणशास्त्रं नास्तीति वदन्ति स्म" । परं संप्रति जनानां ज्ञानरुचित्वेन विहरणशीलानां विद्वत्साधूनां समुपदेशाद्भगृहनिविधानां पुरातनग्रन्थानां शोधने जैनानां स्वकी - For Personal & Private Use Only Page #4 -------------------------------------------------------------------------- ________________ ( ४ ) यव्याकरणशास्त्रसंपत्तिः प्रकाशं समागता । तत्र तावच्छ्रीमद्धेमचन्द्राचार्यैजैनेन्द्रव्याकरणानुसारेण "सिद्धहेमशब्दानुशासन" नाम महाव्याकरणं समारचितं । तस्याष्टादशसहनश्लोकमिता बृहद्वृत्तिः, षट्सहस्रश्लोकमिता लघुवृत्तिरिति द्वे वृत्ती सिद्धहेमचन्द्राख्यया प्रसिद्ध स्तः। तदुपरि न्यास इत्याख्याऽशीतिसहनश्लोकमिता भाष्यभूता महती टीकाऽस्ति । तस्यैव श. ब्दानुशासनस्य मूलसूत्रमयी अष्टाध्यायी सङ्कलिताऽस्ति, तस्या अष्टमाध्याये प्राकृतभाषाव्याकरणमापत्वेन निबद्धं वर्तते । अष्टाध्यायीकमस्थसूत्राणामुपरि केनचित् जैनाचार्येण दुण्डिकानाम्नी टीका रचिताऽस्ति । धातुबोधार्थ धातुपारायणं, कृसत्वयबोधार्थ उणादिगणसूत्रविधरणं श्रीहेमचन्द्राचार्यविरचितं पाठकानामत्युपकारकमपि वर्तते । तथा श्रीगुणरलसूरिभिः क्रियारत्नसमुच्चयनामा ग्रन्थः सङ्कलितस्तदपरेऽपि व्याकरणग्रन्था विविधाचार्यरचिता दरीदृश्यन्ते। श्रीमन्मेघविजयोपाध्यायैस्त्रीणि शब्दानुशासनगतसूत्रानुसारीणि व्याकरणानि रचितानि सन्ति । अथ “चान्द्र" इत्याल्यं पदसहनश्लोकमित। द्वितीयं “मधन्याकरण" पचत्रिशच्छतश्लोक a gाकरण" मनश्शोकमितं । For Personal & Private Use Only Page #5 -------------------------------------------------------------------------- ________________ ALISA तत्र मध्यव्याकरणं लघुल्याकरणं च प्रायो दुष्मा वर्तते। इदं हैमलपुप्रक्रियाल्यं व्याकरणं शब्दानुसासनसूत्रानुसारेण श्रीविनयविजयोपाध्यायै रत्रित. मति, तदुपरि चतुर्विशत्सहनलोकमिता खोपशटीकास्ति । एतद्न्थकर्तारः श्रीविनयविजयगमिनः श्रीमहोपाध्यायपदभाजोऽतिविद्वांस आसन् । ते कस्मिन् देशे समुद्भता इति निर्णेतुं न शक्यते परं प्रायस्तेषां गुर्जरेषु विहारः संभाव्यते । तेषां गुरवः श्रीकीर्तिविजयगणिनस्तद्गुरवः श्रीमदकबरपातसाहिपूज्याः श्रीहीरविजयसूरको विविधग्रन्थकार आसन् । इदानीमपि तेषां कीर्तिकौमुदी भारताम्बरे प्रकाशते । महोपाध्यायश्रीविनयविजयसूरबस्तपागच्छीया उपकेशवंशोद्भवाश्चासन् । तेषां निर्वाणकालस्तु श्रीविक्रमार्कसमयावेदाग्निमु. निचन्द्र (१७३४) मिते वर्षेऽभूत् । एभिरनेके ग्रन्था जैनमतोपयोगिनः समारचिताः । तत्र लोकप्रकाशः, शान्तसुधारसः (गेयमयः), नयकर्णिका, सुबोधिका कल्पवृत्तिः (कल्पसूत्रटीका) इत्यादयोऽद्यापि प्रसिद्धाः प्रवर्तन्ते । एतव्याकरणं ब्युसित्सूनां सुखबोधकमनतिविस्तरं चास्ति । तस्य सङ्कलनायां प्रथम संज्ञाधिकारी मूलसूत्रसहितकारिकाभिरेव प्रतिपादितः, सन्धि For Personal & Private Use Only Page #6 -------------------------------------------------------------------------- ________________ ANE विचारोऽपि सुगमत्वेन विशदीकृतस्तथा पलिङ्गगतानां शब्दानामकाराद्यनुक्रमेणैव सर्वः क्रमः सा. धिता, अव्ययादितद्धितान्तानां प्रकरणानां तथा चोत्तरार्धे धातुकृत्प्रत्ययानां यादृशी अमरचना . रचित्ताऽस्ति तादृशी न कापि व्याकरणान्तरे हश्यते। एवं सर्वतः संस्कृतपाठकानामत्युपयोगकारि शास्त्रोपकारक चेदं व्याकरणं विज्ञाय श्रीमन्महामुनिश्रीवृद्धिचन्द्रगुरुप्रेरणयाऽस्माभिर्मुद्राप्य प्रकाशितं । आशास्महे व्युसिसूनां सर्वेषामत्र प्रवृत्तिः साधीयसी स्यादिति । महता यत्नेन ग्रन्थोऽयं अस्मदीयशास्त्रिनर्मदाशंकरशर्मणा परिशोधितस्तथापि यद्यत्र किञ्चित् स्खलितं सुधीभिर्लक्ष्येत तत्परिशोधनीयम् । एतद्वन्थस्य शुद्धिपत्रमपि स. कलितं तदवलोकनीय पाठकैरिति सानुनयं प्रार्थयामहे वयम् । संवत् १९४९? श्रीजैनधर्मप्रसारकसभा, श्रावण. भावनगर. For Personal & Private Use Only Page #7 -------------------------------------------------------------------------- ________________ . . .... . द्वितीयावृत्तिप्रस्तावना। लक्षयन्तु लक्षणवन्तो लक्षणशास्त्रदत्तलक्ष्याः । अस्मिन्ननन्यसाधारणे जिनशासने तर्कव्याकरणकाव्यादीनि सर्वशास्त्राणि विशिष्टज्ञानकारणानीत्यतो व्याकरणग्रन्था महावैयाकरणप्रथिता मु. द्रिता अमुद्रिताश्च दरीदृश्यन्ते, तेषामेकतमोऽयं ग्रन्थोऽध्येतणामुपकाराय पूर्वमस्माभिर्मुद्रापित आसीत्, परंतु लघीयसैव कालेनास्य प्रतयो रिकीभूताः, प्रार्थयितारश्चानेकशो मार्गयन्तो विफलप्रार्थनावत्त्वेन विषण्णा आसते,. अतोऽस्माभिः पठनानुकूल्यं विधित्सुभिः पेथापुरवासि कालिदासात्मजसकरचन्द्र श्रेष्ठिनः सम्प्रत्यमदाबादनिवासिनो द्रव्यसाहाय्येनायं मुद्रापितः । ग्रन्थस्थास्यैतत्प्रणेतुश्च माहात्म्यं प्रथमावृत्तिप्रस्तावनायां लिखितप्रायत्वात्सुप्रसिद्धत्वाच्च न प्रतन्यते ! अधीत्येममध्येतार आत्महिते प्रवर्तन्तामित्याशास्महे । शुद्धिविषये चास्य प्रथमावृत्तितोऽधिकतरे प्रयले कृतेऽपि दृष्टिदोषादिना कारणेन स्खलितानि भधेयुश्चेत्तज्ज्ञातारः शोधयेयुरिति प्रार्थ्यते. इति ॥ संवत् १९७४ । श्रीजैनधर्मप्रसारकसभा, चत्र. भावनगर For Personal & Private Use Only Page #8 -------------------------------------------------------------------------- ________________ For Personal & Private Use Only Page #9 -------------------------------------------------------------------------- ________________ अथ हैमलघुप्रक्रियाख्यं व्याकरणम्। संज्ञाधिकारः॥ ॥ श्रीजिनाय नम प्रणम्य परमात्मानं बालानां बोधसिद्धये ॥ . करोमि प्रक्रियां सिद्धहेमचन्द्रानुसारिणीम् ॥२॥ ॐनमो हेमचन्द्राय हैमव्याकरणाय च ॥ शब्दपाथोधिसोमाय जगद्विख्यातकीर्तये ॥२॥ आदौ विनविघाताय शिष्टाचाराच्च शाखकृत् ।। परमेश कु रुते भावमङ्गलम् ॥ ३॥ AAS अर्हमित्यक्षरं ध्येयं परमेश्वरवाचकम् ॥ शास्त्रादौ पठतां क्षेमव्युत्पत्त्यभ्युदयप्रदम् ॥४॥ सिद्धिः स्याद्वादात् ॥२॥ शब्दानां ज्ञप्तिनिष्पत्ती स्वातां स्याद्वाददने । शब्दे ोकान्ततो नित्येऽनित्ये वा तवयं कुतः तत्रादौ व्यवहाराय संज्ञां विमति For Personal & Private Use Only Page #10 -------------------------------------------------------------------------- ________________ हैमलघुप्रक्रियाव्याकरणे औदन्ताः स्वराः ॥ ३ ॥ औकारान्ता अकाराद्याः स्वरा वर्णाश्चतुर्दश ॥ ६ अ आ इ ई उ ऊ ऋ ॠ ऌ ऌ ए ऐ ओ औ १४ एकद्वित्रिमात्रा ह्रस्वदीर्घप्लुताः ॥ ४ ॥ मात्रा कालविशेषः । एकमात्रो भवेद्धस्वो द्विमात्रो दीर्घ उच्यते ॥ प्लुतः स्वरस्त्रिमात्रः स्याद्व्यञ्जनं चार्धमात्रकम् ॥७ अ इ उ ऋ लृ इति ह्रस्वाः । आ ई ऊ ऋ ऌ ए ऐ ओ औ इति दीर्घाः । आ ३ ई ३ इत्यादिप्लुताः । दूरादामन्त्रणे प्रश्ने प्रश्नाख्याने च भर्त्सने ॥ संमत्यसूयाकोपादौ यथायोगं स्वराः प्लुताः॥ ८ ॥ स चैकैकस्त्रिधोदात्तोऽनुदात्तः स्वरितोऽपि च ॥ पोढा च सानुनासिकनिरनुनासिका इति ॥ ९ ॥ उच्चैनीचैः समवृत्त्योच्चार्यमाणाः स्वराः क्रमात् ॥ उदात्ताश्चानुदात्ताश्च स्वरिताश्च भवन्त्यमी ॥१० मुखनासोच्चार्यमाणो वर्णः स्यात्सानुनासिकः ॥ मुखेनैवोच्चार्यमाणः ख्यातो निरनुनासिकः ॥११ प्रत्येकमित्यवर्णाद्याः पञ्चाष्टादशधा स्मृताः ॥ सन्ध्यक्षरं द्वादशधा हस्वपदवर्जितम् ॥ १२ ॥ दीर्घषवर्जितऌकारोपि द्वादशधेति पाणि नीवा For Personal & Private Use Only Page #11 -------------------------------------------------------------------------- ________________ संज्ञाधिकारः। अनवर्णा नामी ॥५॥ अवर्णवर्जिताश्चैते स्वरा द्वादश नामिनः॥ ... लूदन्ताः समानाः ॥६॥ लकारान्ता अकाराद्याःसमानाख्याः स्वरा दश१३ ए ऐ ओ औ सन्ध्य क्षरम् ॥ ७॥ सन्ध्यक्षराख्याश्चत्वार ए ऐ ओ औ इमे स्वराः॥ __अं अः अनुखारविसर्गों ॥ ८॥ अकारावेतयोर्मध्ये सुखोच्चारणहेतुकौ ॥ १४ ॥ कादिय॑ञ्जनम् ॥९॥ व्यञ्जनाख्यास्त्रयस्त्रिंशद्वर्णा हान्ताश्च कादयः॥ कखगघङ१चछजझञ२ टठडढण ३ तथदधन४ पफबभम ५ यरलवशषसह । पञ्चको वर्गः ॥ १०॥ मान्तेषु कादिवर्णेषु कचटतपसंज्ञकाः॥ १५ ॥ पञ्चभिः पञ्चभिर्वर्णैर्वर्गाः पञ्च प्रकीर्तिताः॥ अपञ्चमान्तस्थो धुट् ॥ ११ ॥ अवर्गपञ्चमान्तस्थास्ते चतुर्विंशति(टः ॥ १६ ॥ क ख ग घ । च छ ज झ ट ठ ड ढ । त थ द ध। प फ ब भ । श ष स ह ॥ आयद्वितीयशषसा अघोषाः ॥ १२॥ आद्यद्वितीया वर्गाणामघोषाः शषसा अपि । For Personal & Private Use Only Page #12 -------------------------------------------------------------------------- ________________ H हैमलघुप्रक्रियाव्याकरणे । अन्यो घोषवान् ॥ १३ ॥ अन्ये स्युर्गादयो वर्णा घोषवन्तश्च विंशतिः १७ ग घ ङ । ज झ ञ। ड ढ ण । दधन । बभ म। य र ल व ह । यरलवा अन्तस्थाः । अं अः क प शषसाः शिद् ॥ १४ ॥ बिसंज्ञका अमी सह तत्र का कुलिशाकृतिः॥ गजकुम्भाकृतिः पञ्च कपाचारणार्थको ॥१८॥ तुल्यस्थानास्यप्रयत्नः स्वः ॥ १५॥ आस्यप्रयत्नस्थानाभ्यां तुल्या वर्णाः स्वसंज्ञकाः॥ चतुर्दशानां स्वराणां स्वस्वभेदा यथा मिथः॥१९ पञ्चपञ्चैकवर्गस्था वर्णाः स्वाः स्युः परसरम् ॥ यलवाः सानुनासिकनिरनुनासिका अपि ॥२०॥ अष्टौ स्थानानि वर्णानामुर-कण्ठः शिरस्तथा ॥ जिह्वामूलं च दन्ताश्च नासिकौष्ठौ च तालु च ॥२१ विसर्गोऽथाकुहाः कण्ठ्यास्तालव्या इचुयाश्च शः उपूपध्मानीया ओष्ठ्या मूर्धन्या ऋटुषाश्चरः २२ दन्त्या लतलसा ए.ऐकण्ठतालसमद्रवौ ॥ ओ औ कण्ठोष्ठजो ज्ञेयौ वो दन्तौठ्या प्रकी . तितः॥२३॥ जिह्वयश्च जिह्वामूलीयोऽनुस्वारोनासिकोद्भवः॥ सस्थाननासिकास्थानाः स्युर्डअणनमा इति २४ PPA -- . - NAI PER ouse - T H म d . . * . For Personal & Private Use Only Page #13 -------------------------------------------------------------------------- ________________ संहाधिकारी .... PAA - PAMANART V -- - - स्यादुरस्यो हकारस्तु सहान्तस्थः सपश्चमः ।, ऑस्यप्रयत्लाः संवारविवारस्पृष्टतादयः ॥२५॥ उक्ते वणे स्वसंज्ञोऽपि ग्राह्यः कारे च केवलः॥ संयोगः स्याव्यञ्जनानि स्वसव्यवहितान्यहो ॥२६ . अप्रयोगीत् ॥ १६ ॥... वर्णो वर्णसमूहो वा पाठे समुपलभ्यते ॥ न दृश्यते प्रयोगे यः स इत्संज्ञक इष्यते ॥२७॥ स्वादिस्त्यादिविभकिस्खासियत दम् भादेश सबुक्को भवेन्मित्रवदागमः ॥२८॥ अवसानं विरामः स्याद्वर्णानुच्चारणं पुरः॥ त्रयो लुक् लुप् च लोपश्च वर्णादर्शनवाचकाः॥२९ दीर्घा विसर्गानुस्वारयुक् संयोगपरो गुरुः ॥ असंयोगपरो ह्रस्वो विसर्गाद्युज्झितो लघुः॥३०॥ अरेदोतो गुणसंज्ञा ऋइउस्थानभाविनः ॥ वृद्धिसंज्ञा स्मृता आ आर् ऐदौच्च स्वरसंभवा ३१ स्थमौजसः स्युधुटसमा युखियो शिर्न सके। विना संबोधनार्थ सिं शेषघुसंज्ञका अमी॥३२ लोकात् ॥ १७॥ यदत्र संज्ञान्यायादि वर्णाम्नायादि नोदितम् ॥ तद्वैयाकरणादिभ्यो लोकेभ्यो बुध्यतां बुधैः ३३ इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां हैमलघुप्रक्रियायां संझाधिकारः समाप्तः॥ . १ "आस्यप्रयत्नाः स्पृष्टाद्या विवाराद्यास्तु बाह्यकाः" इत्यपि पाठः क्वचिद् दृश्यते। H YA ... . For Personal & Private Use Only Page #14 -------------------------------------------------------------------------- ________________ . हैमलघुप्रक्रियाव्याकरणे. अथ स्वरसन्धिरभिधीयते॥ • वृषभ-अजितौ इति स्थिते समानानां तेन दीर्घः ॥ १ ॥ . समानानां तेन परेण समानेन सह दीर्घः स्यात् । द्वयोः स्थाने एको दीर्घः स्यादिति सहार्थः। लोकात्, स्वरहीनं परेण संयोज्यम् । वृषभाजितौ । तव-आयुः तवायुः दधि-इदं दधीदम् । मधु-उदकं मधूदकम् । पितृ-ऋषभः पितृषभः । होतृ-ऋकारः होतकारः। - अवर्णस्येवर्णादिनैदोदरल् ॥ २॥ _ अवर्णस्य इवर्णउवर्णऋवर्णलवर्णैः सह एत् ओत् अर् अल् इत्येते आदेशाः स्युः। (यथासंख्यमनुदेशः समसंख्याकानाम्स) तव-इदं तवेदम् । गङ्गा-उदकं गङ्गोदकम् । महा-ऋषिः । (जलतुम्बिकान्यायेन रेफस्योर्ध्वगमनम् ) महर्षिः । तव-लकारः तवल्कारः। .. ऋणे प्रदशार्णवसनकम्बलवत्सरव त्सतरस्यार ॥३॥ प्रादीनां सप्तानामवर्णस्य ऋणे परे ऋता सहार् स्वात् । पक्रणं प्रार्णम् । ऋण-ऋणं ऋणार्णम् । . For Personal & Private Use Only Page #15 -------------------------------------------------------------------------- ________________ स्वरसन्धिः । ऋते तृतीयासमासे ॥ ४ ॥ अवर्णस्य ऋते परे तृतीयासमासे ऋता सहा स्यात् । शीत ऋतः शीतार्तः । इत्यादि । ऐदौत्सन्ध्यक्षरैः ॥ ५ ॥ अवर्णस्य सन्ध्यक्षरैः परैः सह ऐऔ स्याताम् । तव एषा तवैषा । महा-ऐश्वर्य महैश्वर्यम् । तव-ओदनः तवौदनः । तव औपगवः तवौपगवः वौष्ठतौ समासे ॥ ६॥ ओष्ठौत्वोः परयोः समासेऽवर्णस्य लुग्वा स्यात् । बिम्बोष्ठी । बिम्बोष्ठी | स्थूलोतुः । स्थूलौतुः । ( क्वचिदन्यत्राप्येदोतोः परयोरवर्णस्य लुग्वाच्या ) अद्य ओम् अद्योम् । इह-एव तिष्ठ इहेव तिष्ठ । ( क्वचिदवर्णस्येवर्णोवर्णाभ्यां सहैत्वौत्वे वाच्ये ) • स्व- ईरः स्वैरः । स्व- ईरिणी स्वैरिणी । अक्ष ऊहिनी अक्षौहिणी । प्र-ऊढः प्रौढः । दधि-अत्र इति स्थिते । इवर्णादेरखे खरे यवरलम् ॥ ७ ॥ इलवर्णानामस्त्रे स्वरे परे यवरलाः स्युः । दधू यू अत्र इति तावद्भवति । अदीर्घाद्विरामैकव्यञ्जने ॥ ८ ॥ अदीर्घात्स्वरात्परस्य रहस्वरवर्जस्य वर्णस्य वि For Personal & Private Use Only Page #16 -------------------------------------------------------------------------- ________________ हैमलघुप्रक्रियाव्याकरणे रामे असंयुक्त व्यञ्जने च परेऽनु द्वित्वं वा स्यात् । इति धस्य वा द्वित्वम् । तृतीयस्तृतीयचतुर्थे ॥ ९ ॥ तृतीये चतुर्थे च परे घुटस्तृतीयः स्यात् । एकवर्गीया मिथः स्वा इति पूर्वधकारस्य दकारः । दत्यत्र । दध्यत्र । मधु-अत्र मत्र । मध्वत्र । पितृअर्थः पित्रर्थः । पित्रर्थः । ऌ-इत् लित् । इवर्णादेरित्यत्र पञ्चमीव्याख्याने दधिरात्र, मधुवत्रेत्यादि । गौरी- अत्रेत्यत्र गौर यू अत्रेति जाते अदीर्घाद्विरामेति सूत्राप्राप्तेर्न रेफस्य द्वित्वम्, किन्तु हदिर्हस्वरस्यानु नवा ॥ १० ॥ स्वरात्पराभ्यां रहाभ्यां परस्य रहस्वरवर्जस्य वर्णस्यानु द्वित्वं वा स्यादिति यकारस्य वा द्वित्वम् । गौर्य्यत्र । गौर्यत्र । नहि अत्र नहव्यत्र । नेात्र । एदैतोऽयाय् ॥ ११ ॥ एकारैकारयोः स्वरे परे अयायौ स्याताम् । ने अनं नयनम् । नै- अकः नायकः । ओदौतोऽवान् ॥ १२ ॥ ओकारौकारयोः स्वरे परे अवावी स्याताम् । लोअनं लवनम् । लौ अकः लायकः । (पदान्तेऽयामावावां य्वोः खरे परे लुग्वा वाच्या कि सत्यामसन्विच ) For Personal & Private Use Only Page #17 -------------------------------------------------------------------------- ________________ असन्धिः । . .. .... .. ते-आगताः त आगताः। तयागताः। तस्मै-इदं तस्मा इदं । तस्मायिदं । पटो-इह पट इह । पटविह। वृक्षौ-इह वृक्षा इह । वृक्षाविह। ... खरे वाऽनक्षे ॥ १३ ॥ गोशब्दसम्बन्धिन ओकारस्याक्षशब्दवर्जस्वरेपरे अव इत्यकारान्त आदेशो वा स्यात् । गो-ईशः गवेशः। गवीशः। 2. (इन्द्रे परे संज्ञायां च निलम गवेन्द्रः। गवाक्षा। एदोतः पदान्तेऽस्य लुक् ॥ १४॥ ____ पदान्तस्थाभ्यामदोद्भ्यां परस्याकारस्य लुक् स्यात् । तेऽत्र । पटोऽत्र । पदान्त इत्येव । ने-अनं नयनम् । इति महोपाध्यायश्रीकीर्ति विजयमणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितामा देखबप्रक्रियायों खरसंधिः समाप्तः । अथासन्धिरुच्यते ॥ प्लुतोऽनितौ ॥१॥ इतिवर्जे स्वरे परे प्लुतः सन्धिभाग् न स्यात् । चैत्र ३ अत्र न्वसि । इतौ तु । सुश्लोकेति। इ३ वा ॥२॥ - इ. प्लुतः सन्धि वा नैति । लुनीहि ३ इति लुनीहीति। .. For Personal & Private Use Only Page #18 -------------------------------------------------------------------------- ________________ . हैमलघुप्रक्रियाव्याकरणे ईदूदेद्विवचनम् ॥३॥ ___एते त्रयो द्विवचनान्ताः सन्धि नाप्नुवन्ति। मुनी इह । साधू एतौ । माले इमे । पचेते इति । - अदो मुमी ॥४॥ अदसूशब्दसंबन्धिनौ मुमी सन्धिं नाप्नुतः। अमुमुईचा। अमी अश्वाः। चादिः खरोऽनाङ् ॥ ५॥ आवर्जश्चादिः स्वरः सन्धि नैति । अ अपेहि। इ इन्द्रं पश्य । उ उत्तिष्ठ । आ एवम् । अनाडिति किम् । आ-इहि एहि। ओदन्तः ॥६॥ ओदन्तश्चादिःस्वरे सन्धि न भजते।अहो अत्र । . सौ न वेतौ ॥ ७॥ सिनिमित्त ओकार इतौ परे सन्धि वा नैति । पटो-इति पटविति । वाऽत्यसन्धिः ॥८॥ गोरोकारस्यावति परेऽसन्धिर्वा स्यात् । गो-अग्रम् गवायम् । गोऽयम् । ऋलति हखो वा ॥९॥ .. ऋति लुति च परे समानानां ह्रस्वो का स्यात् । For Personal & Private Use Only Page #19 -------------------------------------------------------------------------- ________________ व्यञ्जनसन्धिः। ह्रस्वविधानसामर्थ्यादसन्धिः । इदमेव ह्रस्वस्यापि ह्रस्वविधाने फलम् । बाल ऋश्यः । बालयः॥ इखोऽपदे वा ॥ १०॥ इउऋलवर्णानामस्वे स्वरे परे ह्रस्वो वा स्यात्, न चेत्तौ निमित्तनिमित्तिनावेकत्र पदे स्याताम् । नदि एषा। मधु अत्र । एकपदे तु । नद्यौ ॥ (अ उ वर्णानां विरामेऽनुनासिको वास) साम । साम । दधि । दधि। इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजय गणिविरचितायां हैमलघुप्रक्रियायां असन्धिः समाप्तः । " अथ व्यञ्जनसन्धिः॥ वाक्-मह इति स्थिते । धुटस्तृतीयः॥१॥ पदान्ते धुटां स्वस्तृतीयः स्यात् । वाग् मह इति भवति । तृतीयस्य पञ्चमे ॥२॥ वेति पदान्त' इति अनुनासिक इति चानुवर्तते । एवमन्यत्राप्यपेक्षितं पदं सूत्रान्तरादनुवर्तनीयम् । पदान्तस्थस्य वर्गतृतीयस्य पञ्चमे परे स्वः पञ्चमो वा स्यात् । वाङमहः । वाग्महः। (प्रत्यये च-प्रत्ययस्थे पञ्चमे परे च नित्यम्) वाग्-मयं वाङमयम् । For Personal & Private Use Only Page #20 -------------------------------------------------------------------------- ________________ हैमलघुप्रक्रियाव्याकरणे ततो हश्चतुर्थः ॥ ३ ॥ पदान्तस्थात्तृतीयात्परस्य हस्य पूर्वतृतीयस्ववर्गचतुर्थो वा स्यात् । वाग्धरिः । वागूहरिः । तत्-हितम् । तद्धितम् । तहितम् । प्रशानोऽनुखारानुनासिकौ च पूर्व नोऽ स्याधुपरे ॥ ४ ॥ पदान्तेत्यस्य प्रशानुवर्जशब्दसंबन्धिनो नस्य चटतेषु सद्वितीयेष्वधुद्रपरेषु शपला यथासंख्यं स्युः । अनुस्वारानुनासिकौ च पूर्वस्य । भवांश्चारुः । भवाँश्चारुः । भवांश्छेकः । भवाँरछेकः । भवष्टकः । भवाँष्टकः । भवांष्ठकारः । भवाँष्ठकारः । भवांस्तनुः । भवास्तनुः । भवांस्थुडति । भवाँस्थुडति । प्रशान्वर्जनात् । प्रशाञ्चरः । अधुडिति किम् । भवान्त्सरुकः । द्विः कानः कानि सः ॥ ५ ॥ द्विरुकस्य कानः कानि परे सः स्यात् । अनुस्वारानुनासिकौ च पूर्वस्य । कांस्कान् कास्कान् । नः शिञ्च ॥ ६ ॥ पदान्तस्थस्य नस्य थे परे वा स्यात् । भवाशूरः भवान् शूरः । अश्च इत्येव । भवाञ्च्योतति । प्रथमादधुटि शश्छः ॥ ७ ॥ रस्त्य शलाट छो वा For Personal & Private Use Only Page #21 -------------------------------------------------------------------------- ________________ व्यञ्जनसन्धिः। १३ स्यात् । भवाञ्च्छूरः । भवाञ्चशूरः, इति विकल्पद्वये त्रैरूप्यम् । अधुटीति किम् ? वाक्श्चयोतति । . डोः कटावन्तौ शिटि नवा ॥८॥ पदान्ते । प्राशेते । प्राङ्कछेते । प्राशेते । सुगुण्ट्रोते । सुगण्ट्छेते । सुगणशेते। तौ मुमो व्यञ्जने खौ ॥९॥ मुइत्यागमस्य पदान्तस्थस्य च मस्य व्यञ्जने परे तस्यैव स्वावनुस्वारानुनासिकौ स्याताम् । त्वम् चारुः। त्वंचारुः। त्वञ्चारुः । त्वं टकः । त्वण्टकः। कंयः। कय्यः । पुरो व्यञ्जनाभावे तु नानुस्वारः। त्वम् । सम्राट् इति तु निपातः। इखाद् झनो द्वे ॥१०॥ - ह्रस्वात्परेषां पदान्तस्थानां जनां स्वरे परे द्वित्वं स्यात् । क्रुडास्ते । सुगण्णिह । लिखन्नास्ते । खरेभ्यः ॥ ११॥ स्वरात्परस्य छस्य द्वित्वं स्यात् । - अघोषे प्रथमोऽशिटः ॥ १२ ॥ अघोषे परे शिवर्जस्य धुटः स्वः प्रथमः स्यादित्याद्यछस्य चत्वे । तवच्छत्रम् । इच्छति । अनाङ्माङो दीर्घाद्वा छः ॥१३॥ दीर्घाद्दीर्घस्थानीयाच्च प्लुतात्स्वरात्परश्छो द्विर्वा व्या. २ For Personal & Private Use Only Page #22 -------------------------------------------------------------------------- ________________ १४ हैमलघुप्रक्रियाव्याकरणे स्यात् । कन्याच्छत्रं, कन्याछत्रम् । मुनेच्छत्रं, मुनेछत्रम् । (आमाद्भ्यां तु नित्यम् । *) आच्छाया । माच्छिदत् । तवर्गस्य चवर्गष्टवर्गाभ्यां योगे चटवर्गौ ॥ १४ ॥ तवर्गस्य शचवर्गयोगे चवर्गः षटवर्गयोगे टवर्गः स्वात् । तत्-शास्त्रं तच्शास्त्रम् । तत् चारु, तच्चारु । पिष्-तं, पिष्टम् । तत्-टकारः, तट्टकारः । ईट-ते, ईट्टे । सस्य शषौ ॥ १५ ॥ सकारस्य शचवर्गाभ्यां योगे शः षटवर्गाभ्यां च योगे षः स्यात् । वृस्-चति, वृश्चति । दोस्-पु, दोष्षु । पदान्तापदान्तयोरयं विधिः । न शात् ॥ १६ ॥ शात्परस्य तवर्गस्य चत्रर्गो न स्वात् । प्रश्नः । पदान्ताद्दवर्गादनामनगरीनवतेः ॥ १७ ॥ पदान्तस्थादवर्गात्परस्य तवर्गस्य टवर्गः सस्य च षो न स्यात् षट्-नयाः षण्नयाः । षट्सु । नाम्नगरीनवतीनां तु स्यात् । षण्णाम् । षण्णगरी । षपणवतिः । षि तवर्गस्य ॥ १८ ॥ पदान्तस्थस्य तवर्गस्य षे परे टवर्गो न स्यात् । For Personal & Private Use Only Page #23 -------------------------------------------------------------------------- ________________ रेफसन्धिः । लि लौ ॥१९॥ पदान्तस्थस्य तवर्गस्य ले परे लौ स्याताम् । तत्र नकारस्य सानुनासिको लः शेषाणां निरनुनासिकः। तद्-लूनं, तल्लूनम् । भवान्-लिखति, भवाँल्लिखति । इति महोपाध्यायश्रीकीर्ति विजयगणिशिष्योपाध्यायश्रीविनयविज-... .. यगणिविरचितायां हैमलघुप्रक्रियायां व्यञ्जनसन्धिः समाप्तः ॥ . HP tra29. ... अथ रेफरसन्धिः ॥ कर-चारु इति स्थिते। सो रुः ॥१॥ पदान्ते सो रुः स्यात् । उकारः स्वाभाविकरे'फाझेदज्ञापनार्थ इत् । कर चारु इति जाते । - चटते सद्वितीये ॥२॥ - पदान्तस्थस्य रस्य चटतेषु सद्वितीयेषु परेषु यथासंख्यं शषसा नित्यं स्यः चारु (निरनब--- न्धग्रहणे सामान्यग्रहणम्)प्रातश्चरति। कश्छन्नः। कष्टः । कष्ठः । कस्तः । कस्थः । शषसे शषसं वा ॥३॥ पदान्तस्थस्य रस्य शषसेषु परेषु शषंसा वा स्युः। कश्शेते । पक्षे रः पदान्ते विसर्गस्तयोः ॥४॥ पदान्तस्थस्य रस्य विरामेऽयोफे परे च विसर्गः। For Personal & Private Use Only Page #24 -------------------------------------------------------------------------- ________________ १६ हैमलघुप्रक्रियाव्याकरणे स्यात् । कः शेते । कष्षण्डः, कः षण्ढः। कस्साधुः, कः साधुः। ____रः कखपफयोः क पौ ॥५॥ - पदान्तस्थस्य रस्य कखयोः परयोः ४को वा पफयोश्च परयोः पोवा स्यात् । क करोति कः करोति। क खनति, कः खनति।क पचति, कः पचति। करफलति, कः फलति। पुन पुष्टं, पुनः पुष्टं इत्यादि। (ख्यागिरोनित्यं विसर्यः*)। कः ख्यातः । शिट्परेऽघोषे परेप्येवम् । कः प्साति । (अघोषपरे शिटि परे रो लुग्वा*)। कञ्चयोतति, कः श्योतति । अतोऽति रोरुः ॥६॥ अकारात्परस्य रोरति परे उः स्यात् । अवर्णस्येति ओत्वे एदोत इत्यकारलोपे च । कोऽर्थः । रोरिति किम् । प्रातरत्र । .. रोयः ॥७॥ अवर्णा भोस्भगोस्अघोसूशब्देभ्यश्च परस्य रोः खरे परे यः स्यात्तस्य च स्वरे परे लुग्वा लुक्यसन्धि श्च। कयास्ते, क आस्ते । कयिह क इह। भोयत्र, भो अत्र।भगोयत्र भगो अत्र । अघोयत्र, अघो अत्र । अवर्णादिति किम् ? निधिरत्र । भोसू इत्यादय आमत्रणे सकारान्ता अव्ययाः। · अवर्णभोभगोऽघोलुंगसन्धिः ॥ ८॥ For Personal & Private Use Only Page #25 -------------------------------------------------------------------------- ________________ रेफसन्धिः । अवर्णाझो इत्यादिभ्यश्च रो?षवति परे लुक स्यात् । स च न सन्धिहेतुः । देवा यान्ति । भो यासि । भगो हस । अघो वद । घोषवति ॥९॥ अतः परस्य रो?षवति उः स्यात् । धर्मो जयति। सामान्यशास्त्रतो नूनं विशेषो बलवान् भवेत् । परेण पूर्वबाधो वा प्रायशो दृश्यतामिह ॥१॥ रोरित्येव । प्रातर्याति । रो रे लुग् दीर्घश्चादिदुतः ॥१०॥ रस्य रेफे परे लुक् स्यात्तत्सन्नियोगे च पूर्वस्थानां अ इ उ इत्येषां दीर्घः । मुनी राजते । साधू राजते । पुना रमते । अकारात्परस्य रोस्तु घोषवती. त्युकारः। जिनो राजते। रो लप्यरि ॥ ११॥ रेफवर्जिते वर्णे परे पदान्तस्थस्याह्नो नस्य स्यादिलुपि सत्यां रः स्यात् । अहरधीते । अहर्गणः । लुकि तु। अह्नः॥१२॥ अहन्संबन्धिनो नस्य पदान्ते रुः स्यात् । हे दी_हो निदाघ । अरीति किम् । अहोरूपम् । For Personal & Private Use Only Page #26 -------------------------------------------------------------------------- ________________ १८ हैमलघुप्रक्रियाव्याकरणे वाहर्पत्यादयः ॥ १३ ॥ एषु विसर्गाद्यभावो वा स्यात् । अहर्पतिः। अहरपतिः। अहःपतिः । गीपतिः। गीपतिः । गी:पतिः। एतत्तदश्च व्यञ्जनेऽनग्नसमासे ॥१४॥ । एतच्छब्दात्तच्छब्दाच्च परस्य सेर्व्यञ्जने परे लुक् स्यात । एष दत्ते । स लाति । अकि नसमासे च न । एषकः कृती । सको याति । अषो याति। असो वाति । तदः सेः खरे पादार्था ॥ १५॥ तच्छब्दात्परस्य सेः स्वरे परे लुक् स्याद्यदि से कि सत्यामेव श्लोकादिपादः पूर्येत । सैष दाशरथी रामः सौषधीरनुरुध्यति ॥ अन्यत्र यथाप्राप्तम् । स एष भरतो राजा स एष नलभूपतिः ॥२॥ संहितैकपदे नित्या नित्या धातूपसर्गयोः। नित्या समासे वाक्ये तु सा व्यपेक्षामपेक्षते ॥३॥ इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयवि.. जयाणिबिरचितायां हैमलधुप्रक्रियायां रेफसन्धिः समाप्तः। . For Personal & Private Use Only Page #27 -------------------------------------------------------------------------- ________________ . खरान्ताः पुंलिङ्गाः। १९ अथ विभक्तिर्विभाव्यते॥ अधातुविभक्तिवाक्यमर्थवन्नाम ॥१॥ • धातुविभक्त्यन्तवाक्यवर्जमर्थवच्छब्दरूपं नाम स्यात्ततः स्यादयः सप्त विभक्तयो योज्यन्ते। स्यौ जसित्यादि ॥२॥ -सि औ जस् इति प्रथमा । अम् श्री शम इति द्वितीया । दाभ्यो मिस इति तृतीया । डे भ्यां भ्यस् इति चतुर्थी । उसि भ्यां भ्यस् इति पञ्चमी। डस् ओस् आम् इति षष्ठी । ङि ओस् सुप् इति सप्तमी। तत्राप्यर्थैकत्वविवक्षायां प्रथमैकवचनं सिः। इकार उच्चारणार्थ इत् । देवस् इति स्थिते । सोरुः। रः पदान्ते विसर्गस्तयोः । देवः। द्वित्वे, देव औ । ऐदौत्सन्ध्यक्षरैरिति । देवौ । बहुत्वे, देव जस् । जकारो विशेषणार्थः। अत आः स्यादौ जस्भ्याम्ये ॥३॥ स्यादौ जसि भ्यामि ये च परे अत आः स्यात्। ततः समानानां तेनेति दीर्घे, देवाः। अदीर्घो दीर्घतां याति नास्ति दीर्घस्य दीर्घता । . पूर्व (वै)। दीर्घस्वरं दृष्ट्वा परलोपो विधीयते ॥१॥ । यद्वा 'पर्जन्यवल्लक्षणप्रवृत्तिः' इति दीर्घस्यापि दीर्घत्वम् । द्वितीयैकवचने, देव अम् । 16. For Personal & Private Use Only Page #28 -------------------------------------------------------------------------- ________________ हैमलघुप्रक्रियाव्याकरणे समानादमोऽतः ॥ ४ ॥ समानात्परस्यामोऽकारस्य लुक् स्यात् । देवम् । देवौ । बहुवचने, देव शस् । शकारः प्राग्वत् । शसोऽता सश्च नः पुंसि ॥ ५ ॥ शस्संबन्धिनाऽकारेण सह पूर्व समानस्य दीर्घः स्यात्, तत्सन्नियोगे च पुंलिङ्गे शसः सो नः स्यात् । देवान् । तृतीयैकवचने, देव टा । टकार इत् । टाङसोरिनस्यौ ॥ ६ ॥ आत्परयोष्टाङसोरिनस्यौ स्याताम् । देवेन । अत आ स्यादी इत्याssवे । देवाभ्याम् । भिस ऐस् ॥ ७ ॥ आत्परस्य स्यादेर्भिस ऐस् स्यात् । देवैः । चतुयेकवचने, देव ङे । डकारो ङित्कार्यार्थः सर्वत्र । डेङस्योर्यातौ ॥ ८ ॥ अकारात्परस्य ङेर्यो, ङसेश्च आत् स्यात् । अ आ इत्यात्वे देवाय । देवाभ्याम् । देव-भ्यस् इति स्थिते । भोसि ॥ ९ ॥ बहुत्वे स्यादौ सादौ भादौ ओसि च परेऽत एत्स्यात् । देवेभ्यः । पञ्चम्येकवचने, देव ङसि । इकारो ङसो विशेषार्थः । डेन्डन्स्योरित्यात् । देवात् । For Personal & Private Use Only Page #29 -------------------------------------------------------------------------- ________________ खरान्ताः पुंलिङ्गाः। २१ देवाभ्याम्। देवेभ्यः। टाडन्सोरिति डसः स्याऽऽदेशे, देवस्य । ओस्येत्वेऽयादेशे, देवयोः। देव-आम् इति स्थिते । हखाऽऽपश्च ॥ १०॥ ह्रस्वादाबन्तात् स्त्रीदूदन्ताच्च परस्यामो नाम् स्यात् । दीर्घो नाम्यतिसृचतसृषः ॥ ११ ॥ . तिस-चतसृ-परान्तवर्जसमानस्य नामि परे दीर्घः स्यात् । देवानाम् । सप्तम्येकवचने, देवे । द्विवचने देवयोः । बहुवचने, एबहुस्भोसि इत्येत्वे, देवे-सु इति स्थिते । नाम्यन्तस्थाकवर्गात् पदान्तः कृतस्य सः शिडान्तरेपि ॥.१२॥ नाम्यन्तस्थाकवर्गेभ्यः परस्य पदमध्ये वर्तमानस्य केनचित् सूत्रेण कृतस्य सस्य षः स्यात् । शिटा नकारेण च व्यवधानेपि स्यात् । देवेषु । अदेतः स्यमोलक् ॥ १३॥ अकारान्तादेकारान्ताच्च सेस्तदादेशस्याऽमश्च संबोधने लुक् स्यात् । संबोधनाभिव्यक्तये हेशब्दस्य प्राक्प्रयोगः । हे देव । हे देवौ । हे देवाः। एवं घटपटादयोऽकारान्ताः पुंलिङ्गाः । सर्वादीनां तु For Personal & Private Use Only Page #30 -------------------------------------------------------------------------- ________________ . . . २२ हैमलघुप्रक्रियाव्याकरणे विशेषः । सर्व विश्व उभ उभयद् अन्य अन्यतर इतर डतर डतम त्व त्वत् नेम समसिमौ सर्वाौँ । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायाम् । खमज्ञातिधनाख्यायाम् । अन्तरम्बहिर्योगोपसंव्यानयोरपुरि । त्यद् तद् यद् अदस् इदम् एतद् एक द्वि युष्मद् अस्मद् भवतु किम्, इत्यसंज्ञायां सर्वादिः। एते सर्वादयस्त्रिलिङ्गाः। तत्र पुंलिङ्गे रूपाण्युच्यन्ते। जस इः॥ १४॥ सर्वादेरकारान्तस्य जस इः स्यात् । सर्वे । सर्व। सवौं । सर्वान् । सर्वेन इति जाते । रवर्णान्नो ण एकपदेऽनन्त्यस्याऽल चटतर्गशसान्तरे ॥ १५॥ रेफषकारऋवर्णेभ्यः परस्य एभिः सहैकपदस्थस्थाऽनन्त्यस्य नोण स्यात्। लादीन्विना शेषवर्णव्यवधानेऽपि भवति । सर्वेण । एकपद इति किम् ? अग्निर्नयति । चर्मनासिकः । अनन्त्य इति किम् ? सर्वान् । लादिवर्जनं किम् ? विरलेन । मूर्च्छनम् । दृढेन। तीर्थेन । रशना । रसना । सर्वाभ्याम्। सर्वैः । सर्वादेः स्मैस्मातौ ॥ १६॥ सादरकारान्तस्य उडन्स्योः सैसातौ स्याताम्। For Personal & Private Use Only Page #31 -------------------------------------------------------------------------- ________________ - - . . . . ' स्वरान्ताः पुंलिङ्गाः। सर्वस्मै । सर्वाभ्याम् । सर्वेभ्यः । सर्वस्मात् । सर्वाभ्याम् । सर्वेभ्यः । सर्वस्य । सर्वयोः। अवणेस्यामः साम् ॥ १७ ॥ ___ अवर्णान्तस्य सर्वादेरामः साम् स्यात् । एत्वपत्वे । सर्वेषाम् । ___स्मिन् ॥ १८॥ . सर्वादेरदन्तस्य : मिन् स्यात् । सर्वस्मिन् । सर्वयोः । सर्वेषु । हे सर्व । हे सवौं । हे सर्वे । नवभ्यः पूर्वेभ्य इस्मास्मिन्वा ॥१९॥ पूर्वादिनवकाजसूडसिडीनामिस्मास्मिनो वा स्युः । पूर्वे, पूर्वाः । पूर्वस्मात् , पूर्वात् । पूर्वस्मिन् , पूर्वे । नवकादिति किम् ? त्ये ।। नेमाईप्रथमचरमतयायाल्पकति - पयस्य वा ॥ २०॥ नेमादीनां शब्दानां तयायप्रत्ययान्तानां च जस इर्वा स्यात् । नेमे, नेमाः। द्वितये, द्वितयाः। त्रये, त्रयाः। अत्र नेमशब्दस्य सर्वादित्वान्नित्यं प्राप्ते शेषाणां चाप्राप्ते विकल्पः। द्वन्द्वे वा ॥ २१ ॥ द्वन्द्वसमासे सर्वादीनां जस इर्वा स्यात् । पूर्वापरे, पूर्वापराः। For Personal & Private Use Only Page #32 -------------------------------------------------------------------------- ________________ — २४ हैमलघुप्रक्रियाव्याकरणे न सर्वादिः ॥२२॥ द्वन्द्वे सर्वादिः सर्वादिन स्यात् । पूर्वापराय । कतरकतमानाम् । तीयं ङित्कार्ये वा ॥ २३ ॥ तीयान्तं डेडसिडिषु सर्वादिर्वा स्यात् । द्वितीयस्मै, द्वितीयाय।द्वितीयस्मात्, द्वितीयात्। द्वितीयस्मिन् , द्वितीये। तृतीयस्मै,तृतीयाय। तृतीयस्मात्, तृतीयात् । तृतीयस्मिन् , तृतीये । शेषं देववत् । उभशब्दो नित्यं द्विवचनान्तः । उभौ २ । उभाभ्याम् ३ । उभयोः २। उभयशब्दस्य द्विवचनाभावः । एवं च द्वित्वे उभशब्द एकत्वबहुत्वयोश्चोभयशब्दः प्रयोज्यः । उभयो मणिः । उभये देवमनुष्याः। मासशब्दस्य विशेषः। मासनिशासनस्य शसादौ लुग्वा ॥२४॥ शसादौ स्यादावेषां लुग्वा स्यात् । षष्ठया निर्दिप्टेऽन्त्यस्य कार्यम्। मासः, मासान् । मासा, मासेन । नाम सिदय्व्यञ्जने ॥२५॥ सिति प्रत्यये यवर्जव्यञ्जनादौ च परे नाम पदं स्यात् । अवर्णभोरिति रुलुकि । माभ्याम् । धुट- स्तृतीय इति दत्वे माद्भ्याम् । मासाभ्याम् । सर्वविभक्तिषु वा लुगिति केचित् । माः, मासः । Jain Education Inferriational For Personal & Private Use Only Page #33 -------------------------------------------------------------------------- ________________ दन्तपादनासिकाहृदयासृग्यूषोदकदोर्यकृच्छकतो दत्पन्नस्हृदसन्यूषन्नुदन्दोष- . न्यकञ्शकन् वा ॥ २६ ॥ शसादौ स्यादौ परे दन्तादीनां दशानां दप्रभृतयो दशादेशाः वा स्युः । दतः, दन्तान् । दयाम, दन्ताभ्याम् । पदः, पादान् । पयाम्, पादाभ्याम् । अनोऽस्य ॥ २७॥ ड्यामघुट्स्वरे च अनोऽस्य लुक् स्यात्। यूष्णः, यूषान् । नाम्रो नोऽनह्नः ॥२८॥ . पदान्ते नानो नस्य लुक् स्यात् । स चेदह्रो न स्यात् । यूषभ्याम् , यूषाभ्याम् । ईडौ वा ॥२९॥ ईकारे डौ च परेऽनोऽस्य लुग्वा स्यात्। यूष्णि, यूषणि, यूषे । आकारान्तो विश्वपा शब्दः। विश्वपाः, विश्वपौ । विश्वपाः । समानादमोतः। विश्वपाम् । ., लुगातोऽनापः॥ ३०॥ आपवर्जस्याकारस्य अन्यां शसादौ स्वरे परे च लुक् स्यात् । विश्वपः। विश्वपा । विश्वपाभ्याम् । अदेतः स्यमोरित्यत्रात एव लुक उक्तत्वात् , संबो व्या. ३ For Personal & Private Use Only Page #34 -------------------------------------------------------------------------- ________________ २६ हैमलघुप्रक्रियाव्याकरणे धने सिलोपाभावः । हे विश्वपाः । एवं सोमपाप्रभृतयः । इकारान्तो मुनिशब्दः । मुनिः । इदुतोऽखेरीदूत् ॥ ३१ ॥ स्वेरन्ययोरिदुतोरौता सह दीर्घः स्यात् । मुनी । जस्येदोत् ॥ ३२ ॥ इदुदन्तयोर्जसि परे एदोतौ स्याताम् । मुनयः । मुनिम् । मुनी । मुनीन् । टः पुंसि ना ॥ ३३ ॥ इदुदन्ताभ्यां पुंसि टाया ना स्यात् । मुनिना । मुनिभ्याम् । मुनिभिः । ङित्यदिति ॥ ३४ ॥ दिवर्जिते ङिति स्यादौ परे इदुतोरेदोतौ स्याताम् । मुनये | मुनिभ्याम् । मुनिभ्यः । एदोद्भयां ङसिङसो रः ॥ ३५ ॥ (प्रत्ययस्य विधीयमान आदेशः सर्वस्य स्यात् 1) मुनेः । मुनिभ्याम् । मुनिभ्यः । मुनेः । मुन्योः । मुनीनाम् । ङि ॥ ३६ ॥ इदुदन्तात्परो डिडौंः स्यात् । डित्यन्त्यखरादेः ॥ ३७ ॥ अन्त्यस्वरस्य तदादेः शब्दस्य च डिठ्ठात्यये लुक For Personal & Private Use Only Page #35 -------------------------------------------------------------------------- ________________ खरान्ताः पुंलिङ्गाः।। २७ स्यात् । मुनौ । मुन्योः । मुनिषु । संबोधने ह्रस्वस्य गुणः सिना सह । हे मुने । हे मुनी । हे मुनयः। एवं रविप्रभृतयः। साधुप्रभृतय उकारान्ता अप्येवम् । साधुः । साधू । साधवः । साधुम् । साधू । साधून । साधुना। साधुभ्याम् । साधुभिः। साधवे। साधुभ्याम् । साधुभ्यः । साधोः । साधुभ्याम् । साधुभ्यः । साधोः। साध्वोः। साधूनाम् । साधा। साध्वोः । साधुषु । हे साधो । हे साधू। हे साधवः। अतिक्रान्तः खियमतिस्विः। ... .. ... ... स्त्रियाः॥३८॥ स्त्रिया इवर्णस्य स्वरादौ प्रत्यये परे इय् स्यात् । अमि शसि च वा । अतिस्त्रियौ। जसि, तृतीयादौ च मुनिवत् । अतिस्त्रयः। अतिस्त्रिम्, अतिस्त्रियम्। अतिस्त्रिया, अतिखीन् । अतिरित्रणा। अतिस्त्रये। अतिस्त्रेः २। अतिस्त्रौ । ओसि च झ्यादेशः। - तिस्त्रियोः। तथोक्तम्। ओस्यौकारे च नित्यं स्यादम्-शसोस्तु विभाषया। इयादेशोऽचि नान्यत्र स्त्रियाः पुंस्युपसर्जने ॥१॥ (अनामन्यस्य सखिशब्दस्य सेर्डा वक्तव्यः) सखा । आमन्त्रणे तु । हे सखे। . सख्युरितो ऽशावत् ॥ ३९ ॥ इदन्तस्य सखिशब्दख स्वसम्बन्धिन्यन्यसम्बन For Personal & Private Use Only Page #36 -------------------------------------------------------------------------- ________________ ..... .. ... . हैमलघुप्रक्रियाव्याकरणे न्धिनि वा शिवर्जे शेषे घुटि ऐत् स्यात् । सखायौ। सखायः । सखायम् । सखायौ । सखीन् । _न ना ङिदेत् ॥ ४०॥ केवलसखिपतेर्यष्टाया ना डिति परे एच्चोक्तः स न स्यात् । सख्या । सख्ये । केवलेत्युक्तेः समस्तस्य स्यात् । प्रियसखिना । प्रियसखये । पञ्चमीषष्ठयेकवचनयोरेत्वनिषेधात् इवर्णादेरिति यत्वे। खितिखीतीय उर् ॥ १॥ एतत्संबन्धियात्परयोर्डसिङसोरुर स्यात् । सख्युः२। - केवलसखिपतेरौ ॥ ४२॥ केवलसखिपतिभ्यामिदन्ताभ्यां परो डिरौः स्यात् । सख्यौ । केवलेवेव । प्रियसखौ । केवलः पतिशब्दः प्रथमाद्वितीययोर्मुनिवत् । तृतीयादौ च सखिवत् । पत्या । पत्ये । पत्युः २ । पत्यौ । समस्तश्च सर्वत्र, मुनिवत् । मुनिपतिना । द्विशब्दो नित्यं द्विवचनान्तः। आ द्वेरः॥४३॥ द्विशब्दपर्यन्तानां त्यदादीनां स्वसम्बन्धिनि स्यादौ तसादौ च परे अः स्यात् । द्वौ। द्वौ । द्वाभ्याम् । द्वाभ्याम् । द्वाभ्याम् । द्वयोः । द्वयोः । स्वसम्ब• .. .. For Personal & Private Use Only Page #37 -------------------------------------------------------------------------- ________________ स्वरान्ताः पुंलिङ्गाः । ૨૬ न्धिनीति किं प्रियद्वी नरौ । त्रिशब्दो नित्यं बहुवचनान्तः । त्रयः । त्रीन् । त्रिभिः । त्रिभ्यः २ । त्रेत्रयः ॥ ४४ ॥ आमि त्रेस्त्रयः स्यात् । ( अनेकवर्णः सर्वत्र । ) त्रयाणाम् । तत्सम्बन्धिविज्ञानात् प्रियत्रीणाम् । त्रिषु । कतिशब्दो नित्यं बहुत्वे । डतिष्णः संख्याया लुप् ॥ ४५ ॥ डतिषनान्तानां संख्यावाचिनां स्वजस् - शसोलुप् स्यात् । कति २ । कतिभिः । कतिभ्यः २ ॥ कतीनाम् । कतिषु । स्वेति किं प्रियकतयः, प्रियकतीन् । एवं यति - तति - शब्दौ । ईकारान्तो नीशब्दः । नयतीति नीः । धातोरिवर्णोवर्णस्येयुव खरे प्रत्यये ॥ ४६ ॥ धातोरिवर्णोवर्णयोः स्वरादौ प्रत्यये इयुवौ स्याताम् । नियौ । नियः । निया । नीभ्याम् । नीभिः । निये ३ । नियः २। निय आम् ॥ ४७ ॥ नियः परस्य डेराम् स्यात् । नियाम् । हे नीः । एवं, लूः । लुवौ । लुवः । लुवि । हे लूः । सेनानीशब्दस्य विशेषः । सेनां नयतीति सेनानीः । For Personal & Private Use Only Page #38 -------------------------------------------------------------------------- ________________ . ... . ३० . हैमलधुप्रक्रियाव्याकरणे . किवृत्तेरसुधियस्तौ ॥ १८ ॥ क्विबन्तेनैव या वृत्तिः समासस्तस्याः सुधीशब्दवर्जितायाः संबन्धिनो धातोरिवर्णोवर्णयोः स्वरादौ स्यादौ य्वौ स्याताम् । सेनान्यौ । सेनान्यः ४ । सेनान्यम् , सेनान्याम् । सप्तम्येकवचने, निय आम्। सेनान्याम् । हे सेनानीः। एवं ग्रामणी-प्रभृतयः। सुलू' । सुल्वौ । सुल्वः । सुल्वां। सुल्वि। हे सुलूः। एवं खलपूप्रभृतयः । अत्र सुधीशब्दवर्जनात्तस्य नीशब्दवत्प्रक्रिया । सुधीः। सुधियौ । सुधियाम् । सुधियि। दृन्पुनवर्षाकारैर्भुवः॥४९॥ दृनादिपूर्वस्य भुवः स्वरादौ स्यादौ वः स्यात् । हनुभवौ। इनभ्वः । क्विवृत्तेरिति वत्वे सिद्धे नियमार्थमिदस् । सिद्धे सवारम्भो नियमार्थ इति । तेनान्यो भूशब्दो लूशब्दवत् । स्वयंभूः । स्वयंभुवौ । यवान्क्रीणातीति यवक्रीः। संयोगात् ॥५०॥ 'संयोगात्परयोर्धातोरिवर्णोवर्णयोः स्वरादौ इयुवौ स्याताम् । क्विवृत्तेरित्यस्यापवादः।यवक्रियो। यवक्रियः । एवं कटपूशब्दोऽपि । सुश्रीशब्दस्य वेबुवोऽस्त्रियाः ॥ ५१॥ For Personal & Private Use Only Page #39 -------------------------------------------------------------------------- ________________ स्वरान्ताः पुंलिङ्गाः । ३१ इयुवस्थानिनौ यौ नित्यस्त्रीलिङ्गावीदूतौ तदन्तात् स्त्रीवर्जात्परेषां स्यादेर्डितां दै दासू दासू दामो वा स्युः । ( आमो नाम् च वा वक्तव्यः, ) । सुश्रियै सुश्रिये । सुश्रियाः, सुश्रियः । सुश्रियाम्, सुश्रीणाम् । सुश्रियाम्, सुश्रियि । भ्रूश्नोः ॥ ५२ ॥ " भ्रूश्नोरुवर्णस्य स्वरादौ उद् स्यात् । अतिस्रुवै, अतिवे। अतिभ्रुवाः, अतिभ्रुवः २। अतिभ्रूणाम्, अतिवाम् । अतिवाम्, अतिभ्रुवि । हे अतिभ्रूः । नित्यं स्त्रीलिङ्गे वर्तमानत्वाभावात् ग्रामण्ये इत्यादौ आध्यै इत्यादौ इयुवस्थानित्वाभावाच्च नायं विधिः । विबन्ता धातुत्वं नोज्झन्ति शब्दत्वं च प्रतिपद्यन्ते इत्येषां धातुत्वं ज्ञेयम् । ऋकारान्तः पितृशब्दः ।... ऋदुशनस्पुरुदंशोऽनेहसश्च सेर्डा ॥ ५३ तसे ऋदन्तादुशनसादेश्च परस्य सेर्डाः स्यात् । पिता । अतिपिता ॥ १ सखायमिच्छति सखीयति सखीः । योऽनेकस्वरस्य । अनेI 'कस्वरस्य धातोरिवर्णस्य स्वरादौ प्रत्यये परे यः स्यात् । सख्यौ २ | सख्यः २ । सख्युः २ । सख्यां । सख्यि । एवं पतीः, पत्यौ । वसुमिच्छति वसूयति वसूयतीति वसुः । स्यादौ वः । अनेकखरस्य धातोरुवर्णस्य स्वरादौ स्यादौ परे वः स्यात् । वखौ । वस्खः ४ ( बखां बखि । हे वसूः । इमौ शब्दों पुस्तकान्तरे विचितों स्तः ॥ For Personal & Private Use Only Page #40 -------------------------------------------------------------------------- ________________ ३२ , हैमलधुप्रक्रियाव्याकरणे. । अझै च ॥ ५४॥ ऋतो डौ च घुटि च परे अर् स्यात् । पितरौ । पितरः । संबोधने हस्वस्य गुणः । हे पितः । पितरम् । पितरौ । पिढन् । पित्रा । पितृभ्याम् । पितृभिः । पित्रे । पितृभ्याम् । पितृभ्यः २।.. ऋतो डर ॥ ५५॥ - ऋतः परयोर्डसिङसोर्डर् स्यात् । पितुः २। पित्रोः २ । पितृणाम् । पितरि । पितृषु । एवं नृ-भ्रातृ-प्रभृतयः। किंतु, नुर्वा नामि दीर्घः। नृणाम् नृणाम् । कादीनां विशेषः। तृखसृनसृनेष्टुत्वष्टक्षत्तृहोतृपोतृप्र शास्त्रो घुव्यार् ॥ ५६ ॥ तृचतृन्नन्तस्य स्वनादीनां च धुण्यार् स्यात् । इति पञ्चस्वार प्रातावपि विशेषत्वात् ऋदुशनसित्यादिना सेडाः। कर्ता। अतिकर्ता । कर्तारौ । कर्तारः। कर्तारम्। कर्तारौ । शेषं पितृवत् । एवं नतृप्रभृतयः। क्रुशधातोस्तुन् प्रत्यये क्रोष्टुशब्दः। कुशस्तृनस्तृच पुंसि ॥ ५७ ॥ क्रुशो यस्तुन् तस्य शेषे पुटि परे तृच् स्यात् । क्रोष्टा । कोष्टारौ। क्रोष्टारः । शेषे धुटीत्येव । हे क्रोष्टो । घुटीति किम् । क्रोड्न ।। टादौ खरे वा ॥ ५८॥ ... *** For Personal & Private Use Only Page #41 -------------------------------------------------------------------------- ________________ स्वरान्ताः पुंलिङ्गाः ३३ तुनस्तृच् । क्रोष्ट्रा, क्रोष्टुना । क्रोष्टुभ्याम् ३। क्रोष्ट्रे, क्रोष्टवे । क्रोष्टुः, क्रोष्टोः २ । क्रोष्ट्रोः क्रोष्ट्रोः २ । आमि तु नित्यत्वात्पूर्वं नामि स्वरादित्वाभावात्तृजभावः । क्रोष्टूनाम् । क्रोष्टर, क्रोष्टौ । क्रोष्टुषु । ऋकारान्तादयोऽप्रसिद्धाः । एकारान्तः अतिहे शब्दः । अतिहेः । स्वरादावयादेशः । अतिहयौ । संबोधनेऽदेतः स्यमोरिति सिलुकि । हे अतिहे । ऐकारान्तः सुरैशब्दः । आ रायो व्यञ्जने ॥ ५९ ॥ व्यञ्जनादौ स्यादौ परे रैशब्दस्य आः स्यात् । सुराः । स्वरादावायादेशः । सुरायौ । ओकारान्तो गोशब्दः । ओत औघुटि ॥ ६० ॥ गौः । गावौ । गावः । आ अमासोऽता ॥ ६१ ॥ " अम्शसोरता सह ओत आः स्यात् । गाम् । । गावौ । गाः । गवा । गोभ्याम् । एदोद्भ्याम् ङसिङसोर, इति रत्वे । गोः २ । गवाम् । गोषु । एवं सुद्योप्रभृतयः । औकारान्तो ग्लौशब्दः । ग्लौः । ग्लावौ । हे ग्लौः । ग्लौभ्याम् । एवं सुनौप्रभृतयः । इति महोपाध्यायश्री कीर्त्ति विजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां हैमकंबुप्रक्रियायां खरान्ताः पुंलिङ्गाः । For Personal & Private Use Only Page #42 -------------------------------------------------------------------------- ________________ हैमलघुप्रक्रियाव्याकरणे अथ स्वरान्ताः स्त्रीलिङ्गाः ॥ आकारान्तः स्त्रीलिङ्गो गङ्गाशब्दः दीर्घड्याळ्यञ्जनात्सेः ॥ १ ॥ दीर्घडयावन्ताभ्यां व्यञ्जनाश्च परस्य सेर्लुक् स्यात् । गङ्गा । औता ॥ २ ॥ आवन्तस्य औता सह एत् स्यात् । गङ्गे । गङ्गाः । गङ्गाम् । गङ्गे शिसि पुंस्त्वाभावान्नत्वाभावेऽकारेण सह दीर्घ एव । गङ्गाः । . टौस्येत् ॥ ३ ॥ आंबन्तस्य टौसोः परयोरेत्वं स्यात् । गङ्गया । गङ्गाभ्याम् २ । गङ्गाभिः । आपो ङितां यै यास् यास् याम् ॥४॥ आबन्तात् परेषां ङितामेते आदेशाः स्युः । गङ्गायै । गङ्गायाः २ । हस्वापश्चेति आमो नामादेशे, गङ्गानाम् । गङ्गायाम् । गङ्गयोः २ | गङ्गासु । दापः संबोधने ॥ ५ ॥ आबन्तस्य सिना सह एत्स्यात् । हे गने । हे गङ्गे । हे गङ्गाः । नित्यदिदद्विखराम्बार्थस्य ह्रस्वः ॥ ६ ॥ नित्यं दैदासादयो येभ्यस्ते नित्यदितस्तेषां द्विस्वतम्बार्थानां च सिना सह ह्रस्वः स्यात् । For Personal & Private Use Only Page #43 -------------------------------------------------------------------------- ________________ खरान्ताः स्त्रीलिङ्गाः। अम्ब । हे अल्ल । हे अक । हे अत्त । एवं श्रद्धाधादयः । (शसादौ स्यादौ परे निशाया अन्त्यस्य लुक् नासिकाया नसादेशश्च वा ।) निशा,निशाः। निशा, निशया । निजभ्याम्, निशाभ्याम् । निच्छु। नसः, नासिकाः। नोभ्याम्, नासिकाभ्याम् । सर्वादेर्डस्पूर्वाः ॥७॥ - सर्वादेराबन्तस्य डिन्तां ये यास् वास् यामो डस्पूर्वाः स्युः । सर्वस्वैः। सर्वस्याः २ । सर्वस्याम् । शेषं गङ्गावत् । - जराया जरखा ॥८॥ स्वसम्बन्धिन्यन्यसम्बन्धिनि वा स्वरादौ स्यादौ। जरसौ, जरे २।जरसः, जराः२। जरसा, जरया। जराभ्याम् ४ । अतिजरसौ । इकारान्तो बुद्धिशब्दः। स च प्रायो मुनिवत् । बुद्धिः । बुद्धी । बु-. द्धयः। हे बुद्धे । बुद्धिम् । बुद्धी । बुद्धी बुखा। स्त्रियां ङितां वा दैदासदासदाम्॥९॥ स्त्रीलिङ्गादिदुदन्तात्परेषां स्वसम्बन्धिनामन्यसम्बन्धिनां च डिन्तामेते आदेशा वा स्युः। दकारो विशेषार्थः। बुद्ध्यै, बुद्धये । बुद्ध्याः २ बुद्धेः २ । बुध्याम्, बुद्धौ । एवं प्रियबुद्ध्यै, प्रियबुद्धये पुंसे । एवं मति-भूति-प्रभृतयः। धेनुः । धेनू । धेनवः। हे धेनो । धेनुम् । धेनू । धेनूः । धेन्वान् । For Personal & Private Use Only Page #44 -------------------------------------------------------------------------- ________________ हैमलघुप्रक्रियाव्याकरणे धेनवे । धेन्वाः, धेनोः २ । धेन्वाम्, धेनौ । प्रियधेन्वै प्रियधेनवे पुंसे । ईकारान्तो नंदीशब्दः । दीर्घयाविति सिलुकि । नदी । नद्यौ । नद्यः । नदीम् । नद्यौ । नदीः । नद्या । स्त्रीदूतः ॥ १० ॥ 1 नित्यस्त्रीलिङ्गादीदूदन्तात्परेषां स्वाऽस्वडितां दैदासूदास दामो नित्यं स्युः । नद्यै । नद्याः २ । नद्याम् । स्वास्वेतिवचनात् प्रियनद्यै पुंसे । संबोधने नित्यदित्त्वास्खे, हे नदि । एवं गौरीप्रभृतयः । स्त्रीशब्दस्य ङन्यन्तत्वात्सेलुकि, स्त्री । स्वरादौ इतीयादेशे, स्त्रियौ । स्त्रियः । वाम्शसि । स्त्रियम् स्त्रीम् । स्त्रियः, स्त्रीः । स्त्रिया । स्त्रियै । हे त्रि । लक्ष्मीशब्दस्य जयन्तत्वाऽभावात्सेर्लुग्नास्ति । लक्ष्मीः । शेषं नंदीवत् । वधूः । वध्वौ । वध्वः । वधूम् । वध्वौ । वधूः । वध्वा । वध्यै । वध्वाः २ । वध्वाम् । हे वधु । एवं जम्ब्वादयः। श्री-ही- धीशब्दाः सुश्रीवत् । भूः स्वयंभूवत् । वरतिवत् । मातृशब्दः पितृवत् । माता मातरौ । मातुः । स्वसृशब्दः कर्तृवत् । स्वसा । स्वसारौ । स्त्रियां कुशस्तुनस्तृच् निर्निमित्त एव स्यात् । ततो उच्चां क्रोष्ट्री । रै-गो- नौ शब्दाः प्राग्वत् । इति महोपाध्यायश्री कीर्तिविजयमणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां हैमलघु प्रक्रियायां खरान्ताः स्त्रीलिङ्गाः । For Personal & Private Use Only Page #45 -------------------------------------------------------------------------- ________________ स्वरान्ता नपुंसकलिङ्गाः । अथ खरान्ता नपुंसकलिङ्गाः ॥ तत्र अकारान्तो नपुंसकलिङ्गः कुलशब्दः । अतः स्वमोऽम् ॥ १ ॥ अकारान्तस्य नपुंसकस्य स्वस्य मोरम् स्यात् । कुलम् । औरीः ॥ २ ॥ नपुंसकस्य स्वऔरीः स्यात् । कुले । नपुंसकस्य शिः ॥ ३ ॥ ३५ नपुंसकस्य जस्-शसोः शिः स्यात् । स च घुटूसंज्ञकः, शेषघुट्संज्ञकश्च । शकारो विशेषार्थः । स्वराच्छौ ॥ ४ ॥ शौ परे स्वरान्तान्नपुंसकात् नोऽन्तः स्यात् । नि दीर्घः ॥ ५ ॥ शेषघुट्परे नकारे परे स्वरस्य दीर्घः स्यात् । कुलानि । द्वितीयायामप्येवम् । अदेतः स्यमोरिति सिलुकि हे कुल । तृतीयादिषु देववत् । सर्वादिवन्यादीनां विशेषः । पञ्चतोऽन्यादेरनेकतरस्य दः ॥ ६ ॥ अन्यादिपञ्चकस्यैकतरवर्जस्य स्यमोर्दः स्यात् । अन्यदू । विरामे वा ॥ ७ ॥ विरामस्थस्य शिर्जस्य धुटः स्वप्रथमो वा व्यां. ४ For Personal & Private Use Only Page #46 -------------------------------------------------------------------------- ________________ ३८ हैमलघुप्रक्रियाव्याकरणे स्यात् । अन्यत् । अन्यतरद् २। इतरद् २। कतरद् २ | कतमद् २ । एकतर वर्जनादेकतरम् | ( आसनस्य शसादौ स्यादौ परेऽन्त लुग्वा ।) आस्यशब्दस्यासन्नादेश इति पाणिनीयाः । आसानि । आस्ता । आसभ्याम् । ( हृदयोदकयोर्हदुदन्नादेशौ च शसादौ वा । ) 1 घुटां प्राक् ॥ ८ ॥ स्वरात्परा या धुड्जातिस्तदन्तस्य घुटि परे धुटः प्राग्नोऽन्तः स्यात् । नां धुर्गेऽन्त्योऽपदान्ते ॥ ९ ॥ अपदान्तस्थानां नां वर्ये धुटि परे पुरःस्थधुसंबन्धी पञ्चमः स्यात् । हृन्दि । हृदा । हृद्भ्याम् । उदानि । उद्भा । उदभ्याम् । पक्षे त्वासनादयः कुलवत् । क्लीबे ॥ १० ॥ नपुंसकस्य स्वरान्तस्य ह्रस्वः स्यात् । विश्वपम् । इत्यादि कुलवत् । इकारान्तो वारिशब्दः । अनतो लुप् ॥ ११ ॥ अकारान्तवर्जनपुंसकस्य स्यमोलुप् स्यात् । वारि २ | वारि औ इति स्थिते औरीः, इतीकारे जाते । अनामूखरे नोऽन्तः ॥ १२ ॥ नाम्यन्तस्य नपुंसकस्याऽऽभूवर्जे स्वरादौ स्यादौ For Personal & Private Use Only Page #47 -------------------------------------------------------------------------- ________________ स्वरान्ता नपुंसकलिङ्गाः। ३९ नोऽन्तः स्यात् । वारिणी २। वारीणि २। वारिणा। वारिणे । वारिणः २। वारिणोः २। आमि मुनिवत् । वारीणाम् । वारिणि । संबोधने । नामिनो लुग्वा ॥१३॥ नाम्यन्तस्य नपुंसकस्य स्यमोलुंग् वा स्यात् । लुकि च स्थानिवद्भावाल्लुप्तप्रत्ययनिमित्तकं कार्य स्यादिति सिना सह गुणे हे वारे । पक्षे अनतो लुबिति सेलृप् । लुपि न तनिमित्तमिति गुणाभावे हे वारि । स्वसम्बन्धिविज्ञानात् हे प्रियवारे नर, नात्र विकल्पः । मधु २। मधुनी २। मधूनि २ । मधुना । हे मधो । हे मधु । दध्यादीनां टादौ विशेषः। दध्यस्थिसक्थ्यक्ष्णोऽन्तस्यान् ॥ १४ ॥ एषां नपुंसकानां स्वेऽस्वे वा टादौ स्वरे अन् स्यात् । अनोऽस्येत्यल्लुकि । दना। प्रियदना । ईडौ वा । दनि, दधनि. । अस्ना । अत्यस्ना । सना। अक्षणा । इह द्विधा लिङ्गव्यवस्था । केचिद् दध्यादिवजातिशब्दाः स्वत एव लिङ्गमुपाददते । गुणक्रियाद्रव्यसंबन्धनिमित्ताश्च केचित्पादिवद्विशेघ्यानुरूपं लिङ्गमिति । ___ वान्यतः पुमांष्टादौ खरे ॥ १५॥ अन्यतो विशेष्यवशानपुंसको नाम्यन्तष्टादौ स्वरे पुंवद्वा स्यात् । पटुना २। पटुने, पटवे । प For Personal & Private Use Only Page #48 -------------------------------------------------------------------------- ________________ 88 हैमलघुप्रक्रियाव्याकरणे 1 टुनः । पटोः २ । पटूनाम् २। पटुनि, पटौ । नी-ग्रामण्यादिशब्दानां ह्रस्वत्वे नि, ग्रामणि कुलं । निनी ग्रामणिनी । निना, निया ग्रामण्या, ग्रामणिना । निनि । ग्रामणिनि । नियां, ग्रामण्याम् । हे ने, हे नि । ग्रामणे, हे ग्रामणि । कर्तृ । कर्तृणी । कर्तृणि २ | हे कर्तः । हे कर्तृणी । हे कर्तॄणि । कर्त्रा । कर्तृभ्यां । कर्तृभिः । कर्त्रे । एदैतोर्हस्वत्वे इकार ओदौत उकारश्च वाच्यौ । ततश्च अतिहि अतिरि अतिगु अतिनु कुलमित्यादि प्राग्वत् । इति महोपाध्यायश्री कीर्तिविजय गणिशिष्योपाध्यायश्रीविनयविज• यगणिविरचितायां हैमलघुप्रक्रियायां खरान्ता नपुंसकलिङ्गाः ॥ अथ व्यञ्जनान्ताः पुल्लिङ्गाः । तत्र चकारान्तः सुवाच्शब्दः । चजः कगम् ॥ १ ॥ धुटि प्रत्यये पदान्ते च चजोः कगौ स्याताम् । घुटस्तृतीय इति, सुवाग् । विरामे वा । सुवाक् । सुवाच । सुवाग्भ्याम् । सुवाक् सु इति स्थिते, नाम्यन्तस्थेति षत्वे । कुषसंयोगे क्षः । सुवाक्षु । हे सुवाकू, हे सुवाग् । प्रत्यच् स् इति स्थिते । अचः ॥ २ ॥ अञ्चतेर्धातोर्घुडम्तस्य घुटि परे घुटः प्राग् नो For Personal & Private Use Only Page #49 -------------------------------------------------------------------------- ________________ व्यंजनान्ताः पुल्लिङ्गाः । #t ऽन्तः स्यात् । दीर्घङन्याबिति सिलुकि, पदस्य संयोगान्तस्य लुक् स्यादिति चलुक् । युजञ्चकुचो नो ङः ॥ ३॥ एषां नस्य पदान्ते ङः स्यात् । प्रत्यङ् । तव - र्गस्य श्चवर्गेति, प्रत्यञ्चौ । प्रत्यञ्चः । संबोधनेऽप्येवम् । प्रत्यञ्चम् । प्रत्यचौ । अच्च् प्राग् दीर्घश्च ॥ ४ ॥ || 8 | णिक्यघुट्वर्जे यकारादौ स्वरादौ च प्रत्यये अचश्च इत्यादेशः स्यात्, पूर्वस्वरस्य च दीर्घः । प्रतीचः । प्रतीचा । प्रत्यग्भ्याम् । प्रत्यक्षु । प्राङ् । प्राञ्चौ । प्राञ्चः । हे प्राङ् । प्राचा । प्राग्भ्याम् । उदच उदीच् ॥ ५ ॥ णिक्यघुटुर्जे यकारादौ स्वरादौ च । उदङ् । उदचौ । उदश्चः । उदीचः । उदीचा । उदग्भ्याम् । सहसमः सघिसमि ॥ ६ ॥ क्विबन्तेऽञ्चतौ परे । सह अञ्चतीति सध्यङ् । सध्यञ्चौ | सध्यञ्चः । सधीचः । सधीचा । सममञ्चतीति, सम्यङ् । सम्यञ्चौ । सम्यञ्चः । समीचः । समीचा । सम्यग्भ्याम् । तिरसस्तिर्यति ॥ ७ ॥ अकारादौ विबन्तेऽञ्चतौ परे तिरसस्तिरिः स्यात् । तिर्यङ् । तिर्यश्चौ । तिर्यञ्चः । अकारादाविति For Personal & Private Use Only Page #50 -------------------------------------------------------------------------- ________________ ४२ हैमलघुप्रक्रियाव्याकरणे किम् । अचश्चादेशे मा भूत् । तिरश्चः । तिरश्चा । तिर्यग्भ्याम् । यजसृजमृजराजभ्राजभ्रस्जत्रश्चपरिव्राजः ET: : 11 6 11 यजादीनां धातूनां चजोर्धातोः शस्य च धुटि प्रत्यये पदान्ते च षः स्यात् । धुटस्तृतीय इति त्वे । देवेडू, देवेट् । देवेजौ । देवेड्भ्याम् । डुः सः त्सोऽश्वः ॥ ९ ॥ पदान्तस्थाभ्यां डनाभ्यां परस्य सस्य तादिः सो वा स्यात्, अश्वः श्वावयवश्चेत्सो न स्यात् । देवे, देवेट् । हे देवे, हे देवेट् । तीर्थसृड्, तीर्थसृट् । कंसपरिमृड्, कंसपरिमृट् । सम्राड्, सम्राट् । विश्वाडू, विभ्राट् । संयोगस्यादौ स्कोर्लुक् ॥ १० ॥ I धुट्पदान्ते संयोगादिस्थयोः स्कोर्लुक् स्यात् । धानाभृडू, धानाभृट् । सस्य शषाविति, सस्य शत्वे । तृतीयस्तृतीयचतुर्थे इति शस्य जत्वे, धानाभृज्जौ । एवं मूलवृडू, मूलवृट् । मूलवृचौ । परिव्राडू, परि व्राट् । समासे ॥ ११ ॥ युज्रम्पीयोगे इत्यस्यासमासे घुटि परे धुदः प्राग् For Personal & Private Use Only Page #51 -------------------------------------------------------------------------- ________________ व्यवनान्ताः पुल्लिङ्गाः। . नोऽन्तः स्यात् । युङ् । युञ्जौ । युजा । युग्भ्याम् । असमासे इति किम् ? अश्वयुक्, अश्वयुम् । युज इति किम् ? युजिञ्च् समाधौ। युजमापन्ना मुनयः। (पदान्ते ऋत्विजो गत्वं वाच्यम्*) ऋत्विक्, ऋस्विर । तकारान्तो मरुत् शब्दः। मरुत्, मरुद् । मरुतौ । मरुद्भ्याम् । ऋकारानुबन्धो महत् शब्दः। ___ऋदुदितः ॥ १२॥ ऋदित उदितश्च घुटि परे धुटः प्रार नोऽन्तः स्यात् । पदस्येति तलोपे। स्महतोः ॥ १३॥ न्सन्तस्य महतश्च स्वरस्य शेषे घुटि परे दीर्घः स्यात् । महान् । महान्तौ । शेषघुटीत्येव । हे महन् । हे महान्तौ । हे महान्तः। महतः । शतृप्रत्ययान्तानां घुटि दीर्घाभावो विशेषः । पचन् । पचन्तौ । पचन्तः । हे पचन् । उकारानुबन्धो भवत् शब्दः। अभ्वादेरत्वसः सौ ॥ १४॥ अत्वन्तस्यासन्तस्य च भ्वादिवर्जस्य शेषे सौ परे दीर्घः स्यात् । भवान् । भवन्तौ । भवन्तः । हे भवन् । मतुष्प्रत्ययान्ता अप्येवम् । गोमान् । गोमन्तौ । हे गोमन् । थकारान्तो दधिमथ्शब्दस्तस्य धुटस्तृतीय इति दत्वे । दधिमद्, दधिमत् । For Personal & Private Use Only Page #52 -------------------------------------------------------------------------- ________________ । ४४ हैमलघुप्रक्रियाव्याकरणे दधिमथौ । दधिमत्सु । हे दधिमद्, हे दधिमत् । दकारान्तास्त्यदादयस्तेषामाद्वेर इत्यत्वे । लुगस्यादेत्यपदे ॥१५॥ अपदादावकारे एकारे च परे अस्य लुक् स्यात्। त्य इति जाते। __तः सौ सः॥ १६ ॥ - द्विशब्दान्तानां त्यदादीनां स्वसंबन्धिनि सौ परे तः सः स्यात् । स्यः । त्यौ। त्ये । इत्यादि सर्ववत् । स्वसंबन्धिनीति किम् ? प्रियत्यद् । सः। तौ । ते । यः । यौ । ये । एषः । एतौ । एते। त्यदामेनदेतदो द्वितीयाटौस्यवृत्त्यन्ते॥१७॥ किञ्चिद्विधातुं कथितस्य पुनरन्यद्विधातुं कथनमन्वादेशस्तस्मिन् गम्यमाने द्वितीयाटौसि परे एतद् एनत् स्यात्, न तु वृत्त्यन्ते । आगत एषः। अथो एनं भोजय । एनं । एनौ । एनान् । एनेन । एतयोः, एनयोः। अन्वादेशाभावे । एतम् । एतौ। एतान् । वृत्त्यन्तेऽपि । परमैतं पश्य । इदमोऽप्येवम् । धकारान्तो धर्मबुधशब्दः। गडदबादेश्चतुर्थान्तस्यैकखरस्यादे। श्चतुर्थः स्ध्वोश्च प्रत्यये ॥१८॥ यस्य गडदबानां कोऽप्यादौ भवति चतुर्थश्चान्ते For Personal & Private Use Only Page #53 -------------------------------------------------------------------------- ________________ व्यजनान्ताः पुल्लिङ्गाः। '. . भवति तस्यैकस्वरस्य शब्दावयवस्यादेश्चतुर्थःस्यात्, पदान्ते सादौ ध्वादौ च प्रत्यये परे । धर्मभुत्, धर्मभुद् । धर्मबुधौ । हे धर्मभुत् हे धर्मभुद् । धर्मभुयाम् । धर्मभुत्सु । नकारान्तो राजन् शब्दः। नि दीर्घ इति दीर्थे । राजा । राजानौ । राजानः। अघुट्स्वरेऽनोऽस्येत्यल्लोपे नस्य अत्वे जजोः । राज्ञः । राज्ञा । राजभ्याम् । असदधिकारविहितस्य नलोपस्यासत्वादीर्घाभावः । राज्ञे । राज्ञः। राज्ञः। राज्ञोः । राज्ञाम् । राज्ञि, राजनि । राजसु । नामन्ये ॥ १९॥ संबोधने नानो नस्य लुगू न स्यात्। हे राजन्। न वमन्तसंयोगात् ॥ २० ॥ वान्तान्मान्ताच्च संयोगात्सरस्यानोऽस्य लुगू न स्यात् । यज्वनः । यज्वना । आत्मनः । आत्मनि । शेषं राजन्वत् । एवं सुपर्वन्प्रभृतयः ।। इन्हन्पूषार्यम्णः शिस्योः ॥ २१ ॥ इन्नन्तस्य हनादीनां च शिस्योरेव दीर्घः स्यात् । नि दीर्घ इति दीर्घ सिद्धे नियमार्थोऽयं योगः । दण्डी । दण्डिनौ । दण्डिनः । दण्डिना । दण्डिभ्याम् । हे दण्डिन् । विन्प्रत्ययान्ता अप्येवम् । वचस्वी । वचस्विनौ २ । वृत्रहा । कवर्गकखरवति ॥ २२ ॥ For Personal & Private Use Only Page #54 -------------------------------------------------------------------------- ________________ ४६ हैमलघुप्रक्रियाव्याकरणे पूर्वपदस्थाद्रादेः परस्य कवर्गवत्येकस्वरवति चोत्तरपदे नो ण् स्यात् । न चेदसौ पक्वस्य । वृत्रहणौ। हनो हो नः ॥ २३ ॥ हन्तेह्रौं नः स्यात् । हनो घि ॥ २४ ॥ - हनो घकारे निमित्तनिमित्तिनोरन्तरे सति नो णो न स्यात् । वृत्रघ्नः। वृत्रनि, वृत्रहणि । पूषा । पूषणौ । पूष्णि, पूषणि । अर्यमा । अर्यमणौ । अर्यम्णः । इत्यादि। श्वन्युवन्मघोनो ङीस्याद्यघुट्खरे व उः२५ ड्यां स्याद्यघुट्स्वरे च श्वनादीनां व उ: स्यात् । श्वा । श्वानौ । श्वानः । हे श्वन् । शुनः। शुना। युवा । युवानौ । हे युवन् । यूनः । मघवा । मघवानौ । मघोनः । हे मघवन् । मघवच्छब्दस्तु मत्वन्तः । मघवान् । पथिन्मथिन्ऋभुक्षः सौ॥ २६ ॥ पथ्यादीनां नान्तानामन्तस्य सौ परे आः स्यात् । इति नकारस्य आत्वे । एः ॥ २७॥ पथ्यादीनामिकारस्य घुटि परे आः स्यात् । पथा इति जाते। For Personal & Private Use Only Page #55 -------------------------------------------------------------------------- ________________ व्यञ्जनान्ताः पुल्लिङ्गाः । थोन्थ् ॥ २८ ॥ पथिन्मथिनोर्नान्तयोस्थस्य घुटि परे न्यू स्यात् । पन्थाः । पन्थानौ । पन्थानः । हे पन्थाः । इन् ङीखरे लुक् ॥ २९ ॥ ङयामघुट्स्वरे च परे पथ्यादीनामिनो लुक् स्यात् । पथः । पथा । पथिभ्याम् । मन्थाः । मन्थानौ । मथः । ऋभुक्षाः । ऋभुक्षः । पश्ञ्चनप्रभृतयो बहुवचनान्ताः नान्ताः सङ्ख्याशब्दाः त्रिषु लिङ्गेषु सरूपाः । इति ष्ण इति जस्शस्लुपि । पञ्च । पञ्च । पञ्चभिः । पञ्चभ्यः २ । ४७ सङ्ख्यानां र्णाम् ॥ ३० ॥ रषनान्तानां सङ्ख्यावाचिनां स्वसंबन्धिन आमो नाम् स्यात् । दीर्घो नाम्यतिसृचतसृषु इति दीर्घे । नाम्नो नोऽनह इति नलोपे । पञ्चानाम् । स्वसंबन्धिन इत्येव । प्रियपञ्चाम् । पञ्चसु । प्रियपञ्चादयो राजन्वत् । एवं सप्तन्प्रभृतयः । वाष्टन आः स्यादौ ॥ ३१ ॥ अष्टनः स्यादौ परे आ वा स्यात् । अष्ट और्जसुशसोः ॥ ३२ ॥ अष्टनः कृतात्वस्य जस्-शसोरौः स्यात् । अष्टौ । अष्टौ । अष्ट । अष्ट । अष्टाभिः, अष्टभिः । अ For Personal & Private Use Only Page #56 -------------------------------------------------------------------------- ________________ हैमलघुप्रक्रिया व्याकरणे ष्टाभ्यः, अष्टभ्यः । अष्टानाम् । अष्टासु, अष्टसु, प्रियाष्टाः प्रियाष्टा । भकारान्तस्तुण्डिम् शब्दः । गडदवादेरिति ढत्वे । तुण्ढिबू, तुण्डि । तुण्डिभौ । मकारान्त इदम् शब्दः । ४८ अयमियं पुंस्त्रियोः सौ ॥ ३३ ॥ पुंस्त्रीलिङ्गयोरिदंशब्दस्य स्वसंबन्धिनि सौ परे अयमियमौ स्याताम् । अयम् । स्वसंबन्धिनीति किम् ? प्रियेदम् ना स्त्री वा । द्विवचने आद्वेर इति मस्य अवे । दो मः स्यादौ ॥ ३४ ॥ स्वस्यादौ परे इदमो दो मः स्यात् । इमौ । इमे । इमम् । इमौ । इमान् । अन्वादेशे एनत् । एनम् । एनौ । इत्यादि । टौस्यनः ॥ ३५ ॥ स्वसोः परयोरनकस्य इदमोऽनः स्यात् । अनेन । स्व इत्येव । प्रियेदमा | अनक इत्येव । इमकेन । अनकू ॥ ३६ ॥ व्यञ्जनादौ स्वस्यादौ परे अनकस्य इदमो अः स्यात् । आभ्याम् । इदमदसोरक्येव । स्व इति किम् ? प्रियेदम्भ्याम् । भिस ऐस् इति नियमादेद्वहु For Personal & Private Use Only Page #57 -------------------------------------------------------------------------- ________________ व्यजनान्ताः पुल्लिङ्गाः। स्भोसीत्येत्वे । एभिः । अकि तु । इमकैः । अस्मै । अस्मात् । अस्य । अनयोः । एषाम् । अस्मिन् । किमः कस्तसादौ च ॥ ३७॥ स्यादौ तसादौ परे किमः कः स्यात् । कः साकोऽपि । कः । कौ । के। सर्ववत् । चतुर्शब्दो बहुवचनान्तः। वाः शेषे ॥ ३८॥ स्वेऽस्वे वा शेषे घुटि परेऽनडुच्चतुरोरुतो वाः स्यात् । चत्वारः । चतुरः । चतुर्भिः। चतुर्म्यः २। चतुण्णाम् । अरोः सुपि रः॥ ३९ ॥ रोरन्यस्य रस्य सुपि परे र एव स्यात् । चतुर्ष । प्रियचत्वाः। प्रियचत्वारौ.२ ॥ उतोऽनडुच्चतुरो वः ॥ ४०॥ संबोधने सौ । हे प्रियचत्वः । शकारान्तो विशशब्दः । यजसृजेति षत्वे । विड्, विट् । विशौ । वित्सु, विट्सु।तत्त्वप्राइ, तत्त्वप्राट्।तत्त्वप्राशौ २॥ ऋत्विदिश्श्स्पृशत्रज्दधृष्ठ ष्णिहो गः ॥४१॥ . एषां पदान्ते गः स्यात्। वाहग, ताहक् । तार . व्या. ५ For Personal & Private Use Only Page #58 -------------------------------------------------------------------------- ________________ १० हैमलघुप्रक्रियाव्याकरणे शौ २। तादृग्भ्याम् २। सहगादयोऽप्येवम्। घृत. स्मृक्, घृतस्पृश् । घृतस्पृशौ २ । घृतस्पृग्भ्याम् ३ । नशो वा ॥ ४२ ॥ नशः पदान्ते ग् वा स्यात् । जीवनम् जीवनक् । जीवनइ जीवनट् । जीवनशौ २ । जीवनग्भ्याम् जीवनभ्याम् । जीवनक्षु जीवनट्त्सु जीवनदसु । षकारान्तो दधृष् शब्दः । दधृर दधृक् । दधृषौ । दधृग्भ्याम् । . सजुषः ॥४३॥ पदान्ते रुः स्यात् । पदान्ते ॥४४॥ पदान्तस्थयोदेवोः परयोस्तस्यैव नामिनो दीर्घः स्यात् । सजूः । सजुषौ । हे सजूद । सजू ाम् । सजूर्षु । षष्शब्दो नित्यं बहुवचनान्तः । षट् षड् । षण्णाम् षद्सु । प्रियषट् प्रियषड् । प्रियषषौ । सकारान्तः सुवचस् शब्दः । अभ्वादेरत्वसः सौ इति दीर्घ सुवचाः। सुवचसौ २। सुवचोभ्याम् ३ । सुवचस्सु । हे सुवचः । एवं सुमनस्प्रभृतयः। रात्सः ॥ ४५ ॥ पदस्य संयोगान्तस्य यो रस्ततः परस्य सदैव For Personal & Private Use Only Page #59 -------------------------------------------------------------------------- ________________ लुक् स्यात् । चिकीर्षतीति चिकीः । चिकीर्षौ । चिकीर्भ्याम् । चिकीर्षु । हे चिकीः । उकारानुबन्धः श्रेयसुशब्दः । ऋदुदित इति नुमागमे । न्सुमहतोरिति दीर्घे च । श्रेयान् । शिड्हेऽनुस्वारः ॥ ४६ ॥ अपदान्तस्थानां म्नां शिटि हे च परेऽनुस्वारः स्यात् । श्रेयांसी । हे श्रेयन् । श्रेयोभ्याम् । कंसुप्रत्ययान्ता अप्येवम् । विद्वान् । विद्वांसौ । हे विद्वन् । · क्कसुष्मतौ च ॥ ४७ ॥ णिक्यघुर्जेयादौ स्वरादौ मतौ च क्वसू उष् स्यात् । विदुषः । विदुषा । स्रंस्ध्वंस्कसनडुहो दः ॥ ४८ ॥ स्रंसूध्वंसोः क्वसूप्रत्ययान्तस्यानडुहश्च पदान्ते दः स्यात् । विद्वद्भ्याम् । विद्वत्सु । उदित् पुंसुशब्दः । पुंसोः पुमन्स् ॥ ४९ ॥ घुटि । पुमान् । पुमांसौ । हे पुमन् । पुंसा । पदस्येति स्लोपे पुंभ्याम् । पुंसि । दोस्शब्दस्य स्वरादौ पत्वं व्यञ्जनादौ च रुत्वम् । दोः । दोषौ २ ॥ हे दोः । शसादौ स्यादौ वा दोषन्नादेशे । दोष्णः दोषः । दोष्णा दोषा । दोर्भ्याम् दोषभ्याम् ३ । For Personal & Private Use Only Page #60 -------------------------------------------------------------------------- ________________ १२ हैमलघुप्रक्रियाव्याकरणे . दोष्णि दोषणि दोषि । दोष्षु । उशनसूशब्दस्य ऋदुशनसिति सेर्डा । उशना । उशनसौ । वोशनसो नश्वामध्ये सौ ॥५०॥ उशनसः संबोधने नलुको वा स्याताम् । हे उशनन् हे उशन हे उशनः । पुरुदंशा । पुरुदं. शसौ । अनेहा। अनेहसौ। हे पुरुदंशः। हे अनेहः। अदसो दः सेस्तु डौ॥ ५१॥ - स्वसंबन्धिसौ परें अदसो दः सः स्यात् । सेस्तु डौ । असौ असकौ । हे असौ । स्वसंबन्धीति किम् । अत्यदाः। मोऽवर्णस्य ॥ ५२ ॥ - अवर्णान्तस्यादसो दो म स्यात् । अमौ इति जाते। मादुवर्णोऽनु ॥ ५३॥ " अदसो मः परस्य वर्णस्य उवर्णः स्यात् । हस्वस्थाने ह्रस्वो दीर्घस्थाने दीर्घः । अनु पश्चात्कार्यान्तरेभ्यः । अमू । सर्वादित्वाजस इः । अमे इति जाते। बहुष्वेरीः॥ ५४॥ . बहुवचनान्तस्यादस एरीः स्यात् । अमी । हे असौ । अमुम् । अमू । अमून् । अम टा इति For Personal & Private Use Only Page #61 -------------------------------------------------------------------------- ________________ ": i . NAS व्यञ्जनान्ताः पुल्लिङ्गाः । प्रागिनात् ॥ ५५॥ अदसो मः परस्य वर्णस्य इनादेशालागुवर्णः स्यात् । अमुना । अमूभ्याम् । इदमदसोऽक्येवेति नियमाद्भिस ऐस्त्वाभावे । एबहुस्भोसीत्येत्वे । बहुवेरीः। अमीभिः । अम स्मै इति जाते। मादुवर्णोऽनु । अमुष्मै । अमूभ्याम् । अमीभ्या ! अमुप्मात् । अमुष्य । अमुयोः२। अमीषाम् । अमीषु । असुको वाऽकि ॥ ५६ ॥ अदसोऽकि सत्यसुको वा स्यात् । असुका असकौ । हे असुक । हे असकौ । अनडुहूशब्दस्य वाः शेषे अनड्डाह इति जाते अनडुहः सौ, धुटां प्राग्नोऽन्तः, पदस्येति हलोपे । अनड्वान् । अनड्डाहौ २ । शसि अनडुहः । संसध्वंसित्यादिना दत्वे । अनडुभ्याम् ३। संबोधने उतोऽनडुचतुरो वः। हे अनन्। हो धुट्पदान्ते ॥ ५७॥ धुटि प्रत्यये पदान्ते च हो ढः स्यात् । मधुलिट् मधुलिङ् । मधुलिहौं। मधुलिड्भ्याम् २।मधुलिट्त्सु मधुलिट्सु । भ्वादेर्दादेर्घः ॥ ५८॥ - स्वादेर्धातोर्यो दादिरवयवस्तस्य धुटि परे प्रत्यये For Personal & Private Use Only Page #62 -------------------------------------------------------------------------- ________________ हैमलघुप्रक्रिया व्याकरणे पदान्ते च हो घः स्यात् । गडदबादेरिति धत्वे गोधुक् गोधुरा । ५४ मुहहनुहस्त्रिहो वा ॥ ५९ ॥ धुटि प्रत्यये पदान्ते त्वेषां चतुर्णा हो घ् वा स्यात् । तत्वमुग् तत्वमुक् । तत्वमुडू तत्वमुद्र । संबोधने चातूरूप्यम् । -इति महोपाध्यायश्रीकीर्त्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां हैमलघुप्रक्रियायां व्यञ्जनान्ताः पुंलिङ्गाः । अथ व्यञ्जनान्ताः स्त्रीलिङ्गाः ॥ तत्र चकारान्तादयः प्राग्वत् । त्यदादीनामाद्वेर इत्यकारान्तत्वे । आत् ॥ १ ॥ अकारान्तान्नाम्नः खियामाप्स्यात् । तः सौ सः । स्या । त्ये । त्याः । सर्वावत् । सा । ते । ताः । या । ये । याः । एषा । एते । एताः । एताम् । एते । एताः । एतया । एतयोः २ । अन्वादेशे । एनाम् एने । एनाः । एनया । एनयो: २ । पकारान्तो बहुवचनान्तोऽपुशब्दः । अपः ॥ २ ॥ : अपः स्वरस्य शेषे घुटि दीर्घः स्यात् । आपः । शसि । अपः । For Personal & Private Use Only Page #63 -------------------------------------------------------------------------- ________________ व्यञ्जनान्ताः स्त्रीलिङ्गाः। ५५ अपोऽन्तें ॥३॥ भादौ स्यादौ परे अपोऽद् स्यात् । अभिः । अन्यः २ । अपाम् । अप्सु । एवं स्वाप । स्वापौ । स्वद्भ्याम् । ककुभूशब्दस्तुण्डिभूशब्दवत् । इदम्शब्दस्य अयमियं पुस्त्रियोः सौ । इयम् । इमे । इमाः। इमाम् । इमे । इमाः । टौस्यनः । अनया। अनक् । आभ्याम् । आभिः । अस्यै । अस्याः २। अनयोः२। आसाम् । अस्याम् । आसु । रेफान्तश्चतुर्शब्दः। त्रिचतुरस्तिसृचतसृ स्यादौ ॥४॥ स्वेऽस्वे वा स्यादौ परे स्त्रीलिङ्गयोस्त्रिचतुरोस्तिसृ चतस् स्याताम् । ऋतो रः खरेऽनि ॥५॥ तिसृचतसृशब्दयोतः स्वेऽखे वा स्वरादौ स्यादौ परे रः स्यात् नविषयादन्यत्र । चतस्रः २ चतसृभिः । चतसृभ्यः । दी? नामीत्यत्र तिसृचतसृवर्जनात् चतसृणाम् । चतसृषु । हे चतस्रः। एवं तिस्रः २ । तिसृभिः। तिसृभ्यः तिसृणाम् । तिसृषु । हे तिस्रः । स्वेऽस्वे इति । प्रियतिसा प्रियचतसा ना । प्रियतिम्रौ प्रियचतस्रौ । गिर्शब्दस्य पदान्ते इति दीर्धे । गीः । गिरी २। गीाम् ३ । अरोः सुपि रः । गीर्ष । हे गीः । For Personal & Private Use Only Page #64 -------------------------------------------------------------------------- ________________ १५६ हैमलघुप्रक्रियाव्याकरणे दिव औः सौ॥६॥ द्यौः । दिवौ। उः पदान्तेऽनूत् ॥७॥ पदान्ते दिव उ: स्यात् स च दी? न स्यात् । धुभ्याम् । धुषु । हे द्यौः । ऋत्विगित्यादिना गत्वे दिग् दिक् । दिशौ २ । दिग्भ्याम् २। हे दिग् हे दिक् । आशिसूशब्दस्य सोरुरिति रुत्वे पदान्ते इति दीर्घ आशीः। आशिषौ। आशीभ्याम् २। आशीषु । हे आशीः । अदसो दः सेस्तुडौ । असौ । द्विवचनादौ अत्वे मत्वे (पदान्ते नहो धो वाच्यः७) उपानत् उपानद् । उपानही । उपानझ्याम् । उपानत्सु। हे उपानद् हे उपानत । इति श्रीमहोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां हैमलघुप्रक्रियायां व्यजनान्ताः स्त्रीलिङ्गाः।। अथ व्यञ्जनान्ता नपुंसकलिङ्गाः॥ चकारान्तः प्रत्यच्शब्दः । प्रत्यक् प्रत्यग् । अच्छ प्राग् दीर्घश्चेति प्रतीची । प्रत्यश्चि । सम्यक् सम्यम् । समीची । सम्यश्चि । शेषं पुंवत् । जकारान्तोऽसृजशब्दः । असृग् असृक् । असृजी २। असृञ्जि । शसादौ वाऽसन्नादेशे असानि । अस्ना । असृजा । असभ्याम् । असृग्भ्याम् । हे असूर हे . For Personal & Private Use Only Page #65 -------------------------------------------------------------------------- ________________ 1. 16. व्यञ्जनान्ता नपुंसकलिङ्गाः। ॐ असृक् । जगत् जगद् । जगती । जगन्ति । महत् । महती। स्महतोरिति दीर्थे । महान्ति । (यकृत्शकृतोः शसादौ वा यकन्शकन्नादेशे)। यका यकृता । यकभ्याम् यकृझ्याम् । शका शकृता । शकभ्याम् शकृद्भ्याम् । त्यदादीनामनतोलुबिति सिलुप् त्यद् । द्विवचनादौ अत्वे त्ये। त्यानि । सर्ववत् । एवं तद्यदादयः। अहनशब्दख अह्न इति रुत्वे । अहः २। ईडने वा । अही अहनी २। अहानि । अह्ना । अहोभ्याम् ३। अहस्सु । हे अहः । ब्रह्मन्शब्दस्य नानो नोऽनह्नः इति नलुपि । ब्रह्म । ब्रह्मणी । ब्रह्माणि । ब्रह्मणा । क्लीबे वा ॥१॥ ' आमन्न्यस्य नाम्नो नस्य क्लीबे लुग् वा स्यात् । हे ब्रह्मन् हे ब्रह्म । इदम् । इमे । इमानि । किम् । के । कानि। चतुरः शौ । चत्वारि । पयः। पयसी। पयांसि । पयसा । पयोभ्याम् । हे पयः । एवं वच:प्रभृतयः । अदः । द्विवचने । अमे इति जाते । मादुवर्णोऽनु । अमू । अमूनि । शेषं पुंवत् । काष्ठतडू काष्ठतट् । काष्ठतक्षी । काष्ठतङ्क्षि। इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणि विरचितायां हैमलघुप्रक्रियायां व्यञ्जनान्ता नपुंसकलिङ्गाः। [इति षट्तिशमन समाप्तानि ]. ... .: : For Personal & Private Use Only Page #66 -------------------------------------------------------------------------- ________________ ५४ हैमलघुप्रक्रियाव्याकरणे . अथ युष्मदस्मदोः प्रक्रिया ॥ तयोश्च त्रिष्वपि लिङ्गेषु समान रूपमलिङ्गत्वात्। त्वमहं सिना प्राक्चाऽकः॥१॥ सिना युष्मदस्मदोस्त्वमहमौ स्याताम् तौ चाक्प्रसङ्गेऽकः प्रागेव । त्वम् । अहम् । त्वकम् । अहकम् । - मन्तस्य युवावौ द्वयोः॥२॥ . द्वित्वे वर्तमानयोयुष्मदस्मदोर्मन्तावयवस्य स्यादौ परे युवावौ स्याताम् । युवद् । आवद् । इति तावद्भवति । अमौ मः॥३॥ युष्मदस्मद्ध्यां परयोरम् औ इत्येतयोमः स्यात् । युष्मदस्मदोः॥४॥ व्यञ्जनादौ स्यादौ परे युष्मदस्मदोराः स्यात् । युवाम् । आवाम् । यूयं वयं जसा ॥५॥ जसा सह युष्मदस्मदोरेतौ स्याताम् । यूयम् । वयम् । द्वितीयैकवचने। त्वमा प्रत्ययोत्तरपदे चैकस्मिन् ॥ ६॥ स्यादौ प्रत्ययोत्तरपदयोश्च परयोरेकत्वे वर्तमानयोयुष्मदस्मदोर्मान्तावयवस्य त्वमौ स्याताम् । For Personal & Private Use Only Page #67 -------------------------------------------------------------------------- ________________ - युष्मदस्मदोः प्रक्रिया। लुगस्यादेत्यपदे इत्यकारलोपे अमो मत्वे दस्यात्वे च त्वाम् माम् । युवाम् आवाम् । .. शसो नः ॥७॥ युष्मदस्मद्भ्यां परस्य शसो नः स्यात् । युष्मान् अस्मान् । टायां त्वमादेशे। टाड्योसि यः॥८॥ - एषु चतुर्षु युष्मदस्मदोर्यः स्यात् । त्वया मया । युवाभ्याम् आवाभ्याम् । युष्माभिः अस्माभिः । तुभ्यं मह्यं ड्या ॥९॥ डन्या सह युष्मदस्मदोरेतौ स्याताम् । तुभ्यम् मह्यम् । ... अभ्यं भ्यसः ॥१०॥ । युष्मदस्मद्भ्यां परस्य चतुर्थीभ्यसोऽभ्यम् स्यात् । अकारो व्यञ्जनादित्वव्यावृत्त्यर्थस्तेन युष्मदस्मदोरित्यात्वं न भवति । .. . शेषे लुक् ॥ ११॥ यस्मिन्नायौ कृतौ ततोऽन्यः शेषस्तस्मिन् स्यादौ परे युष्मदस्मदोर्लक् स्यात् । युष्मभ्यम् अस्मभ्यम् । उसेश्चाद् ॥ १२॥ - युष्मदस्मद्भ्यां परस्य डन्सेः पञ्चमीभ्यसश्च अद् स्यात् । अकारः प्राग्वत् । त्वत् मत् । युष्मद् अस्मद् । For Personal & Private Use Only Page #68 -------------------------------------------------------------------------- ________________ AMIN हैमलघुप्रक्रियाव्याकरणे तव मम ङसा ॥ १३ ॥ डसा सह युष्मदस्मदोरेतौ स्याताम् । तव । मम । युवावादेशे टाडन्योसीति ये । युवयोः आवयोः। • आम आकम् ॥ १४ ॥ युष्मदस्मयां परस्य आम आकम् स्यात् । युष्माकम् । अस्माकम् । त्वयि । मयि । युष्मासु अस्मासु । अथानयोरादेशविशेषाः । पदाधुग्विभक्त्यैकवाक्ये वनसौ बहुत्वे ॥ १५॥ द्वितीयाचतुर्थीषष्ठीवहुवचनैः सह पदात्परयोयुष्मदस्मदोर्वसूनसौ वा स्याताम् नतु वाक्यान्तरे। धर्मो रक्षतु वो लोका धर्मो रक्षतु नः सदा । नमो वः श्रीजिनाः शुद्ध ज्ञानं नो दीयतां धनम् ॥१॥ दर्शनं वो जिनाधीशाः पापं हरति नो रयात् । पक्षे । धर्मो युष्मान् रक्षतु इत्यादि। द्वित्वे वामनौ ॥ १६॥ समविभक्तिद्विवचनैः सह पदात्परयोर्युष्मदस्मदोर्वानौ वा स्याताम्। पातु वा नौ जिलोऽयं च दद्याद्वां नौ परं पदम् । For Personal & Private Use Only Page #69 -------------------------------------------------------------------------- ________________ युष्मदस्मदोः प्रक्रिया । ६१ मनो वां नौ सदा भूयादृढं धर्मे जिनोदिते २। पक्षे जिनो युवां पात्वित्यादि। अमा त्वामा ॥ १७ ॥ अमा सह पदात्परयोयुष्मदस्मदोस्त्वामा वा स्याताम् । धर्मस्त्वा पातु । त्वां पातु । धर्मो मा पातु । मां पातु । डेङसा तेसे ॥१८॥ डेन्डसूभ्यां सह पदापरयोर्युष्मदस्मदोस्तेमे वा स्याताम् । धर्मस्ते ददातु । धर्मो मे ददातु । मह्यं ददातु सुखम् । धर्मस्ते स्वम् । तव स्वम् । धर्मो मे स्वं । मम स्वम् । नित्यमन्वादेशे वस्नसादिः॥ १९ ॥ यूयं विनीतास्तद्वो गुरवो मानयन्ति । - असदिवामत्र्यं पूर्वम् ॥ २०॥ युष्मदस्मद्भ्यां पूर्व संबोधनमसदिव स्यात् ततो वस्नसादयो न स्युः । जना युष्मान्पातु धर्मः। क्वचिद्वा। जिनाः शरण्या वो युष्मान् वा सेवे। क्वचिन्न । साधो सुविहित त्वा सेवे। पादाद्योः ॥ २१ ॥ नियतमात्राऽक्षरपिण्डः पादः । पादस्याऽऽदि. स्थयोर्युष्मदस्मदोर्वस्नसादिर्न स्यात् । वीरो विधे व्या . . . For Personal & Private Use Only Page #70 -------------------------------------------------------------------------- ________________ ६२ हैमलघुप्रक्रियाव्याकरणे श्वरो देवो युष्माकं कुलदेवता । स एव नाथो भगवान् अस्माकं पापनाशनः ॥१॥ चाहहवैवयोगे ॥ २२॥ - एभिः पञ्चभिर्योगे वस्त्रसादिर्न स्यात् । ज्ञानं युष्माँश्च रक्षतु । इति श्रीमहोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां हैमलघुप्रक्रियायां युष्मदस्मदोः प्रक्रिया समाप्ता ॥ अथाव्ययानि ॥ अव्ययानि त्वलिङ्गान्यसङ्खयानि च । तथाः। नन्ता सङ्ख्या डतिर्युष्मदस्मच्च स्युरलिङ्गकाः । पदं वाक्यमव्ययं चेत्यसङ्घयं च तद्बहुलम् ॥१॥ सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तव्ययम् ॥२॥ खरादयोऽव्ययम् ॥१॥ खर अन्तर प्रातर् पुनर् इत्यादि । चादयोऽसत्त्वे ॥२॥ अद्रव्यार्थाश्चादयोऽव्ययानि स्युः । च अह ह एवं वा एवम् नूनम् ननु खलु विना नाना ईषत् किल वै नो न मा मा म यत् तत् स्वराश्च ।। अधण्तखाद्याशसः॥३॥ धण्वर्जास्तस्वादयः शसर्यन्ता ये प्रत्ययास्तदन्तं नामाव्ययं स्यात् । ' For Personal & Private Use Only Page #71 -------------------------------------------------------------------------- ________________ अव्ययानि । व्याश्रये तसुः ॥ ४ ॥ षष्ठ्यन्तात्पक्षाश्रये गम्ये तसुः स्यात् । रविः क र्णतोऽभवत् । पर्यभेस्तसुः ॥ ५ ॥ परितः । अभितः । अहीरुहोऽपादाने ॥ ६ ॥ अपादानपञ्चम्यास्तसुर्वा स्यात् । ग्रामतो ग्रामात् । हीयरुहोस्तु न । सार्थाद्धीनः । गिरेरवरोहति । किमयादिसर्वाद्यवैपुल्यबहोः पित्तस् ॥७॥ किमो व्यादिवर्जसर्वादिभ्योऽवैपुल्यार्थ होश्च पञ्चम्यन्तात्पित्तस् स्यात् । सर्वतः । बहुतः । इतोऽतः कुतः ॥ ८ ॥ एते तसन्ताः साधवः । 1 सप्तम्याः ॥९ ॥ सप्तम्यन्तात्किमादेस्त्रप् । सर्वत्र । बहुत्र । क कुत्र । अत्र । इह । एते त्रबन्ताः साधवः । अनद्यतनेर्हिः ॥ १० ॥ ङयन्तादनद्यतनकाले यथासंभवं किमादेर्हिः स्यात् । कर्हि । यहि । बहुर्हि । प्रकारे था ॥ ११ ॥ यथासंभवं स्याद्यन्तात्किमादेः प्रकारे थां स्यात् । सर्वथा । For Personal & Private Use Only Page #72 -------------------------------------------------------------------------- ________________ ६४ हैमलघुप्रक्रियाव्याकरणे कथमित्थम् ॥ १२ ॥ एतौ प्रकारे साधू । . किंयत्तत्सर्वैकान्यात्काले दा ॥ १३ ॥ कदा यदा तदा सर्वदा एकदा अन्यदा । सदा अधुना इदानीम् तदानीम् एतर्हि एते काले साधवः। - सद्योऽद्यपरेद्यव्यति ॥ १४ ॥ एतेऽह्नि काले साधवः। पूर्वोपराधरोत्तरान्यान्यतरे तरादेद्युस् ॥१५॥ ङयन्तेभ्यः सप्तभ्य एभ्योऽह्नि काले एद्युस् । पूर्वेयुः। उभयाद् द्युश्च ॥ १६ ॥ उभयद्युः । चादेद्युस् उभयेयुः। - ऐषमः परुत् परारि वर्षे ॥ १७ ॥ पूर्वस्मिन्वर्षे परुत् । पूर्वतरे वर्षे परारि । सङ्ख्याया धा ॥१८॥ प्रकारे । एकधा। डत्यतु सङ्ख्यावत् ॥ १९ ॥ डत्यन्तमत्वन्तं च सङ्ख्यावत्स्यात् । कतिधा यावद्धा। For Personal & Private Use Only Page #73 -------------------------------------------------------------------------- ________________ अव्ययानि । बहुगणमभेदे ॥२०॥ तथा बहुधा । (विचाले च*) द्विधा । एकथा । वैकाद् ध्यमञ् ॥ २१ ॥ ऐकध्यम् । एकधा। द्विर्धमधौ वा ॥ २२॥ द्वित्रिभ्यां प्रकारादिष्वेतौ वा स्याताम् । द्वैधम् त्रैधम् । द्वेधा त्रेधा । द्विधा त्रिधा । इति । वारे कृत्वस् ॥ २३ ॥ संख्यायाः। पञ्चकृत्वः। ___ द्वित्रिचतुरः सुच् ॥ २४ ॥ वारे । द्विस्त्रिश्चतुर्वा भुङ्क्ते। एकात्सकृच्चास्य ॥ २५ ॥ एकवारं भुते । सकृद्भुङ्क्ते। ऊवोद्रिरिष्टातावुपश्चास्य ॥ २६ ॥ ऊर्ध्वादिग्देशकालार्थात्प्रथमापञ्चमीसप्तम्यन्तादेतौ स्याताम् उपश्चास्यादेशः स्यात् । उपरि उपरिष्टात् रम्यं आगतो वासो वा। पूर्वावराधरेभ्योऽसऽस्तातौ पुरवधश्चैषाम् ॥ २७ ॥ प्रथमापञ्चमीसप्तम्यन्तानाम् । पुरः पुरस्तात् । अवः अवस्तात् । अधः अधस्तात् रम्यं आगतो वासो वा। For Personal & Private Use Only Page #74 -------------------------------------------------------------------------- ________________ ६६ हैमलघुप्रक्रियाव्याकरणे परावरात्स्तात् ॥ २८ ॥ परस्तात् अवरस्तात् रम्यं आगतो वासो वा । * दक्षिणोत्तरपरावरेभ्योऽतस् ॥ २९ ॥ दक्षिणतो रम्यं आगतो वासो वा। अधरापरदक्षिणोत्तरेभ्य आत् ॥ ३०॥ __अधरात् रम्य आगतो वासो वा। । वा दक्षिणात्प्रथमासप्तम्या आ॥ ३१ ॥ दक्षिणा रम्यं वासो वा। आही दूरे ॥ ३२॥ दूरदिन्देशात्प्रथमासप्तम्यन्ताद्दक्षिणादा आहिश्च । गिरेर्दक्षिणा दक्षिणाहि रम्यं वासो वा। वोत्तरात् ॥ ३३॥ उत्तरा उत्तराहि उत्तरता उत्तरात् रम्यं चासो वा ॥ अदूरे एनः ॥३४॥ दिक्शब्दात्प्रथमासप्तम्यन्ताददूरे एनः स्यात् । पूर्वेणास्य रम्यं वासो वा (दिक्शब्दादिग्देशकालार्थात्प्रथमापञ्चमीसप्तम्यन्तात्स्वार्थे धा स्यात्त्र) लुबच्चेः ॥३५॥ अञ्चत्यन्ताहिकशब्दाद्विहितयोर्धेनयोर्लुप् स्यात्। तल्लुपि च स्त्रीप्रत्ययस्यामि लुब् भवति । प्राची Jain Education international *** For Personal & Private Use Only Page #75 -------------------------------------------------------------------------- ________________ अव्ययानि ।... दिक् । प्राङ् देशः कालो वा. रम्यः । प्रायम्यम् । एवमागतो वासो वा। पश्चोऽपरस्य दिक्पूर्वस्य चाति ॥ ३६ ॥ अपरा दिक् पश्चात् । दक्षिणपश्चात् । (वोत्तरपदेऽर्धे* ) पश्चार्धम् । अपरार्धम् ।। __व्याप्तौ स्सात् ॥ ३७॥ । कृभ्वस्तिभ्यां कर्मकर्तृभ्यां योगे प्रागतत्तत्त्वे सादिः सात्स्यात् व्याप्ती गम्यायाम् । द्विःसकारपाठान्नास्य षत्वम् । अग्निसात्करोति काष्ठम्, भवति स्यात् वा। __ तत्राधीने ॥३८॥ सप्तम्यन्तादधीनेऽर्थे कृभ्वस्तिसंपद्योगे सात्स्यात् । (देयेऽधीने च त्रा*) राज्ञि अधीनं राजसास्करोति । देवत्राकरोति द्रव्यम् । भवति स्यात् संपद्यते वा। __ सङ्ख्यैकार्थाद्वीप्सायां शस् ॥३९॥ सङ्ख्यार्थैकार्थाभ्यां वीप्सायां द्योत्यायां शस् वा स्यात् । एकैकमेकशो वा दत्ते । माषं माषं माषशो वा देहि। तद्वति धण् ॥ ४०॥ ": द्वित्रिभ्यां प्रकारवति धण् । द्वौ प्रकारावेषां । द्वैधाः । धणवर्जनात्तस्य नाव्ययत्वम् । For Personal & Private Use Only Page #76 -------------------------------------------------------------------------- ________________ हैमलघुप्रक्रियाव्याकरणे विभक्तिथमन्ततसाद्याभाः ॥ ४१ ॥ विभक्त्यन्ताभास्थमवसानतसादिप्रत्ययान्ताभाश्वाव्ययानि स्युः । चिराय चिरात् । । भवतु । अस्तु । कुतः । कथम् । ६८ वत्तस्याम् ॥ ४२ ॥ एतदन्तमव्ययम् । स्यादेरि ॥ ४३ ॥ स्याद्यन्तादिवार्थे क्रियासादृश्ये वत्स्यात् । अश्व इव अश्ववत् । मैत्रवद्याति चैत्रः । देवमिव देववत्पश्यन्ति मुनिम् । षष्ठीसप्तम्यन्तयोः सादृश्ये वत् । चैत्रस्येव चैत्रवन्मैत्रस्य मुखम् । मुक्ताविव मुक्तिवच्छान्तौ सुखम् । तसिः ॥ ४४ ॥ टान्तात्तुल्यदिश्ये तसिः स्यात् । सुदाम्नैकदिक् सुदामतो मेघः । आम् वक्ष्यते । क्वातुमम् ॥ ४५ ॥ एतद्न्तमव्ययम् । कृत्वा । कर्तुं । यावज्जीवम् । प्रत्ययाश्चैते वक्ष्यन्ते । गतिः ॥ ४६ ॥ गतिसंज्ञमव्ययं स्यात् । ऊर्यायनुकरणच्विडाचश्च गतिः ॥ ४७ ॥ For Personal & Private Use Only Page #77 -------------------------------------------------------------------------- ________________ अव्ययानि । एते उपसर्गाश्च गतयः स्युस्ते च प्राग्धातोः प्रयोज्याः। ऊरीकृत्य । उररीकृत्य । खाट्कृत्य । कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागत त्तत्वे च्विः॥४८॥ कर्मार्थात् कृगायोगे कर्थाच्च भ्वस्तियोगे प्रागभूततद्भावे च्विः स्यात् । इश्चाववर्णस्यानव्ययस्य ॥ ४९ ॥ अनव्ययस्यावर्णान्तस्य च्वावीः स्यात् । अशुक्लं शुक्लं करोति शुक्लीकरोति पटम् । मालीकरोति पुष्पाणि । अशुक्लः शुक्लो भवति शुक्लीभवति । शुक्लीस्यात् । दीर्घवियङ्यक्येषु च ॥ ५०॥ एषु चतुर्षु यादावाशिषि च स्वरस्य दीर्घः स्यात् । शुचीकरोति। (अरुर्मनश्चक्षुश्चेतोरहोरजसा लुक् च्चों*) अरूकरोति । उन्मनीस्यात् । (इसुसोर्बहुलं लुक्*) सीकरोति नवनीतम् । धनूस्याद्वंशः। (व्यञ्जनान्तस्यान्त इबहुलम्*) दृषदीभवति दृषद्भवति शिला। समयादिभ्योऽर्थविशेषे कृग्योगे यथायोगं डाज्वाच्यः॥ ५९॥ For Personal & Private Use Only Page #78 -------------------------------------------------------------------------- ________________ हैमलघुप्रक्रियाव्याकरणे - कालक्षेपे । समयाकरोति । अद्य श्वो वा पटं दास्यामीति कालक्षेपं करोति कुविन्दः। अति. पीडने सपत्राकरोति । निष्पत्राकरोति मृगम् । निष्कोषणे । निष्कुलाकरोति दाडिमम् । आनुकूल्ये । सुखाकरोति प्रियाकरोति गुरुम् । प्रातिकूल्ये । दुःखाकरोति शत्रुम् । पाके । शूलाकरोति मांसम् । वपने । मद्राकरोति भद्राकरोति बालं नापितः । एवं क्षेत्रकर्षणे द्वितीयाकरोति क्षेत्रम् । पटपटाकरोतीत्यादि। । प्रपरापसमन्ववनिर्दुरभिव्यधिसूदतिनिप्रतिपर्यपयः। उप आडिति विंशतिरेष सखे उपसर्गगणः कथितः कविभिः ॥१॥ एते त्वेकत्र धातावा पञ्चभ्यः प्रयोज्याः। प्रसमभिव्याहरतीति । एवं (भूषादरक्षेपेऽलंसदसत् गतिसंज्ञम्भ) अलंकृत्य । सत्कृत्य । असत्कृत्य । (कणे मनस्तृप्तौ*) कणेहत्य । मनोहत्य । (तिरोऽन्तों * ) तिरोभूय । (कृगो नवा*) तिरस्कृत्य तिरस्कृत्वा । मध्येकृत्य मध्येकृत्वा । साक्षात्कृत्य साक्षात्कृत्वा । ( नित्यं हस्ते पाणावुद्वाहे*) हस्तेकृत्य । पाणौकृत्येत्यादयो यथायोगं गतिसंज्ञाज्ञेयाः। इत्यपरिमिता अव्ययाः। अव्ययस्यः॥५२॥ For Personal & Private Use Only Page #79 -------------------------------------------------------------------------- ________________ - स्त्रीप्रत्ययाः। .. अव्ययाना स्यादेर्लुप् स्यात् । स्वः प्रातरस्ति पश्य कृतमिति । इति श्रीमहोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविज- यगणिविरचितायां हैमलघुप्रक्रियायां अव्ययानि समाप्तानि । ॥ अथ स्त्रीप्रत्ययाः॥ अथ लिङ्गविशेषज्ञानाय स्त्रीप्रत्ययाः प्रस्तूयन्ते । ... अजादेः ॥१॥ एभ्यः स्त्रियामाप् स्यात् । अजा एडका कोकिला बाला शूद्रा ज्येष्ठा । अस्यायत्तत्क्षिपकादीनाम् ॥२॥ आबेव परो यस्मात्तस्मिन्ननिकि यदादिवर्जस्यात इत्स्यात् । पाचिका कारिका मद्रिका । यदादिवर्जनाद्यका सका क्षिपकेत्यादौ नेत्त्वम् । क्वचिद्वा ॥३॥ अनिक्कि परे क्वचिदापः स्थाने इह्रस्वौ वा । खट्रिका खट्टाका खटका । क्वचिन्नेत्त्वम् । तारका ज्योतिः। स्त्रियां नृतोऽखस्त्रादेर्डीः ॥४॥ । सस्रादिवर्जान्नान्तादृदन्ताच्च स्त्रियां डीः स्यात् । राज्ञी की। ... ... अधातूदितः ॥ ५॥ For Personal & Private Use Only Page #80 -------------------------------------------------------------------------- ________________ ७२ हैमलघुप्रक्रियाव्याकरणे अधातोरुदित ऋदितश्च स्त्रियां ङीः स्यात् । भवन्ती पचन्ती। ... अञ्चः ॥६॥ अञ्चन्तात् स्त्रियां डीः स्यात् । प्राची उदीची। गौरादिभ्यो मुख्याड्डीः ॥७॥ मुख्यागौरादिगणात् स्त्रियां डीः स्यात् । अस्य ड्यां लुक् ॥ ८॥ स्पष्टम् । गौरी नदी । (क्वचिद्यकारस्यापि*) मत्सी । वयस्यनन्त्ये ॥९॥ अचरमे वयस्यदन्तास्त्रियां डीः स्यात् । कुमारी किशोरी वधूटी । अनन्त्य इति किम् । वृद्धा । (कचिन्नाम्नि डीः*) केवली । मामकी (नवा शोणादे*) शोणी शोणा। ___ इतोऽत्यर्थात् ॥ १०॥ त्यर्थप्रत्ययान्तवर्जादिदन्तास्त्रियां डीर्वा स्यात् । भूमी भूमिः। धूली धूलिः । राजी राजिः। (पद्धतेर्वा*) पद्धती पद्धतिः । (शक्त शस्त्रे) शकी शक्तिः। खरादुतो गुणादखरोः ॥११॥ स्वरात्परो य उत्तदन्ताद्गुणवचनात्खरुवर्जना nternatie For Personal & Private Use Only Page #81 -------------------------------------------------------------------------- ________________ स्त्रीप्रत्ययाः। स्त्रियां डीर्वा स्यात् । पट्टी पटुः । विभ्वी विभुः । स्वरादिति किम् । पाण्डुर्भूः। गुणादिति किम् । आखुः स्त्री। उत इति किम् । श्वेता पटी। अखरोरिति किम् । खरुरियम् । सत्त्वे निविशतेऽपैति पृथक् जातिषु दृश्यते । आधेयश्चाक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः॥१॥ श्येतादिभ्यो वा ङीस्तयोगे तोन्च ॥ १२॥ श्येनी श्येता। (नः पलितासिता*) पलिक्नी । असिनी। असहनविद्यमानपूर्वपदात्स्वाङ्गा दक्रोडादिभ्यः ॥ १३ ॥ - सहादिवर्ज पूर्वपदं यस्य ततः क्रोडादिवर्जाददन्तात्स्वाङ्गास्त्रियां डीर्वा स्यात् । पीनस्तनी पीनस्तना। अतिकेशी अतिकेशा माला। सहादिवर्जनात् सहकेशा अकेशा विद्यमानकेशा। अक्रोडादिभ्य इति किम् । सुक्रोडा सुवाला। स्वाङ्गादिति किम् । बहुशोफा सुज्ञाना । - अविकारोऽद्रवं मूर्त. प्राणिस्थं स्वाङ्गमुच्यते । च्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु ॥२॥ नासिकोंदरौष्ठजवादन्तकर्णशृङ्गाङ्ग गात्रकण्ठात् ॥ १४ ॥ For Personal & Private Use Only a t Page #82 -------------------------------------------------------------------------- ________________ ७४. हैमलघुप्रक्रियाव्याकरणे - सहादिवर्जपूर्वपदेभ्यः एभ्यः स्वाङ्गेभ्यः स्त्रियां डीर्वा स्यात् । सुनासिकी सुनासिका। नियमसूत्रमिदम् । तेनान्येभ्यो बहुस्वरेभ्यः संयोगोपान्तेभ्यश्च डीन स्यात् । सुललाटा । सुपार्था । (नखमुखादनाम्नि वा*) सुनखी सुनखा । सुमुखी सुमुखा । नाम्नि तु शूर्पणखा । (पुच्छात्तथा*) दीर्घपुच्छी। दीर्घपुच्छा। (कबरादिपूर्वान्नित्यम्*) कबरपुच्छी। (क्रीतात्करणादेः* ) अश्वक्रीती । (क्तादल्पे*) अभ्रविलिप्ती द्यौरित्यादि । (सपत्यादौ डीनोंन्तादेशच*) सपत्नी। एकपत्नी। ऊढायां पाणिगृहीती । पतिवत्नी । अन्तर्वनी । एवं दृढपत्नी । दृढपतिः। ग्रामपत्नी। जातेरयान्तनित्यस्त्रीशूद्रात् ॥१५॥ यान्तादिवर्जजातिवाचिनोऽदन्तास्त्रियां डीः स्यात्। आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक् । सकृदाख्यातनिग्राह्या गोत्रं च चरणैः सह ॥ ३ ॥ __ कुक्कुटी । तटी । नाडायनी । कठी। यान्तादिवर्जनं किम् । क्षत्रिया। खदा। शूद्रा । (क्वचिन्नित्यस्त्रीजातेरपि*) ओदनपाकी। शङ्खपुष्पी। पूगफली । दर्भमूली । औषधिविशेषा एते । - धवाद्योगादपालकान्तात् ॥ १६॥ . For Personal & Private Use Only Page #83 -------------------------------------------------------------------------- ________________ स्त्रीप्रत्ययाः। पालकान्तवर्जात्संबन्धतः स्त्रीवृत्तेर्धवनाम्नो डीः स्यात् । प्रष्ठस्य भार्या प्रष्ठी । गणकी। अपालकान्तादिति किम् । गोपालिका । धवयोगोऽनुवर्तनीयः पञ्चसूत्र्याम् । पूतक्रतुवृषाकप्यग्निकुसित कुसीदादै च ॥ १७॥ एभ्यः पञ्चभ्यो डीस्तद्योगेऽन्तस्यैः । पूतक्रतो स्त्री पूतकतायी। - मनोरौ च वा ॥ १८ ॥ मनोडस्तद्योगे औरैश्च वा स्याताम् । मनायी। मनावी । मनुः। वरुणेन्द्रभवशवरुद्रमृडादा । चान्तः ॥ १९ ॥ एभ्यः षड्भ्यो डीस्तद्योगे आन्चान्तः । वरुणानी । इन्द्राणी। मातुलाचार्योपाध्यायाद्वा ॥ २०॥ __ एभ्यस्त्रिभ्यो डीस्तद्योगे चानन्तो वा। मातुलानी मातुली । क्षुभादिपाठान्न णत्वमिति । आचार्यानी आचायीं । उपाध्यायानी उपाध्यायी। (सूर्याद्देवतायां वा डीस्तद्योगे चानन्तः*) सूर्याणी सूर्या । (अर्यक्षत्रियाद्वा*) अर्याणी अर्या । क्षत्रियाणी क्षत्रिया। : 'For Personal & Private Use Only Page #84 -------------------------------------------------------------------------- ________________ ७६ हैमलघुप्रक्रियाव्याकरणे यवयवनारण्यहिमादोषलि. प्युरुमहत्त्वे ॥ २१ ॥ 'एभ्यश्चतुर्यो यथासङ्ख्यं दोषादौ गम्ये डोः स्यात् डीयोगे चानन्तः। यवानां दोषो यवानी। यवनानां लिपिर्यवनानी । उरु अरण्यं अरण्यानी। महद्धिमं हिमानी । (यत्रो डायन् चान्तो वा*) गाायणी गार्गी। एवमन्यत्रापि यथायोगम् । उतोऽप्राणिनश्चायुरज्ज्वादिभ्य ऊङ् ॥२२॥ . नृजातिवाचिनोऽप्राणिजातिवाचिनश्चोदन्तास्त्रियामूस्यात् नतु वन्ताद्रज्वादिभ्वश्च । कुरूः। अलाबूः। प्रातिजातिवर्जनादानुः । युरज्वादिवजनादध्वर्युः स्त्री । रज्जुरित्यादौ नोड्। (बाह्वन्तकढुकमण्डलो नि*) सुबाहूः । कद्रूः । कमण्डलूः । नाम्नीत्येव । वृत्तबाहुः । उपमानसहितसंहितसहशफवाम लक्ष्मणादूरोः ॥ २३॥ .. उपमानवाचिभ्यः सहितादिभ्यश्च षड्भ्यः परस्य ऊरोः स्त्रियामूङ् स्यात् । रम्भोरूः। सहितोरूः । नारी सखी पतः श्वश्रूः एते साधवः। यूनस्तिः खियाम् ॥ २४ ॥ For Personal & Private Use Only Page #85 -------------------------------------------------------------------------- ________________ कारकप्रक्रिया । । युवतिः। ( अनार्षे वृद्धेऽणिौ बहुस्वरगुरूपान्त्यस्यान्तस्य व्यः*) कारीषगन्ध्या । दैवदन्त्येत्यादि। इति श्रीमहोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविज- यगणिविरचितायां हैमलघुप्रक्रियायां स्त्रीप्रत्ययाधिकारः समाप्तः। ॥अथ कारवाकिया। नाम्नः प्रथमैकद्विवहौ ॥१॥ स्वार्थद्रव्यलिङ्गसंख्याशक्तिलक्षणोऽसमग्रः समग्रो वा पञ्चको नामार्थस्तस्मिन्नेकद्विबहौ वर्तमानानाम्नो यथासङ्ख्यं स्यौजस्लक्षणा प्रथमा स्यात् । डित्थः गौः शुक्लः कारकः दण्डी। इति प्रथमा । आमच्ये ॥२॥ संबोधनार्हनाम्नः प्रथमा स्यात् । हे देव । कर्तुर्व्याप्यं कर्म ॥३॥ कर्ता क्रियया यद्विशेषेणाप्तुमिष्यते तत्कारक व्याप्यं कर्म च स्यात् । तत्रेधा निर्वर्त्य विकार्य प्राप्यं च। यदसजायते तन्निवर्त्यम् । यत्रावस्थान्तरं क्रियते तद्विकार्यम् । यत्सदेव प्राप्यते तत्प्राप्यम् । पुनरेकैकं त्रिधा इष्टमनिष्टमुदासीनं च । मुख्या For Personal & Private Use Only Page #86 -------------------------------------------------------------------------- ________________ ७८: हैमलघुप्रक्रियाव्याकरणे गौणभेदात्तद्विधा । कर्मणि द्वितीया स्यात् । कटं करोति । काष्ठं दहति । ग्रामं गच्छति । राज्यं प्राप्नोति । विषमत्ति । ग्रामं गच्छंस्तृणं स्पृशति । स्मृत्यर्थदयेशः॥ ४ ॥ एषां व्याप्यस्य कर्मत्वं वा कर्मत्वे द्वितीयान्यथा षष्ठी। मातरं स्मरति मातुः स्मरतिः । मातुः स्मयते माता स्मयते । सर्पिषो दयते । सर्पिदेयेत । लोकानीष्टे । लोकानार्मीष्टे । (नाथस्तथा*) सर्पिनाथते । सर्पिषो नाथते। रुजाऽर्थस्याऽज्वरिसन्तापेर्भावकर्तरि ॥५॥ ज्वरिसन्तापिवर्जपीडार्थधातूनामपि व्याप्यं कर्म वा भावे कर्तरि सति । चौरस्य चौरं वा रुजति रोगः । (जासनाटक्राथपिषो हिंसायाम्*) चौरस्य चौरं वोजासयति। . . निप्रेभ्यो नः ॥६॥ समस्तव्यस्तविपर्यस्ताभ्यां निप्राभ्यां परस्य हन्ते प्प्यं कर्म वा स्यात् । चौरस्य चौरं वा निप्रहन्ति निहन्ति प्रहन्ति प्रणिहन्ति इत्यादि । (अधेः शी स्थास आधारः कर्म नित्यं स्यात्*) ग्राममधिशेते अधितिष्ठति अध्यास्ते। - उपान्वध्यावसः ॥७॥ - एभ्यो वसतेराधारोऽप्येवम् । ग्राममुपवसति । '' For Personal & Private Use Only Page #87 -------------------------------------------------------------------------- ________________ कारकप्रक्रिया । ७९ वाऽभिनिविशः॥ ८॥ - अभिनिपूर्वस्य विश आधारः कर्म वा स्यात् । व्यवस्थितविभाषेयम् , तेन क्वचित्कर्मसंज्ञा क्वचिदा धारसंज्ञापि । ग्राममभिनिविशते । कल्याणे अभिनिविशते । (कालाध्वभावदेशं वा कर्म चाकर्मणाम्*) मासमास्ते । मास आस्यते । (क्रियाविशेषणाद्वितीया*) क्रियाव्ययविशेषणे इत्यस्य क्लीबत्वम् । स्तोकं पचति । सुखं स्थाता। उत्कृष्टेऽनूपेन ॥ ९॥ उत्कृष्टार्थादनूपाभ्यां युक्ताद्गौणान्नानो द्वितीया भवति । अनुसिद्धसेनं कवयः। उपहेमचन्द्रं वैयाकरणाः । तेषु तौ उत्कृष्टौ इत्यर्थः। गौणात्समयानिकषाहाधिगन्तरान्तरेणा- तियेनतेनैर्द्वितीया ॥ १० ॥ क्रियान्वयि मुख्यम् परं गौणम् समयादिभिर्नवभिर्युक्ताद्गौणान्नाम्नो द्वितीया स्यात् । समया ग्रामम् । निकषा गिरि नदी । हा मैत्रं व्याधिः । धिग् जाल्मम् । अन्तरा निषधं नीलं च विदेहाः। अन्तरेण धर्म व सुखम् । अति वृद्धं कुरून् वलं । येन पश्चिमां गतस्तेन पश्चिमां नीतः। द्वित्वेऽधोध्युपरिभिः ॥ ११ ॥ ... For Personal & Private Use Only Page #88 -------------------------------------------------------------------------- ________________ ८० हैमलघुप्रक्रियाव्याकरणे द्विरुक्तैरेभिर्युक्ताद्वितीया स्यात् । अधोऽधो ग्रामम् । अध्यधिग्रामम् । उपर्युपरि ग्रामं ग्रामाः । द्वित्व इति किम् । अधो गृहस्य ।। सर्वोभयाभिपरिणा तसा ॥ १२ ॥ सर्वादिभिश्चतुर्भिस्तसन्तैर्युक्ताद्वितीया स्यात् । सर्वतो ग्राम वनानि । - कालाध्वनोाप्तौ द्वितीया ॥ १३ ॥ व्याप्ति रन्तर्यम् । मासमधीते । क्रोश गिरिः । इति द्वितीया। सिद्धौ तृतीया ॥ १४ ॥ मासेनावश्यकमधीतम् । सिद्धाविति किम् । मासमधीतो नत्वाचारोऽनेन गृहीतः। हेतुकर्तृकरणेत्थम्भूतलक्षणे ॥ १५॥ - एषु चतुर्पु तृतीया स्यात् । तत्र फलसाधनयोग्यो हेतुः । धनेन कुलम् । चैत्रेण कृतम् । दात्रेण लुनाति । कमण्डलुना छात्रमद्राक्षीत् । . स्वतन्त्रः कर्ता ॥ १६ ॥ ___क्रियासिद्धौ प्रकृष्टो यः स कर्ता स्यात् । तथाहुः-निष्पत्तिमात्रे कर्तृत्वं सर्वत्रैवास्ति कारके। व्यापारभेदापेक्षायां करणत्वादिसंभवः ॥१॥ फलार्थी यः स्वतन्त्रः सन्फलायारभते क्रियाम् । नियोक्ता परतन्त्राणां स कर्ता नाम कारकम् ॥२॥ For Personal & Private Use Only Page #89 -------------------------------------------------------------------------- ________________ कारकप्रक्रिया | चैत्रेण कृतम् । यत्तु चैत्रः कटं करोतीत्यादौ प्रथमा सोक्तत्वात् । आख्यातकृत्प्रत्ययेनो के हि सर्वत्र कार के प्रथमा । यथा घटः क्रियते । स्नानीयं चूर्णम् । दानीयो मुनिः । भयानको व्याघ्रः । गुडाधानी स्थाली । साधकतमं करणम् ॥ १७ ॥ क्रियात्वेनाव्यवधानेन विवक्षितं क्रियासिद्धौ प्रकृष्टोपकारकं करणं स्यात् । दानेन लभते भोगम् । किश्चित्प्रकारमापन्नस्य चिह्नं इत्थंभूतलक्षणम् । कमण्डलुना छात्रं लक्षयेः । सहार्थे ॥ १८ ॥ सहार्थस्तुल्ययोगो विद्यमानता च । तस्मिन्गम्यमाने नाम्नस्तृतीया स्यात् । पुत्रेण सहागतः स्थूलो गोमान् । एकेनापि सुपुत्रेण सिंही स्वपिति निर्भरम् । सहैव दशभिः पुत्रैर्भारं वहति गर्दभी ॥ ३ ॥ यद्भेदैस्तद्वदाख्या ॥ १९ ॥ यस्य भेदिनो भेदैः प्रकारैस्तद्वतोऽर्थस्य प्रसिद्धिः स्यात् ततस्तृतीया स्यात् । अक्ष्णा काणः । प्रकृत्या दर्शनीयः । आख्येति प्रसिद्धिपरिग्रहार्थम् । तेनाक्ष्णा दीर्घ इति न स्यात् । कृतायैः ॥ २० ॥ For Personal & Private Use Only Page #90 -------------------------------------------------------------------------- ________________ ८२ हैमलघुप्रक्रियाव्याकरणे एभिर्निषेधार्थैर्युक्तात्तृतीया स्यात् । कृतं तेन । किं गतेन । इति तृतीया । कर्माभिप्रेयः संप्रदानम् ॥ २१ ॥ कर्मणा व्याप्येन क्रियया वा योऽभिसंबध्यते स संप्रदानं स्यात् । ( चतुर्थी संप्रदाने) देवाय बलिं दत्ते । राज्ञे कार्यमाचष्टे । पत्ये शेते । (स्पृहेर्व्याप्यं वा संप्रदानम् ) साधुभ्यः साधुन् वा स्पृहयति । (क्रुद्र्ष्यासूयाथैर्योगे यं प्रति कोपः स संप्रदानमू* ) मैत्राय क्रुध्यति । द्रुह्यति । नोपसर्गात्कुद्गुहा ॥ २२ ॥ सोपसर्गाभ्यां क्रुद्द्भुहिभ्यां योगे तु न । मैत्रम - भिक्रुध्यति । तादर्थ्ये ॥ २३ ॥ तस्मै इदमिति गम्यमाने चतुर्थी स्यात् । यूपाय दारु । रन्धनाय स्थाली । रुचिकृप्यर्थ धारिभिः प्रेयविकारोतमर्णेषु ॥ २४ ॥ रुच्यथैः कृष्यर्थैर्धारिणा च योगे यथासङ्ख्यं प्रेयविकारोत्तमर्णेभ्यश्चतुर्थी स्यात् । मैत्राय रोचते धर्मः । मूत्राय कल्पते यवागूः । चैत्राय शतं धारयति । For Personal & Private Use Only Page #91 -------------------------------------------------------------------------- ________________ कारकप्रक्रिया | उत्पातेन ज्ञाप्ये ॥ २५ ॥ उत्पात आकस्मिकं निमित्तम् तेन ज्ञाप्याच्चतुर्थी स्यात् । वाताय कपिला विद्युत् । गम्यस्याप्ये ॥ २६ ॥ यस्यार्थो गम्यते न च शब्दः प्रयुज्यते तस्य तुमो वाप्याच्चतुर्थी स्यात् । फलेभ्यो व्रजति । गम्यस्येति किम् । फलान्याहर्तुं याति । गतेर्नवाऽनाप्ते ॥ २७ ॥ · गतिः पादविहरणं तस्या आप्यादप्राप्ताच्चतुर्थी वा स्यात् । ग्रामं ग्रामाय वा याति । मन्यस्याऽनावादिभ्योऽतिकुत्सने ॥ २८ ॥ अत्यन्तं कुत्सायां गम्यायां मन्यतेर्व्याप्याच्चतुर्थी वा स्यात् । न त्वां तृणाय तृणं वा मन्ये । नावादिगणान्नैवम् । न त्वां नावमन्नं काकं शुकं शृगालं वा मन्ये । ( हितसुखाभ्यां योगे वा चतुर्थी ) चैत्राय चैत्रस्य वा हितं सुखम् । ( आशिषि गम्यायां हितसुखभद्रायुष्यक्षेमार्थार्थैर्योगे वा चतुर्थी*) हितं पथ्यं सुखं भद्रं आयुष्यं क्षेमं कल्याणं अर्थः कार्य जीवेभ्यो जीवानां वा भूयात् । शक्तार्थवषड्नमःखस्तिखाहाखधाभिः ॥ २९ ॥ For Personal & Private Use Only Page #92 -------------------------------------------------------------------------- ________________ हैमलघुप्रक्रिया व्याकरणे एभिर्योगे नित्यं चतुर्थी । शक्तः प्रभुर्वा मल्लो मल्लाय । वषडग्नये । नमोऽर्हद्द्भ्यः । स्वस्ति प्रजाभ्यः । स्वाहेन्द्राय । स्वधा पितृभ्यः । इति चतुर्थी । ॥ अपायेऽवधिरपादानम् ३० ॥ अपायो विश्लेषः । (पञ्चम्यपादाने) वृक्षात्पत्रं पतति । व्याघ्राद्विभेति । पापाज्जुगुप्सते । धर्मात्ममाद्यति । चौराद्रक्षति । शृङ्गाच्छरो जायते । हिमवतो गङ्गा प्रभवति । कार्तिक्या आग्रहायणी मासे । यवेभ्यो गां रक्षति । उपाध्यायादन्तर्धते । वलभ्याः शत्रुञ्जयः षड् योजनानि । माथुराः स्रौनेभ्य आढ्याः । 1 आङाऽवधौ ॥ ३१ ॥ अवधिर्मर्यादाऽभिविधिश्च । तद्वृत्तेराङन युक्तासखमी स्यात् । आ सुन्नादृष्टो मेघः । पर्यपाभ्यां वर्ज्ये ॥ ३२ ॥ आभ्यां युक्ताद्वर्जनीयात्सञ्चमी स्यात् । परि साकेतात् अप साकेतादृष्टो मेघः । यतः प्रतिनिधिप्रतिदाने प्रतिना ॥ ३३ ॥ प्रतिनिधिर्मुख्यसदृशोऽर्थः, प्रतिदानं गृहीतस्य विशोधनम् ते यतः स्यातां ततः प्रतिना योगे पञ्चमी स्यात् । प्र । प्रद्युम्नो वासुदेवात्प्रति । तिलेभ्यः प्रति For Personal & Private Use Only Page #93 -------------------------------------------------------------------------- ________________ " . . . ANIMAL 0 . . कारकप्रक्रिया। माषान् प्रयच्छति। (गम्ययपः कर्माधारयोः प. ञ्चमी*) गृहादासनात्प्रेक्षते । गम्येति किम् । प्रासादमारुह्यासने उपविश्य भुङ्क्ते। (स्तोकाल्पकृच्छ्रकतिपयादसत्त्वे करणे पञ्चमी वा*) स्तोकेन स्तोकान्मुक्तः। प्रभृत्यन्यार्थदिक्शब्दबहिरारादितरैः॥३४॥ ___ एभिर्योगेऽपि पञ्चमी । ततः प्रभृति ग्रीष्मादारभ्य । अन्यो भिन्नो मैत्रात् । ग्रामात्प्राग् वसति । पश्चिमो रामात्कृष्णः। बहिर्गमात् । आराद्रामात्। - इति पञ्चमी। क्रियाश्रयस्याधारोऽधिकरणम् ॥ ३५॥ क्रियाश्रयस्य कर्तुः कर्मणो वाऽऽधारोऽधिकरणं स्यात् । तच्च वैषयिकौपश्लेषिकाभिव्यापकसामीप्यकनैमित्तिकौपचारिकभेदात् षोढा । सप्तम्यधिकरणे । दिवि देवाः। कटे आस्ते । तिलेषु तैलम्। वटे गावः । युद्धे सन्नह्यते । अङ्गुल्यग्रे करी। खामीश्वराधिपतिदायादसाक्षिप्रतिभू ___ प्रसूतैः ॥ ३६॥ एभिर्योगे वा सप्तमी । गवां गोषु वा स्वामी। व्याप्ये क्तेनः ॥ ३७॥ । काद् य इन् तदन्तस्यं व्याप्ये सप्तमी नियं स्यात् । व्याकरणेऽधीती। व्या. ८. For Personal & Private Use Only Page #94 -------------------------------------------------------------------------- ________________ हैम लघु प्रक्रिया व्याकरणे तद्युक्ते हेतौ ॥ ३८ ॥ कर्मसंबन्धाद्धेतौ सप्तमी स्यात् । चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरीं हन्ति सीनि पुष्कलको हतः ॥ ५ ॥ ( असाधुसाधुनिपुणयोगेऽपि सप्तमी* ) असाधुमैत्रो मातरि । प्रत्यादियोगे तु न साधुमैत्रो मातरं प्रति । ८६ यद्भावो भावलक्षणम् ॥ ३९ ॥ भावः क्रिया । यस्य भावेनान्यो भावो लक्ष्यते ततः सप्तमी स्यात् । गोषु दुह्यमानासु गतः । षष्ठी वाऽनादरे ॥ ४० ॥ अनादरे गम्ये भावलक्षणा षष्ठी वा, पक्षे ससमी । रुदतो लोकस्य रुदति लोके वा प्रत्रजितः । सप्तमी चाविभागे निर्धारणे ॥ ४१ ॥ समुदायादेकदेशस्य जातिगुणक्रियादिभिरविभागे पृथक्करणेऽप्येवम् | क्षत्रियो नृणां नृषु वा शूरः । कृष्णा गवां गोषु वा बहुक्षीरा । इति सप्तमी । शेषे ॥ ४२ ॥ कर्मादिभ्योऽन्यस्तदविवक्षारूपः स्वस्वामिभा वादिः संबन्धः शेषस्तत्र षष्ठी स्यात् । राज्ञः पुरुषः । उपगोरपत्यम् । माषाणामश्नीयात् । For Personal & Private Use Only Page #95 -------------------------------------------------------------------------- ________________ कारकप्रक्रिया । कर्मणि कृतः कर्तरि च ॥ ४३ ॥ कृदन्तस्य कर्तृकर्मणोः षष्ठी स्यात् । अपां स्रष्टा । भवत आसिका । ( क्वचिद्वा* ) विचित्रा सूत्राणां कृतिराचार्यस्याचार्येण वा । ८७ कृत्यस्य वा ॥ ४४ ॥ ध्यणतव्यानीययक्यपः कृत्याः । एषां कर्तरि षष्ठी वा स्यात् । त्वया तव कार्य कर्तव्यं करणीयं देयं कृत्यम् । रिरिष्टात्स्तादस्तादसतसाता ॥ ४५ ॥ एभिः सप्तभिर्योगे षष्ठी स्यात् । गृहस्योपरि उपरिष्टात् परस्तात् पुरस्तात् पुरः दक्षिणत उत्तराद्वा । तृन्नुदन्ताव्ययक्वस्वानातृशूशतृङिणकच् खलर्थस्य ॥ ४६ ॥ एषां दशानां कृतां कर्मकर्त्रीः षष्ठी न स्यात् । वदिता धर्मम् । विश्वं जिष्णुः । कटं कृत्वा । ओदनं भोक्तुं याति । अन्नं पेचिवान कारटं चक्राणः । अधीयंस्तत्त्वार्थम् । कटं कु । कष्टं सासहिः । कटं कारको याति । सुनिधर्मः । सुज्ञानं तत्त्वं भवता । पृथग्नांना पञ्चमी च ॥ ४७ ॥ आभ्यां योगे तृतीयापञ्चम्यौ स्याताम् । पृथम् For Personal & Private Use Only Page #96 -------------------------------------------------------------------------- ________________ हैमलघुप्रक्रियाव्याकरणे मैत्रान्मैत्रेण । (अनुमानहेतोरप्येवम्) शब्दोऽनित्यः कृतकत्वेन कृतकत्वाद्वा । ८८ ऋते द्वितीया च ॥ ४८ ॥ ऋयोगे द्वितीयापञ्चम्यौ स्याताम् । ऋते धर्मं धर्माद्वा कुतः सुखम् । विना ते तृतीया च ॥ ४९ ॥ विनायोगे द्वितीयापञ्चमीतृतीयाः स्युः । विना पापं पापात् पापेन सुखं स्यात् । तुल्यार्थैस्तृतीयाषष्ट्यौ ॥ ५० ॥ मात्रा तुल्यः मातुस्तुल्यः । द्वितीयाषष्ठयावेनेनानञ्चेः ॥ ५१ ॥ पूर्वेण ग्रामं ग्रामस्य । अनश्चेरिति किम् । प्राग् ग्रामात् । हेत्वर्थैस्तृतीयायाः ॥ ५२ ॥ हेत्वर्थैर्योगे तृतीयाद्याः सर्वा विभक्तयः स्युः । धनेन हेतुना । धागो हेतवे । धनाद्धेतोः । धनस्य हेतोः । धने ता इति । एवं निमित्तादिभिरपि । सर्वादेः रे ॥ः ॥ ५३ ॥ हेत्वर्थैर्युक्तात्सर्वादेः सर्वा विभक्तयः स्युः । को हेतुः । कं हेतुम् । केन हेतुना । कस्मै हेतवे । कस्माद्धेतोः । कस्य हेतोः । कस्मिन् हेतौ याति । For Personal & Private Use Only Page #97 -------------------------------------------------------------------------- ________________ समासे बहुव्रीहिः। अविशेषणे द्वौ चास्मदः॥ ५४॥ - विशेषणरहितस्यास्मदो द्वावेकश्चार्थों बहुवद्वा स्यात् । आवां ब्रूवः । अहं ब्रवीमि । वयं ब्रूमः विशेषणे तु आवां गाग्यौँ ब्रूवः। अहं चैत्रो ब्रवीमीति यथाप्राप्तम् । जात्याख्यायां नवैकोऽसङ्ख्यो बहुवत् ॥ ५५॥ सङ्ख्याविशेषणरहितो जातिशब्द एकवच्च बहुवच्च वा स्यात् । संपन्नो यवः। संपन्ना यवाः। सङ्खयाविशेषणे तु एको व्रीहिः संपन्नः सुभिक्षं करोतीत्येकत्वमेव । गुरावेकश्च ॥ ५६ ॥ गुरौ गौरवार्हे द्वावेकश्चार्थो बहुवद्वा स्यात् । युवां गुरू। यूयं गुरवः । एष मे पिता। एते में पितरः।. इति श्रीमहोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां हैमलघुप्रक्रियायां कारकप्रक्रिया समाप्ता। अथ समासो निरूप्यते ॥ नाम नाम्नैकार्थं समासो बहुलम् ॥१॥ . नाम नाम्ना सहकार्ये सामर्थ्यविशेषे सति समासो बहुलं स्यात् । लक्षणमिदमधिकारच, केव . . For Personal & Private Use Only Page #98 -------------------------------------------------------------------------- ________________ १० हैमलघुप्रक्रियाव्याकरणे बहुव्रीह्यादिसंज्ञाऽभावे यत्रैकार्थता तत्रानेनैव समासः। विस्पष्टपटुः । स च षोढा । बहुव्रीहिः १ अव्ययीभावः २ तत्पुरुषः ३ कर्मधारयो ४ द्विगुः ५ द्वन्द्वश्च ६ । तत्र बहुव्रीहिरन्यपदार्थप्रधानः । अव्ययीभावः पूर्वपदार्थप्रधानः । द्विगु-तत्पुरुषौ परपदार्थप्रधानौ । द्वन्द्व-कर्मधारयौ चोभयपदार्थप्रधानौ । तस्य क्रियाभिसंबन्धात् ऐकपद्यादिकं च समासप्रयोजनम् । समर्थः पदसमुदायो विग्रहो वाक्यमिति च । आरूढाः पुरुषा यमिति वाक्ये । _ एकार्थं चानेकं च ॥ २॥ एकमनेकं चैकार्थ समानाधिकरणं नाम, अव्ययं च नाम्ना द्वितीयाद्यन्तान्यपदस्यार्थे समस्यते । स च बहुव्रीहिः। - ऐकायें ॥३॥ ऐकार्यमैकपद्यं तन्निमित्तस्य स्यादेर्लुप् स्यात् । अत एव लुम्विधानात् नाम नाम्नेत्युक्तावपि स्याद्यन्तानां समासः। 'उक्तार्थानामप्रयोगः' इति यच्छब्दाप्रयोगे आरूढपुरुषो गिरिः । अयं चान्यपदार्थप्राधान्यात्तत्संबन्धिनीर्लिङ्गसङ्ख्याविभक्तीरनुसरति । कृतानि पुण्यानि येन सः कृतपुण्यः। एवं दत्तदानो वीतदुःखो बहुधनोऽनन्तज्ञानः (अनेक घ) आरूढबहुपुरुषो गिरिः । (अव्ययं च*) उच्चै For Personal & Private Use Only Page #99 -------------------------------------------------------------------------- ________________ समासे बहुव्रीहिः। ९१ मुखः। (उष्ट्रमुखादयः*) एते बहुव्रीहिसमासा निपात्यन्ते । उष्ट्रस्य मुखमिव मुखं यस्य सः उष्ट्रमुखः । वृषस्कन्धः। सहस्तेन ॥४॥ तेनेति तृतीयान्तेन सहशब्दोऽन्यपदार्थे सम स्यते । सहस्य सोऽन्यार्थे ॥५॥ बहुव्रीही सहस्य सो वा स्यात् । सपुत्रः सहपुत्रो वा गतः। क्वचिन्नित्यम् । सरसा दूर्वा । साग्निः कपोतः। सद्रोणा खारी (क्वचिन्न*) स्वस्ति गुरवे सहशिष्याय । दिशो रूढ्यान्तराले ॥६॥ दक्षिणस्याः पूर्वस्याश्च यदन्तरालं सा दक्षिणपूर्वा दिक् । सर्वादयोऽस्यादौ इति पूर्वपदस्य पुंवद्भावः। इत्यादयोऽपि बहुव्रीहिसमासा ज्ञेयाः। यत्र प्रधानस्यैकदेशो विशेषणतया ज्ञायते स तद्गुणसंविज्ञानः । लम्बौ कौँ यस्य स लम्बकर्णः । विशेषणं सर्वादिसङ्ख्यं बहुव्रीहौ ॥ ७ ॥ विशेषणं सर्वादिकं सङ्ख्यावाचि च बहुव्रीही प्राक् स्यात् । (गौणस्य गोशब्दस्य डयाद्यन्तस्य चान्तस्थस्य ह्रस्वो वक्तव्यः*) चित्रगुः। सर्वशुक्लः । द्विकृष्णः। For Personal & Private Use Only Page #100 -------------------------------------------------------------------------- ________________ हैमलघुप्रक्रियाव्याकरणे क्ताः ॥८॥ ... कान्तं नाम बहुव्रीहौ प्राक् स्यात् । कृतकटः। क्वचिद्वा । शाङ्गरजग्धी जग्धशाङ्गरा । मासयाता। यातमासा । जातसुखा सुखजाता । आहिताग्निः अग्न्याहितः । उद्यतासिः अस्युद्यतः । (प्रियः प्राग्वा* ) गुडप्रियः प्रियगुडः। न सप्तमीन्द्रादिभ्यश्च ॥९॥ इन्द्वादिभ्यः प्रहरणार्थाच्च सप्तम्यन्तं बहुत्रीही प्राग्न स्यात् । इन्दुमौलिः । चक्रपाणिः। (गड़ादिभ्यो वा*) कण्ठेगडुः । गडुकण्ठः। परतः स्त्री पुंवत्स्येकार्थेऽनूङ् ॥ १० ॥ परतो विशेष्यवशात्स्त्रीलिङ्गः स्त्रीवृत्तावेकार्थे उत्तरपदे परे पुंवत्स्यान्न तूडन्तः । दर्शनीया भार्या यख सः दर्शनीयभार्यः। परत इति किम् । द्रोणीभायः । थ्येकार्थ इति किम् । गृहिणीनेत्राः। अनूडिति किम् । करभोरूभार्यः। खाङ्गान्डीर्जातिश्चामानिनि ॥ ११ ॥ स्वाङ्गाद्यो डोस्तदन्तो जातिवाची च परतः स्त्री पुंवन्न स्यात् । दीर्घकेशीभार्यः। शूद्राभार्यः। कठीभार्यः। अमानिनीति किम् । दीर्घकेशमामिनी । (क्वचिदन्यत्राप्येवम् ) कल्याणीपञ्चमा For Personal & Private Use Only Page #101 -------------------------------------------------------------------------- ________________ समासे बहुव्रीहिः। २ रात्रयः । कल्याणीप्रियः। मद्रिकाभार्यः। कारिकाभार्यः। द्वितीयाभार्यः । दत्ताभार्यः। टडापसन्कचितः ॥ १२॥ सप्तैते समासान्तास्तद्धिता बहुव्रीहेः स्युः । (सक्थ्यक्ष्णः स्वाङ्गे ट) ___ अवर्णेवर्णस्य ॥ १३॥ अपदस्यानयोस्तद्धिते परे लुक् स्यात् । टिनत्ययान्ताना स्त्रियां डीः । पङ्कजाक्षी स्त्री । [डः ] सुज्वार्थे सङ्ख्या सङ्ख्येये. सङ्ख्यया बहुव्रीहिः ॥१४॥ वारविकल्पार्थयोः सङ्ख्या सङ्ख्यायां बहुव्रीहिः स्यात् सङ्ख्येयार्थे (प्रमाणीसङ्ख्याड्डः*)। द्विर्दश द्विदशा घटाः । द्वौ वा त्रयो वा द्वित्राः। पञ्चषाः । [अप् ] नसुव्युपत्रेश्चतुरः ॥ १५॥ अचतुराः। सुचतुराः । विचतुराः। उपचतुराः। त्रिचतुराः। (नाभेनाम्नि) पद्मनाभः। (नसुदुर्ध्यः सक्तिसक्थिहले) सञ्जनं सतिः। असक्तः असक्तिः। (प्रजाया अस् नत्रादिभ्यः*) नात् ॥ १६ ॥ उत्तरपदे परे नञः अस्यात् । अप्रजाः सुप्रजाः। For Personal & Private Use Only Page #102 -------------------------------------------------------------------------- ________________ हैमलघुप्रक्रियाव्याकरणे मन्दाल्पाच्च मेधायाः ॥ १७ ॥ नञादिभ्यस्त्रिभ्यो मन्दाल्पाभ्यां च मेधाया अस् । अमेधाः । मन्दमेधाः । अल्पमेधाः । द्विपदाद्धर्मादन् ॥ १८ ॥ ( समानस्य धर्मादिषु ) धर्मादावुत्तरपदे समानस्य सः । सधर्मा । $8 इनः कच् ॥ १९ ॥ बहुदण्डिका सेना । (ऋन्नित्यदितः) बहुकर्तृको बहुनदीको बहुवधूको देश: । ( दध्युरः सर्पिर्मधूपानच्छाले ) प्रियदधिकः । व्यूढोरस्कः । पुमनडुन्नौपयोलक्ष्म्या एकत्वे ) प्रियपुंस्कः । ( नञोsर्थात् *) अनर्थकं वचः । ( शेषाद्वा) बहुखट्ः बहुखटुकः । (क्वचिन्न* ) बहुश्रेयान् बहुश्रेयसी । सुयुत्सुरभेर्गन्धादिगुणे ॥ २० ॥ स्वादिपूर्वाद्गन्धादित्स्यात् । सुगन्धि द्रव्यम् । ( वागन्तौ) सुगन्धिः सुगन्धो वा कायः । (वाल्पे ) सूपगन्धि सूपगन्धं वा भोजनम् । ( वोपमानात् * ) पद्मगन्धि पद्मगन्धं वा मुखम् । बहुव्रीहौ पादादीनां पात्प्रभृतयः आदेशाः समासान्ताः स्युः । पात्पादस्याहस्त्यादेः ॥ २१ ॥ For Personal & Private Use Only Page #103 -------------------------------------------------------------------------- ________________ समासे बहुव्रीहिः । हस्त्यादिवर्जादुपमानात्पादस्य पात् । अघुट्स्वरादौ पदादेशश्चास्य । व्याघ्रपात् । व्याघ्रपदः पश्य । हस्त्यादिनिषेधात् हस्तिपादः । (सुसङ्ख्यात्*) सुपात् द्विपात् । ( वयसि दन्तस्य दतृः ) ऋकारो नोन्तार्थः । सुदन् द्विदन् बालः । (वाग्रान्तशुद्धशुभ्रवृषवराहाहिमूषिकशिखरात्) कुन्दाग्रदन् । कुन्दाग्रदन्तः । शुद्धदन् शुद्धदन्तः । ( धनुषो धन्वन्* ) शार्ङ्गधन्वा । ( वा नाम्नि ) पुष्पधन्वा । पुष्पधनुः । ( जायाया जानि) भूजानिः । (स्त्रियामूधसोन्) कुण्डोनी गौः । ९५ इति बहुव्रीहिः । विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासंप्रतिपश्चात्क्रमख्यातियुगपत्सदृक् संपत्साकल्यान्तेऽव्ययम् ॥ २२ ॥ एष्वर्थेषु वर्तमानमव्ययं नाम्ना सह पूर्वपदार्थे वाच्ये नित्यं समासोऽव्ययीभावः स्यात् । विभक्तिः । विभक्त्यर्थः कारकम् । स्त्रीषु इति विग्रहे । ऐकार्थ्ये इति विभक्तिलोपः । प्रथमोक्तं प्राग्वत् ॥ २३ ॥ अत्र समासप्रकरणे प्रथमान्तेन सूत्रे यन्निर्दिष्टं तत्प्राक् स्यात् । इत्यव्ययस्य पूर्वभावः । अधिस्त्री इति भवति । द्वन्द्वैकत्वाव्ययीभावौ इत्यव्ययीभा For Personal & Private Use Only Page #104 -------------------------------------------------------------------------- ________________ ९६ हैमलघुप्रक्रियाव्याकरणे वस्य क्लीबत्वात् ह्रस्वत्वम् । नामसंज्ञायां स्यादिः । अनतो लुप् ॥ २४ ॥ । अदन्तवर्जस्याव्ययीभावस्य स्यादेर्लुप् स्यात् । अधिस्त्रि गृहकार्यम् । अमव्ययीभावस्यातोऽपञ्चम्याः॥२५॥ .. अदन्तस्याव्ययीभावस्य स्यादेरम् स्यात् । न तु पञ्चम्याः। उपकुम्भमस्तिः पश्य देहि देशः। उपकुम्भादानय । (वा तृतीयायाः*) उपकुम्भं उपकुम्भेन कृतम् । (सप्तम्या वा*) उपकुम्भं उपकुम्भे निधेहि । मद्राणां समृद्धिः सुमद्रम् । विगता ऋद्धिय॒द्धिः । यवनानां व्यृद्धिदुर्यवनम् । अर्थाभावो धर्मिणोऽसत्त्वम् । मक्षिकाणामभावो निर्मक्षिकम् । अत्ययोऽतीतत्वम् । वर्षाणामत्ययोऽतिवर्षम्। असंप्रतीति वर्तमानकाले। उपभोगाद्यभावः। कम्बलस्यासंप्रति अतिकम्बलम् । रथस्य पश्चादनुरथं याति । ज्येष्ठस्य क्रमेणानुज्येष्ठं प्रविशन्तु । भद्रबाहोः ख्यातिरितिभद्रबाहु । अहोभद्रबाहु । चक्रेण युगपत्सचक्रं धेहि (अकालेऽव्ययीभावे सहस्य सः*) व्रतेन सदृक् सव्रतम् । ब्रह्मणः संपत् सब्रह्म साधूनाम् । तृणैः सह सकलं सतृणं भुते। पिण्डेषणापर्यन्तमिति सपिण्डेषणमधीते । अत्र सर्वत्राव्ययार्थप्राधान्यमित्यादि प्राग्वत् । For Personal & Private Use Only Page #105 -------------------------------------------------------------------------- ________________ समासेऽव्ययीभावः। योग्यतावीप्सार्थाऽनतिवृत्ति सादृश्ये ॥ २६ ॥ एतदर्थानामव्ययानामव्ययीभावः स्यात् । रूपस्य योग्यमनुरूपम् । अर्थमर्थ प्रति प्रत्यर्थ समीक्ष्यते । शक्तिमनतिक्रम्य यथाशक्ति दत्ते । शीलस्य सादृश्यमिति सशीलमनयोः। - यथाऽथा ॥ २७॥ थाप्रत्ययरहितमव्युत्पन्नं यथेत्यव्ययं नाम्ना समस्यते । यथारूपं चेष्टते । अथेति किम् । यथा चैत्रस्तथा मैत्रः। - यावदियत्वे ॥२८॥ इयत्त्वे गम्ये यावदिति समस्यते । यावत्यमत्राणि तावत इति यावदमत्रं श्राद्धान् भोजय । पर्यपाबहिरच् पञ्चम्या ॥ २९॥ पर्यादीनि पञ्च पञ्चम्यन्तेन समस्यन्ते । परि त्रिगर्तेभ्यः परित्रिगर्तम् । एवमपत्रिगर्तम् । बहिामम् । आग्रामम् । प्राग्यामं वृष्टो मेघः। लक्षणेनाभिप्रत्याभिमुख्ये ॥३०॥ आभिमुख्ये वर्तमानौ अभिप्रती चिह्नवाचिना समस्येते । अभ्यग्नि प्रत्यंग्निं शलभाः पतन्ति । (दैर्येऽनुः*) अनुगङ्गं काशी । (समीपे*) अनुव व्या. ९ For Personal & Private Use Only Page #106 -------------------------------------------------------------------------- ________________ ९८ . हैमलधुप्रक्रियाव्याकरणे नमशनिर्गता (तिष्ठग्वित्यादयः साधवः) तिष्ठद्गुः कालः। नित्यं प्रतिनाऽल्पे ॥३१॥ अल्पेऽर्थे वर्तमानेन प्रतिना नित्यं समस्यते सोऽव्ययीभावः स्यात् । शाकस्याल्पत्वं शाकप्रति । पारेमध्येऽन्तः षष्ठया वा ॥ ३२॥ -- - एषां चतुर्णा पच्यन्तेन सहाव्ययीभावो वा स्यात् । गङ्गायाः पारे पारेगङ्गम् । मध्येगङ्गम् । अग्रवणम् । अन्तगिरि । निपातनादेत्वम् । पक्षे गङ्गापारम् । तत्रादायमिथस्तेनप्रहृत्येति सरूपेण युद्धेऽव्ययीभावः ॥ ३३ ॥ - सप्तम्यन्तं मिथ आदायेति तृतीयान्तं च मिथः प्रहत्येति युद्धे वाच्ये सरूपेण नानाव्ययीभावः स्यात् । इच् युद्धे ॥ ३४॥ युद्धे यः समासस्तस्मादिच् समासान्तः स्यात् । ___ इच्यस्वरे दीर्घ आञ्च ॥ ३५॥ इजन्तेऽस्वरादावुत्तरपदे पूर्वपदस्य दीर्घत्वमाञ्च स्याताम् । केशेषु केशेषु मिथो गृहीत्वा कृतं युद्धं केशाकेशि । मुष्टिभिर्मुष्टिभिर्मिथः प्रहृत्य कृतं युद्धं "मुष्टीमुष्टि। मुष्टामुष्टि। अखर इति किम् । अस्यसि। M ." For:Personal & Private Use Only Page #107 -------------------------------------------------------------------------- ________________ समासे तत्पुरुषः। ९९ प्रतिपरोनोरव्ययीभावात् ॥ ३६ ॥ प्रत्यादिपूर्वादक्ष्यन्तादव्ययीभावादत्स्यात् । प्रत्यक्षम् । परोक्षम् । अन्वक्षम् । अनः ॥३७॥ अनन्तादव्ययीभावादत्स्यात् । नोऽपदस्य तद्धिते ॥३८॥ नकारान्तस्यापदस्य तद्धितें परेऽन्त्यस्वरादेर्लुक् । उपराजम् । (नपुंसकाददन्ताद्वा*) उपचर्मम् । उपचर्म । (गिरिनदीपौर्णमास्याग्रहायण्यपञ्चमवग्र्याद्वा*) अन्तर्गिरम् अन्तर्गिरि । उपसमिधम् उपसमित् । .सङ्ख्यासमाहारे ॥ ३९ ॥ नदीभिरित्यव्ययीभावे (सङ्ख्याया नदीगोदाबरीभ्यामत् स्यात् ) पञ्चनद्यः पञ्चनदम् । द्विगोंदावरम् । (शरदादेः*) प्रतिशरदम् (जराया जरस्वां*) उपजरसम् । (सरजसोपशुनानुगवम् ) एतेऽदन्ता अव्ययीभावा निपात्याः। .. इत्यव्ययीभावः। प्रात्यवपरिनिरादयो गतकान्तक्रुष्टग्लानक्लान्ताद्यर्थीः प्रथमाद्यन्तैः ॥ ४० ॥ प्रादयो गताद्यर्थाः प्रथमान्तैरत्यादयः कान्ता For Personal & Private Use Only Page #108 -------------------------------------------------------------------------- ________________ १०० हैमलघुप्रक्रियाव्याकरणे द्यर्था द्वितीयान्तैरवादयः क्रुष्टाद्यर्थास्तृतीयान्तैः पर्यादयो ग्लानाद्यर्थाश्चतुर्थ्यन्तैर्निरादयः क्लान्ताद्यर्थाः पञ्चम्यन्तैर्नित्यं समस्यन्ते स तत्पुरुषः । प्रगतः प्रकृष्टो वाऽऽचार्यः प्राचार्यः। गौणस्य ङयावन्तस्यान्तस्थस्य ह्रस्वः। अतिक्रान्तः खट्वामतिखदः। अवक्रुष्टः कोकिलयाऽवकोकिलः। परिग्लानोऽध्ययनाय पर्यध्ययनः । निर्गतः कौशाम्ब्याः निष्कौशाम्बिः। (अव्ययं प्रवृद्धादिभिः समस्यते*) पुनःप्रवृद्धं बर्हिः। ङस्युक्तं कृता ॥ ४१ ॥ . कृत्प्रत्ययविधायकसूत्रे डन्स्यन्तनाम्नोक्तं कृदन्तेन नाम्ना नित्यं समस्यते । कुम्भं करोतीति कुम्भकारः । कर्मणोऽण् इत्यण् । गतिकारकडस्युक्तानां कृदन्तैर्विभत्युत्पत्तेः प्रागेव समासः । (तृतीयोकं न वा*) मूलकेनोपदंशं मूलकोपदंशं भुते। पाश्वयोः पार्थाभ्यां वोपपीडं पार्थोपपीडं शेते । (यथायोगं द्वितीयाद्यन्तं नाम प्रथमान्तेन समस्यते स द्वितीयादितत्पुरुष इति वक्तव्यम्) धमप्राप्तः । मदपटुः । आत्मकृतम् । यूपदारु । गोहितम् । वृकभयम् । राजपुरुषः। पानशौण्डः । (सिंहाद्यैः पूजायां सप्तम्यन्तं समस्यते*) समरसिंहः भूमिवासवः । काकाद्यैः क्षेपे) तीर्थकाकः । तीर्थश्वा इत्यादि। For Personal & Private Use Only Page #109 -------------------------------------------------------------------------- ________________ समासे तत्पुरुषः । तदर्थार्थेन ॥ ४२ ॥ चतुर्थ्यर्थेनार्थशब्देन चतुर्थ्यन्तं समस्यते । पूजार्था स्रग् । ( परःशताद्याः) पञ्चमीतत्पुरुषाः ( सर्वपश्चादादयः) षष्ठीतत्पुरुषाः (पात्रेसमितेत्यादयश्च) सप्तमीतत्पुरुषा निपात्याः । (यत्नजषष्ठ्यन्तं न समस्यते) सर्पिषोनाथितम् । न कर्तरि ॥ ४३ ॥ कर्तृजषष्ठ्यन्तमकान्तेन न समस्यते । तव शायिका । नञ् ॥ ४६ ॥ नञ् नाम्ना सह समस्यते स तत्पुरुषः । कर्मजा तृचा च ॥ ४४ ॥ कर्मजषष्ठ्यन्तमकान्तेन तृजन्तेन च न समस्यते । भक्तस्य भोजकः । अपां स्रष्टा । ( तृतीयायां कर्तरि ) आश्चर्यो गवां दोहोऽगोपेन । तृप्तार्थपूरणाव्ययातृश्शंत्रानशा ॥४५॥ 1 एभिः षड्रभिः सह षष्ठ्यन्तं न समस्यते । फ लानां तृप्तः । तीर्थकृतां षोडशः । राज्ञः साक्षात् । रामस्य द्विषन् । चैत्रस्य पचन् । मैत्रस्य पचमानः । (ज्ञानेच्छार्चार्थाधार केन* ) राज्ञां ज्ञातः इष्टः पूजितः । इदमेषां यातम् । ( अस्वस्थगुणैः ) पटस्य शुक्लः । काकस्य कार्ण्यम् । 1 For Personal & Private Use Only १०१ Page #110 -------------------------------------------------------------------------- ________________ १०२ . हैमलघुप्रक्रियाव्याकरणे द्वौ नौ प्रकृती लोके पर्युदासप्रसज्यको । पर्युदासः सदृग्याही प्रसज्यस्तु निषेधकृत् ॥१॥ तदन्यतद्विरुद्धादयो नञोऽर्थाः। नत् । असाधुः । (त्यादौ क्षेपे नञः अ स्यात्*) अपचसि त्वं जाल्म। अन् खरे ॥४७॥ स्वरादौ परे नमोऽन् स्यात् । अनार्यः। (नखनासत्यादयो निपात्याः*) .. दुनिन्दाकृच्छ्रे ॥४८॥ । एतन्निन्दाकृच्छ्रवृत्ति नाम्ना समस्यते । दुर्जनः दुष्कृतम् (सुः पूजायाम्*) सुजनः। अतिरतिक्रमे च ॥४९॥ ... अतिरतिक्रमेऽचार्या च समस्यते । अतिस्तुत्यः अतिराजा । (आडग्रूपे*) आकडारः। (पूर्वापराधरोत्तरमभिन्नेनांशिना समस्यते*) पूर्वकायः। (समेंऽशेऽध वा*) अर्धपिप्पली पिप्पल्यर्धम् । (जरत्यादिभिरप्य| वा समस्यते*) अर्धजरती जरत्यर्धः । (सायाह्लादयः साधवः।) गतिवन्यस्तत्पुरुषः ॥५०॥ गतिसंज्ञाः कु इत्यव्ययं च नाना समस्यते । समासोऽन्यो बहुव्रीह्यादिलक्षणरहितस्तत्पुरुषः स्यात् । परीकृत्य। प्रणय। कुत्सितो ब्राह्मणः क्रुजामणः । For Personal & Private Use Only Page #111 -------------------------------------------------------------------------- ________________ - समासे तत्पुरुषः । १०॥ नित्यसमासोऽयमविग्रहोऽस्वपदविग्रहश्च नित्यसल मासः स्यात्। (कोः कत्तत्पुरुषे स्वरादौ परे ) कद नम्। (रथवदे तथा*) कद्रथः कद्वदः । काऽक्षपथोः॥५१॥ ... अनयोः परयोः कोः का स्यात् । काक्षः। कापथम् । (पुरुषे वा*) कापुरुषः कुपुरुषः । की अल्पे ॥ ५२॥ ईषदर्थस्य को का स्यात् । काच्छम् । - काकवौ वोष्णे ॥ ५३॥ ईषदर्थस्य कोरुष्णे परे काकवौ वा स्याताम् ।। कोष्णम् । कवोष्णम् । कदुष्णम् । - मयूरव्यंसकेत्यादयः ॥ ५४॥ एते तत्पुरुषाः समासा निपात्यन्ते। मयूरव्यंसकः। एहीडं वर्तते । अनीतपिबता क्रिया। एहिरेयाहिरा । कुरुकंटो वक्ता । गतप्रत्यागतम् । शाकपार्थिवः । त्रिभागः । (समासे यथायोगं लुग्दीर्घहस्वादिकं वाच्यम्*) मांस्पाकः मांसपाकः। (उदकादेरुदादिर्यथायोगम) उदधिः। उदकुम्भः उदककुम्भः । उदबिन्दुः । उदकबिन्दुः । लवणोदः। द्वीपम् । अनूपः । (राजदन्तादिषु प्राङ्गिपाताहैपदस्य विपर्यया*) दन्तानां राजा राजदन्तः।(तपुरुषाददट्समासान्तौ यथायोगं वक्तव्यौ ) ( For Personal & Private Use Only Page #112 -------------------------------------------------------------------------- ________________ १०४ हैमलघुप्रक्रियाव्याकरणे पूःपथ्यपोऽत्*) राज्ञः पू: राजपुरम् । मोक्षस्य पन्थाः मोक्षपथः । (ब्रह्महस्तिराजपल्यावर्चस:*) ब्रह्मवर्चसम् । गोस्तत्पुरुषात् ॥ ५५॥ ... गवान्तात्तत्पुरुषादद् स्यात् । सुरगवी । (राजन्सखेः ) देवराजः राजसखः। अहः॥ ५६॥ - अस्मादट् । देवाहः । पुण्याहम् । (सङ्ख्यातादहश्च वा*) सङ्ख्यातमहः सङ्ख्याताः सङ्ख्यावाहः । (सर्वाशसङ्ख्याव्ययात्*) सर्वमहः सवाल पूर्वाह्नः। द्वयोरह्नोभवो व्यह्नः पटः। अत्यही कथा। (सङ्ख्यातैकपुण्यवर्षादीर्घाच्च रात्रेरत्* ) सङ्ख्यातरात्रः । सर्वरात्रः । अर्धरात्रः। ___पुरुषायुषद्विस्तावत्रिस्तावम् ॥ ५७॥ एतेऽदन्तास्तत्पुरुषाः साधवः । (कचित्तत्पुरुषात् डा*) न दश अदशाः । (क्वचिन्न*) किंराजा । सुसखा। इति तत्पुरुषः । विशेषणं विशेष्येणैकार्थ कर्मधार यश्च ॥५८॥ - एकार्थ विशेषणवाचि विशेष्यवाचिना समस्यते स तत्पुरुषः कर्मधारयश्च स्यात् । नीलं च तदुत्पलं For Personal & Private Use Only Page #113 -------------------------------------------------------------------------- ________________ समासे कर्मधारयः । ૧૦× च नीलोत्पलम् । श्वेतगवी । एकार्थमिति किम् । वृद्धस्योक्षा वृद्धक्षा | पूर्वकालैकसर्वजरत्पुराणनवकेव लम् ॥ ५९ ॥ पूर्वः कालो यस्य तद्वाचि एकादीनि चैकार्थानि नाम्ना समस्यन्ते । पूर्व स्नातः पश्चादनुलिप्तः स्नातानुलिप्तः । एकशाटीत्यादि । निन्द्यं कुत्सनैरपापाद्यैः ॥ ६० ॥ निन्द्यं निन्दावाचिभिः समस्यते । तार्किकखसूची । अपापाद्यैरिति किम् । पापमुनिः । हतविधिः । उपमानं सामान्यैः ॥ ६१ ॥ उपमानवाचि उपमानोपमेयसाधारणधर्मवाचिभिः समस्यते स तत्पुरुषः कर्मधारयश्च स्यात् । शस्त्रीव श्यामा शस्त्रीश्यामा | उपमेयं व्याघ्राद्यैः साम्यानुक्तौ ॥ ६२ ॥ उपमेयवाचि उपमानवाचिभिर्व्याघ्राद्यैः साधारणधर्मानुक्तौ समस्यते । पुरुषो व्याघ्र इव पुरुषव्याघ्रः । साम्योक्तौ तु पुरुषो व्याघ्र इव शूर इत्यत्र न स्यात् । सन्महत्परमोत्तमोत्कृष्टं पूजायाम् ॥ ६३ ॥ पूजायां गम्यायामेतानि पञ्च पूज्यवाचिभिः स For Personal & Private Use Only Page #114 -------------------------------------------------------------------------- ________________ १०६ हैमलघुप्रक्रियाव्याकरणे मस्यन्ते स तत्पुरुषः कर्मधारयश्च । सत्पुरुषः। जातीयैकार्थेऽच्वेः ॥ ६४॥ महतोऽव्यन्तस्य जातीयरि प्रत्यये एकार्थे च पदे परे डाः स्यात् । महाजातीयः । महाराजः । - वृन्दारकनागकुञ्जरैः॥६५॥ एभिः सह पूज्यवाचि समस्यते। मुनिवृन्दारकः। (किम् क्षेपे समस्यते) (क्षेपार्थाकिमः पूजार्थाभ्यां स्वतिभ्यां नञ्तत्पुरुषाच्च यथायोग समासान्तनि-षेधो वक्तव्यः*) किंराजा । किंगौः। जातमहद्वृद्धादुक्ष्णः कर्मधारयात् ॥ ६६ ॥ कर्मधारये एभ्य उक्ष्णोऽत्स्यात् । जातोक्षः । ___पुंवत्कर्मधारये ॥ ६७॥ अनूङ्परतः स्त्री स्येकार्थे उत्तरपदे पुंवत्स्यात्। कल्याणी चासौ प्रिया च कल्याणप्रिया। इति कर्मधारयः। सङ्ख्यासमाहारे च द्विगुश्चानाम्न्ययम् ॥६॥ सङ्ख्यावाचि परेण नाम्ना समस्यते संज्ञातद्धितयोर्विषये उत्तरपदे च परे समाहारार्थे च स सभासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च स्यात् । अयमेव चासंज्ञायां द्विगुसंज्ञश्च भवति । सप्तर्षयः । द्वैमातुरः । पञ्चगवधनः संज्ञादिषु, नित्यसमासः । समाहारे तु वाक्यमपि भवति । For Personal & Private Use Only Page #115 -------------------------------------------------------------------------- ________________ समासे द्वन्द्वः । १० द्विगोः समाहारात् ॥ १९॥ समाहाराद्विगोरदन्तास्त्रियां डीः स्यात् । पञ्च ग्रामाः समाहृताः पञ्चग्रामी । (पात्रादिगणान्त इकाराद्यन्तश्च समाहारद्विगुर्नपुंसकम् ) द्विषात्रम् । चतुर्मासम् । त्रिभुवनम् । चतुष्पथम् । त्रिगुप्ति । ( अन्नन्ताबन्तान्तो वा नपुंसकम् ). द्विगोरनहोऽदः ॥ ७॥ __ अन्नन्तादहनन्ताच्च समाहारद्विगोरट् स्यात् । नोपदस्येति । पञ्चराजी पञ्चराजम् यहा इत्यादि । पश्चमाली पञ्चमालम् । त्रिसन्ध्यमिति तु क्लीबम् । त्रिफलेति च रूढितः। ..इति द्विगुः। चार्थे इन्द्रः सहोक्तौ ॥ ७१ ॥ ५ नाम नाम्ना सह चार्थे समस्यते सहोक्तिविषये सति स समासो द्वन्द्धः स्यात् । समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थाः। तत्रैकस्मिन् यादीनां क्रियाकारकद्रव्यगुणानां तुल्यकक्षतया ढौकनं समुञ्चयः। चैत्रः पचति पठति चेति । गुणमुख्यभावेनैकस्मिन् यादीनां क्रियादीनां ढौकनमन्वाचयः बटो भिक्षामट-गां चानय इत्येतयोः सहोत्यभावान्न समासः। परस्परसापेक्षाणां द्रव्याणां क्रियां प्रति ढौकनमितरतरयोगसमाहारौ । तत्रोद्भूतापक, For Personal & Private Use Only Page #116 -------------------------------------------------------------------------- ________________ १०८ हैमलघुप्रक्रियाव्याकरणे वभेद इतरेतरयोगोऽत एवात्रावयवद्वित्वबहुत्वापेक्षया द्विवचनबहुवचने । चैत्रश्च मैत्रश्च चैत्रमैत्रौ पश्यतः । चैत्रमैत्रदत्ताः पश्यन्ति । न्यग्भूतावयवभेदस्तु समाहारोऽतस्तत्रैकवचनमेव । धवखदिरपलाशम्। समानामर्थेनैकः शेषः ॥ ७२ ॥ तुल्यार्थानां द्वन्द्व एकः शिष्यतेऽन्ये निवर्तन्ते । वक्रश्च कुटिलश्च वक्रौ कुटिलौ वा। . स्यादावसङ्ख्येयः ॥ ७३ ॥ : सर्वस्यादिषु तुल्यरूपाणां भिन्नार्थानामप्येकशेषः स्यात्सङ्ख्येयवाचिशब्दं वर्जयित्वा । अक्षश्च अक्षश्च अक्षश्च अक्षाः । शकटाङ्गपाशकबिभीतकाः। त्यदादिः ॥७४॥ अन्येन सहोक्तौ त्यदादिः शिष्यते । मिथः सहोक्तौ तु यथापरम्।स च चैत्रश्च तौ।सच यश्च यौ। - भ्रातृपुत्राः खस्मृदुहितृभिः ॥७५॥ - स्वस्रादिभिः सहोक्तौ भ्रात्रादिः शिष्यते। भ्राता च स्वसा च भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ । (श्वशुरः श्वश्रूभ्यां वा शिष्यते*) श्वशुरौ श्वश्रू. श्वशुरौ। (पिता मात्रा वा तथा*) पितरौ । पक्षे। मातरपितरं वा ॥ ७६॥ - मातृपित्रोईन्द्वे ऋतोऽरो वा निपात्यः। मातरपितरौ । पक्षे। For Personal & Private Use Only Page #117 -------------------------------------------------------------------------- ________________ समासे द्वन्द्वः। १०९ आ द्वन्द्वे ॥ ७७॥ ऋता द्वन्द्व विद्यायोनिसंबन्धे पूर्वपदस्य आः स्यात् । होतापोतारौ । मातापितरौ । पुत्रे । पितापुत्रौ मातापुत्रौ होतापुत्रौ । (देवताद्वन्दे पूर्वपदस्यात्वादिकं वक्तव्यम् ) सूर्याचन्द्रमसौ । अमीषोमौ। पशुव्यञ्जनानाम् ॥७८॥ - एषां स्वैर्द्वन्द्व एकार्थो वा स्यात् । गोमहिषम्। गोमहिषौ । दधिघृतम् दधिघृते । (तरुतृणधान्यमृगपक्षिणां बहुत्वे वैकार्थता*) धवन्यग्रोधम् धवन्यग्रोधाः। कुशकाशम् कुशकाशाः। तिलमाषम् २ । शशैणम् २ । हंसशुकम् २। (सेनाङ्गक्षुद्रजन्तूनां बहुत्वे नित्यमेकार्थता*) अश्वरथम् । यूकालिक्षम्। (प्राणितूर्याङ्गाणां जातिवैरवतां च तथा*) हस्तपादम् । मादेङ्गिकपाणविकम् । अहिनकुलम् । (गवाश्वादिः) गवाश्वमित्यादि । (न दधिपयआदिः) दधिपयसी । (सङ्ख्याने तथा* ) दश गोमहिषाः। चवर्गदषहः समाहारे ॥ ७९ ॥ एतदन्तात्समाहारद्वन्द्वादत्स्यात् । वाक्त्वचम् । संपद्विपदम् । वाक्त्विषम् । छत्रोपानहम् । [स्त्रीपुंसौ । वाङ्मनसे । अहोरात्रः । रात्रिंदिवम् । न व्या. १० For Personal & Private Use Only Page #118 -------------------------------------------------------------------------- ________________ 3 . ११० हैमलघुप्रक्रियाव्याकरणे कंदिवम्/ अक्षिभुवम् । दारगवमित्यादयोऽदन्ता द्वन्द्वा:साधवः]। लवक्षरासखीदुत्स्वराद्यदल्पखरार्य मेकम् ॥ ८॥ लघ्वक्षरं सखिवर्जेकारोकारान्तं स्वराद्यकारान्तमल्पस्वरं पूज्यवाचि चै द्वन्द्वे प्राक् स्यात् । करशीर्षम् । पतिसुतौ । वायुतोयम् । अस्त्रशस्त्रम् । प्लक्षन्यग्रोधम् । श्रद्धामधे। - मासवर्णभ्रात्रनुपूर्वम् ॥ ८१॥ - एतद्वाचि द्वन्द्वे यथाक्रमं प्राक् स्यात् । (तुल्यस्वराणां भर्तनामप्येवम् )। फाल्गुनचैत्रौ । ब्राह्मणक्षत्रियो । रामकृष्णौ । ज्येष्ठामूले । ग्रीष्मवर्षाः । (सङ्ख्यासमासे*) द्वित्राः। (धर्मार्थादिष्वनियमः )। धर्मार्थों अर्थधौं । शब्दार्थों अर्थशब्दौ। इति द्वन्द्वः। " (एकादश षोडश षोडत् पोढा षड्ढा एते साधवा*) षड् दन्ता यस्य षोडन् । द्वित्र्यष्टानां द्वात्रयोऽष्टाः प्राक् शतादनशीतिबहुव्रीहौ ॥ ८२॥ शताप्राक् सङ्ख्यायामुत्तरपदे परे यादीनां द्वादय आदेशाः स्युः न त्वशीतौ बहुव्रीहिविषये च । द्वादश । त्रयोविंशतिः । अष्टात्रिंशत् । (चत्वारिं For Personal & Private Use Only Page #119 -------------------------------------------------------------------------- ________________ शेषसमासाः । १११ शदादौ वा* ) द्वाचत्वारिंशत् द्विचत्वारिंशत् । अनशीति बहुव्रीहाविति किम् । व्यशीतिः द्वित्राः । (अन्यादोन्तोऽर्थादिषु वा* ) अन्यदर्थः अन्यार्थः । परस्पराऽन्योन्येतरेतरस्याम् स्यादेव पुंसि ॥ ८३ ॥ एषामपुंसि स्यादेराम् वा स्यात् । स्त्रियौ कुले वा परस्परां परस्परं भोजयतः । स्त्रीभिः कुलैर्वा परस्परां परस्परेण भोज्यते । पुंसि तु नराः परस्परं पश्यन्ति । त्रयोप्यमी क्रियाव्यतिहारविषया एकत्वपुंस्त्ववृत्तय इत एव सूत्रनिर्देशात्साधवः । एवमेकैको द्वन्द्वमित्यादि । समासे क्वचित्स्यादीनामलुपू स्यात् । (ननाम्येकस्वरात्खित्युत्तरपदेऽमः ) स्त्रीं स्त्रियं वात्मानं मन्यते स्त्रींमन्यः स्त्रियंमन्यः । (ओजोऽञ्जः सहोऽम्भस्तमस्तपसष्ट ) ओजसाकृतम् । (आत्मनः पूरणे ) आत्मना चतुर्थः । ( परात्मभ्यां ङेः नाम्नि ) परस्मैपदम् । आत्मनेपदम् । (असत्त्वे उसेः ) स्तोकान्मुक्तः । (षष्ठ्याः क्षेपे ) चौरस्य कुलम् । (पुत्रे वा*) दास्याःपुत्रः दासीपुत्रः । ( पश्यद्वागूदिशो हरयुक्तिदण्डे ) पश्यतोहरः । ( अदसोऽकञायनणो ) अमुष्यपुत्रस्य भाव आमुष्यपुत्रिका । अमुष्यापत्यमामुष्यायणः । देवानांप्रिय इत्यादि । ( अव्यञ्जनात्सप्तम्या बहुलं नाम्नि * ) अरण्येतिलकाः । युधिष्ठिरः ( अमूर्द्धमस्तकात्स्वा For Personal & Private Use Only Page #120 -------------------------------------------------------------------------- ________________ ११२ हैमलघुप्रक्रियाव्याकरणे गादकामे*) कण्ठेकालः । उरसिलोमा । (कचिद्वा*) मनसिजः मनोजः। सरसिजं सरोजम् । वाचस्पत्यादयो निपात्याः । (समासे क्वचित्सकारनकारयोः षत्वणत्वे वक्तव्ये*) मातृष्वसा पितृवसा । निष्णः निष्णातः नदीष्णः । प्रष्ठोऽग्रगे । प्रस्थोऽन्यः । (निःसुवेः समसूतेः षः* ) निःषमः दुःषमा सुषमा । भ्रातुष्पुत्रकस्कादय एते साधवः। ( निष्प्रान्तःखदिरकार्यावशरेक्षुप्लक्षपीयूक्षाभ्यो वनस्य नो ण् ) निर्वणं प्रवणम् । द्वित्रिखरौषधिवृक्षेभ्यो न वाऽनि रिकादिभ्यः॥८४॥ द्वित्रिस्वरेभ्य इरिकादिवर्जेभ्यश्चौषधिवृक्षवाचिभ्यः परस्य वनस्य नस्य णो वा स्यात् । दूर्वावर्ण दूर्वावनम् । नीवारवणं नीवारवनम् । (गिरिनद्यादीनां वा*) गिरिणदी गिरिनदी । एवं क्षीरपाणं क्षीरपानम् । व्रीहिवापिणौ ब्रीहिवापिनौ । (ग्रामानान्नियः*) ग्रामणीः। पृषोदरादयःसाधवः। इति श्रीमहोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविज. यमणिविरचितायां हैमलघुप्रक्रियायां समासप्रक्रिया समाप्ता। -17, N i r..... . .. ... . . For Personal & Private Use Only Page #121 -------------------------------------------------------------------------- ________________ तद्धितेष्वपत्यत्वाधिकारः। ११३ अथ तद्धिता निरूप्यन्ते ॥ तद्वितोऽणादिः ॥१॥ वक्ष्यमाणाः प्रत्ययास्तद्धितसंज्ञाः स्युः। वाद्यात् प्रागजितादण्इत्याद्यधिकृतम् । उपगोरपत्यम् अनन्तरं वृद्धं चेति वाक्ये । ____ उसोऽपत्ये ॥२॥ षष्ठ्यन्तानानोऽपत्येऽर्थे यथाविहितमणादयःस्युः। आद्यात् ॥ ३॥ अपत्यार्थप्रत्यया आद्यासरमप्रकृतेरेव स्युः । ऐकायें इति विभक्तिलुपि उपगु अण् इति स्थिते णकारो वृद्ध्यर्थः। वृद्धिः स्वरेष्वादेणिति तद्धिते ॥४॥ जिति णिति च तद्धिते परे प्रकृतेराद्यस्वरस्य वृद्धिः स्यात् । ____ अवयंभूवोऽव् ॥ ५॥ .. स्वयंभूव|वर्णस्यापदस्य तद्धिते परेऽव् स्यात् । औपगवः । अस्वयंभुव इति किम् स्वायंभुवः। अणयेकण्ननटिताम् ॥६॥ एतदन्तानां स्त्रियां डीः स्यात् । औपगवी । नोऽपदस्य तद्धित इत्यन्त्यस्वरादिलुकि मैधावः। - For Personal & Private Use Only Page #122 -------------------------------------------------------------------------- ________________ ११४ हैमलघुप्रक्रियाव्याकरणे अणि ॥७॥ अन्नन्तस्याण्यन्त्यस्वरादेलुंग् न स्यात् । सौत्वनः। ___ अत इञ् ॥८॥ अदन्तात्षष्ठ्यन्तादपत्ये इञ् स्यात् अकारो वृ. ध्यर्थः । अवर्णेवर्णस्येत्यल्लुकि दाक्षिः। बाह्वादिभ्यो गोत्रे ॥९॥ स्वापत्यसन्तानस्य स्वव्यपदेशहेतुर्य आद्यपुरुषस्तदपत्यं गोत्रम् । बाह्वादिभ्यो गोत्रे इञ् स्यात् । बाहविः । (कचिदिनि स्लुक्*) भूयसामपत्यं भौयिः आम्भिः। व्यासवरुटसुधातृनिषादबिंम्बचण्डा.. लादन्तस्य चाक् ॥ १०॥ एभ्योऽपत्ये इअन्तस्य चाक् । ___स्वः पदान्तात्प्रागैदौत् ॥ ११॥ ञ्णिति तद्धिते परे यो वौ पदान्तौ ताभ्यां प्रागैदौतौ स्यातामिति यकाराद्विश्लेषितस्य वकारस्यैकारागमः ।वैयासकिः। पुनर्भूपुत्रदुहितननान्दुरनन्तरेऽञ् ॥ १२॥ ___ एभ्योऽनन्तरेऽपत्येऽञ् स्यात् । पौनर्भवः पौत्रः दौहिना नानान्द्रः पौत्री। For Personal & Private Use Only Page #123 -------------------------------------------------------------------------- ________________ तद्धितेष्वपत्यत्वाधिकारः । बिदादेर्वृद्धेऽञ् ॥ १३ ॥ बहुत्वे चास्त्रियामस्य लुप् । पौत्रादि वृद्धम् ॥ १४ ॥ परमप्रकृतेर्यत्पौत्राद्यपत्यं तद्वृद्धं स्यात् । बिदस्य वृद्धमपत्यं बैदः और्वः । गर्गादेर्यञ् ॥ १५ ॥ वृद्धे । गार्ग्यः । ११५ व्यञ्जनात्तद्धितस्य ॥ १६ ॥ व्यञ्जनात्परस्य तद्धितस्य यो डयां लुक् । गार्गी । ( कुञ्जादेर्जायन्यः वृद्धे* ) कौञ्जायन्यः । (स्त्रीबहुष्वायनञ् वृद्धे* ) कौञ्जायनी कौञ्जायनाः । ( अश्वादेरायनञ् वृद्धे* ) आश्वायनः ( नडादिभ्य आयनण वृद्धे ) नाडायणः । अदसोऽकञायनणोः ॥ १७ ॥ अकञन्तें उत्तरपदे आयनणि चादसः षष्ठया अलुप् स्यात् । अमुष्यापत्यं आमुष्यायणः । यञिञः ॥ १८ ॥ वृद्धे यौ यञिञौ ततो यून्यपत्ये आयनण् स्यात् । वंश्यज्यायोभ्रात्रोर्जीवति प्रपौत्रा स्त्री युवा ॥ १९ ॥ पित्रादिः स्वहेतुर्वैश्यो वंश्ये ज्येष्ठभ्रातरि च For Personal & Private Use Only Page #124 -------------------------------------------------------------------------- ________________ ११६ हैमलघुप्रक्रियाव्याकरणे जीवति प्रपौत्राद्यपत्यं स्त्रीवर्ज युवा स्यात् । समानसप्तमपुरुषे च वयःस्थानाधिके जीवति जीवद् वा। _ वृद्धावूनि ॥ २०॥ . यून्यपत्ये यः प्रत्ययः स आद्याद्वृद्धप्रत्ययान्तात्स्यात् । गर्गस्य वृद्धापत्यं गाय॑स्तस्य युवापत्यं गाग्योयणः । दाक्षायणः। शिवादेरण ॥ २१ ॥ इञोऽपवादः । अधिकारादपत्ये इत्यनुवर्तनीयम्। शैवः प्रौष्ठः । (ऋषिवृष्ण्यन्धककुरुभ्योऽण*) वासिष्ठः । वासुदेवः । श्वाफल्कः । नाकुलः। भृग्वाङ्गिरस्कुत्सवसिष्ठगोतमाऽत्रेः ॥२२॥ एभ्यः षड्भ्यो बहुत्वे गोत्रार्थप्रत्ययस्यास्त्रियां लुप् स्यात् । भृगवः । वसिष्ठाः। स्त्रियस्तु वासिष्ठयः। सङ्ख्यासंभद्रान्मातुर्मातुर्च ॥ २३॥ __सङ्ख्यार्थात्संभद्राभ्यां च परस्य मातुरण मातु. रादेशश्च । पाण्मातुरः । सामातुरः। वृद्धिर्यस्य खरेष्वादिः ॥ २४ ॥ - यस्यादिस्वरो वृद्धिसंज्ञः स्यात् स दुः स्यात् (त्यदादयश्च दुसंज्ञाः स्युः) (संज्ञादुर्वा*) देवदत्तीयाः। देवदत्ताः । ___ अदोनदीमानुषीनाम्नः ॥२५॥ For Personal & Private Use Only Page #125 -------------------------------------------------------------------------- ________________ तद्धितेष्वपत्यत्वाधिकारः। ११७ दुसंज्ञवर्जान्नदीनानो मानुषीनाम्नश्चापत्ये अण् स्यात् । यामुनः। दैवदत्तः। याप्त्यूङः ॥२६॥ एभ्यश्चतुर्थ्य एयण स्यात् । सौपर्णेयः । वैशलेयः । यौवतेयः (कद्रूपाण्डूव|वर्णस्य एये लुग वक्तव्या*) कामण्डलेयः । (द्विस्वरनद्यर्थात्तु नैयण*) सैप्रः। इतोऽनित्रः॥२७॥ इञ्वर्जेदन्ताद्विस्वरादेयण स्यात् अपत्ये । नाभेयः । (शुभ्रादिभ्य एयण*) । शौभ्रेयः । गाङ्गेयः। कल्याणादेरिन् चान्तस्य ॥ २८॥ एभ्य एयण् स्यात् अन्तस्य चेन् । काल्याणिनेयः। (कचिदुभयपदवृद्धिा*) सौभागिनेयः । पारस्त्रैणयः। (कलटाया वा अन्तस्येन) कौलटिनेयः कौलंटेयः । (चटकाण्णैरः स्त्रियां तु लुप् तस्य*) चाटकैरः चटका। . क्षुद्राभ्य एरण वा ॥२९॥ अङ्गहीना व्यभिचारिण्यो वा स्त्रियःक्षुद्रास्ताभ्य एरण वा स्यात् । काणेरः काणेयः । दासेरः दासेयः । नाटेर नाटेयः। (गोधाया दुष्टेणारश्च*) गौधारः गौधेरः। अदुष्टे तु गौधेयः।(भ्रातुर्व्यः*) भ्रातृव्यः । For Personal & Private Use Only Page #126 -------------------------------------------------------------------------- ________________ हैमलघुप्रक्रियाव्याकरणे ईयः स्वसुश्च ॥ ३० ॥ .. भ्रातुः स्वसुश्च ईयः । भ्रात्रीयः स्वस्त्रीयः । मातृपित्रादेर्डेयणीयणौ ॥ ३१ ॥ मातृपितृपूर्वात्स्वसुरेतौ स्याताम् । मातृष्वसेयः मातृष्वस्रीयः । पैतृष्वसेयः पैतृष्वस्रीयः । ( श्वशुराधः * ) श्वशुर्यः । जातौ राज्ञः ॥ ३२ ॥ राज्ञोऽपत्ये यः स्यात् जातौ गम्यायाम् । अनोऽव्ये ये ॥ ३३ ॥ अन्नन्तस्य व्यवर्जे यादौ तद्धिते परेऽन्त्यस्वरादेर्लुगू न स्यात् । राजन्यः । क्षत्रियजातिश्चेत् । ( क्षत्रादियस्तथा* ) क्षत्रियः । ( मनोर्याणौ पश्चान्तो जातो) मनुष्याः मानुषाः । ( माणवः कुत्सायामु*) मनोरपत्यं मूढं माणवः । ૨૮ कुलादीनः ॥ ३४ ॥ कुलान्तात् केवलाच्च कुलादपत्ये ईनः । बहुकुलीनः कुलीनः । (दुष्कुलादेयण वा ) दौष्कुलेयः दुष्कुलीनः । (महाकुलाद्वाऽञीनञ) माहाकुलः । माहाकुलीनः महाकुलीनः । ( कुर्वादेः ) कौरव्याः । शाङ्कव्याः । राष्ट्रक्षत्रियात्सरूपाद्राजापत्ये द्विरम् ॥३५॥ For Personal & Private Use Only Page #127 -------------------------------------------------------------------------- ________________ __ तद्धितेष्वपत्यत्वाधिकारः। ११९ राष्ट्रक्षत्रियसरूपाच्छब्दाद्राष्ट्रार्थाद्राजार्थे क्षत्रियार्थाच्चापत्येऽञ् स्यात् स च द्रिसंज्ञः। बहष्वस्त्रियाम् ॥३६॥ बहुत्वे च दूरस्त्रियां लुक् । विदेहानां राजानोऽपत्यानि वा विदेहाः। स्त्रियस्तु वैदेह्यः । सरूपादिति किम् । सौराष्ट्रको राजा । एवं दाशरथिः । पुरुमगधकलिङ्गशूरमसद्विखरादण् ॥३७॥ पुर्वादिभ्यो द्विस्वरेभ्यश्चाण द्रिः स्यात् । पौरवः । आङ्गो राजाऽपत्यं वा। दुनादिकुर्वित्कोसलाऽऽजादायः॥३८॥ दुसंज्ञेभ्यो नादेः कुरोरिदन्तेभ्यः कोसलाऽऽजादाभ्यां च द्रियः स्यात् । आम्बष्ठ्यो राजाऽपत्यं वा । एवं नैषध्यः कौरव्यः आवन्त्यः कौसल्यः आजाद्यः। (पाण्डोड्यण). पाण्ड्यः। (शकादिभ्यो द्रे प्*) शकः । यवनः। - इत्यपत्यप्रत्ययाधिकारः। पितृमातुर्व्यडुलं भ्रातरि ॥३९॥ आभ्यां यथासङ्ख्यं भ्रातरि व्यडुलौ स्याताम् । पितृव्यः मातुलः। - पित्रोडामहट् ॥ ४०॥. पितृमातृभ्यां मातापित्रोर्डामहट् स्यात् । पितामहः पितामही । मातामहः मातामही । For Personal & Private Use Only Page #128 -------------------------------------------------------------------------- ________________ हैमलघुप्रक्रियाव्याकरणे रागाहो रक्ते ॥ ४१ ॥ येन कुसुम्भादिना वस्त्रादि रज्यते स रागस्तस्माट्टान्ताद्रक्तमित्यर्थेऽण् स्यात् । कुसुम्भेन रक्तं कौसुम्भं वस्त्रम् । ( लाक्षारोचनादिकण* ) लाक्षिकः रौचनिकः पटः । षट्याः समूहे ॥ ४२ ॥ षष्ठ्यन्तात्समूहेऽणादयः स्युः । चाषम् । (भिक्षादेः ) भैक्षं गार्मिंणम् । ( गोत्रोक्षादिभ्योऽकञ्* ) औपगवकम् । औक्षकम् । (केदाराण्ण्याकज ) कैदार्य कैदारकम् । ( कवचिहस्त्यचित्ता - चेकण* ) कावचिकं । हास्तिकम् । आपूपिकम् । कैदारिकम् । (ब्राह्मणमाणववाडवाद्यः) ब्राह्मण्यम् । ( गणिकाया ण्यः* ) गाणिक्यम् । ( केशाद्वा*) कैश्यं कैशिकम् । ( वाऽश्वादीयः ) अश्वीयं आश्वम् । ( पर्श्वदङ्गण* ) पशूनां समूहः पार्श्वम् । गोरथवातान्त्रल्कट्यल्लूलम् ॥ ४३ ॥ एभ्यस्त्रिभ्य एते त्रयः स्युः । लित्प्रत्ययान्तानां स्त्रीत्वम् । गोत्रा रथकट्या वातूलः । पाशादेश्व ल्यः ॥ ४४ ॥ १२० गवादिभ्यः पाशादेश्च ल्यः स्यात् । य्यये ॥ ४५ ॥ ओदौतोः क्यवर्जे यादौ प्रत्ययेऽवावौ स्याताम् । For Personal & Private Use Only Page #129 -------------------------------------------------------------------------- ________________ तद्धितेष्वपत्यत्वाधिकारः । १२१ गव्या वात्या पाश्या । ( श्वादिभ्योऽञ्* ) शौ - वम् । ( खलादिभ्यो लिन्* ) खलिनी ऊकिनी । ( ग्रामजनबन्धुगजसहायात्तल* ) ग्रामता । इति सामूहिकाः । विकारे ॥ ४६ ॥ षष्ठयन्ताद्विकारे ऽणादयः स्युः । वाऽश्मनो विकारे ॥ ४७ ॥ विकारार्थे तद्धितेऽश्मनोऽन्त्यस्वरादेव लुक् । आश्मनः आरमः । (त्रपुजतोरण षोऽन्तश्च) त्रापुषं जातुषम् । ( पयोद्रोर्यः* ) पयस्यं द्रव्यम् । ( एकस्वरान्मयट् * ) मृन्मयम् । (गोः पुरीषे ) गोमयम् । ( अपो यज्वा ) आप्यं अम्मयम् । ह्योगोदोहादीनञ् हियङ्गुश्चास्य ॥ ४८ ॥ योगोदोहशब्दाद्विकारे नास्त्रीनञ् प्रकृतेर्हियडुरादेशश्च स्यात् । हैयङ्गवीनम् । नवनीतं घृतं वा । प्राण्यौषधिवृक्षेभ्योऽवयवे च ॥ ४९ ॥ एभ्यो विकारेऽवयवे चाणादयः स्युः । कापोतं सक्थि मांसं वा । दौर्व बैल्वं काण्डं भस्म वा । अभक्ष्याच्छादने वा मयट् ॥ ५० ॥ भक्ष्याच्छादनवर्ज यथार्ह विकारावयवयोर्मयड्डा । भस्ममयं भास्मनम् । निषेधे- मौद्रः सूपः । कार्पासः पटः । ( लुब्बहुलं पुष्पमूले फले वैकारिकस्य* ) व्या. ११. For Personal & Private Use Only Page #130 -------------------------------------------------------------------------- ________________ १२२ । हैमलघुप्रक्रियाव्याकरणे मल्लिका पुष्पम् । विदारी मूलम् । आमलं फलमित्यादि। इति वैकारिकाः। तदत्रास्ति १ तेषां निवासः २ तस्माददूरभवं ३ तेन निवृत्तं ४ चेत्यर्थचतुष्टयेऽणादयो मतुश्च यथार्ह देशे नाम्नि च वक्तव्याः। औदुम्बरं १ शैवं २ वैदिशं पुरं ३ कौशाम्बी पुरी ४ मधुमान् उदुम्बरावती। (नडकुमुदवेतसमहिषाडिन्मतुः*) नडान् कुमुद्वान् (नडशादाद् ड्वला*) नड्डला शाबलः। ___ इति चातुर्थिकाः। देवता ॥५१॥ देवतार्थात्प्रथमान्तात् षष्ठ्यर्थेऽणादयः स्युः । जिनो देवता अस्येति जैनः। तद्वेत्त्यधीते ॥ ५२॥ . द्वितीयान्ताद्वेत्त्यधीते वेत्यर्थयोरणादयः स्युः । वैयाकरणः । (न्यायादेरिकण* । नैयायिकः । ... संस्कृते भक्ष्ये ॥५३॥ ..सप्तम्यन्तादस्मिन्नर्थेऽणादयः स्युः भ्राष्ट्राः अपूपाः । (शूलोखाद्यः*) शूल्यम् उख्यम् । (क्षी रादेयण) :रेयी यवागूः। तत्र कृतलब्धकीतसंभूते कुशले जाते भवे ॥ ५४॥ For Personal & Private Use Only Page #131 -------------------------------------------------------------------------- ________________ . . . तद्धितेष्वपत्यत्वाधिकारः। सक्षम्यन्तादेष्वर्थेष्वणादयः स्युः । सौनः । (दिगादिदेहांशाद्यो भवे*) दिश्यः मूर्धन्यः । (मध्याद्दिनण्णेया मोऽन्तश्च*) माध्यंदिनः । माध्यमः। मध्यमीयः। (वर्गान्तादीयः*) कवर्गीयः। (अशब्दवर्गादीनयेयाः*) भरतवर्गीणः । भरतवर्यः । भरतवर्गीयः। तत आगते ततः प्रभवति ॥५५॥ ... अनयोरर्थयोः पश्चम्यन्तादणादयः स्युः । माथुरः पान्थः । हैमवती गङ्गा। तस्येदम् ॥ ५६ ॥ षष्ठयन्तादस्मिन्नर्थेऽणादयः स्युः । आर्षम् । तेन प्रोक्ते उपज्ञाते कृते ॥ ५७॥ तृतीयान्तादेष्वणादयः स्युः । भाद्रबाहवं शास्त्रम् । विनोपदेशमादौ ज्ञातं उपज्ञातम्। . साधुपुष्प्यत्पच्यमाने उते ॥५८॥ सप्तम्यन्तात्कालार्थादेष्वर्थेष्वणादयः स्युः। शिशिरे साधु शैशिरं तैलम् । वसन्ते पुष्प्यन्ति पच्यन्ते उता वा वासन्त्यो लताः । कृतादयः सप्तदशार्थाः शेषसंज्ञाः । दिमात्रमेतत् । (नद्यादेरेयण शेषेक) नद्या कृतादिर्नादेयः । वानेयः। (राष्ट्रादिया) राष्ट्रियः । शेषे इत्यधिकारादनुवर्तनीयम् । (दूरादेत्या*) दूरेत्यः । (उत्तरादाह) औतराहः। For Personal & Private Use Only Page #132 -------------------------------------------------------------------------- ________________ १२४ हैमलघुप्रक्रियाव्याकरणे . (पारावारादीन:*) पारावारीणः (व्यस्तव्यत्यस्तादपि) पारीणः । अवारीणः । अवारपारीणः । अलंगामीत्यर्थेप्येवम् । पारमलंगामी पारीण इत्यादि (धुप्रागपागुदक्प्रतीचो य* ) दिव्यं प्राच्यमपाच्यमुदीच्यं प्रतीच्यम् । (ग्रामादीनच*) ग्रामीणः ग्राम्यः। कत्र्यादेश्चैयकञ् ॥ ५९॥ __ कन्यादिभ्यो ग्रामाच्चैयकञ् । कात्रेयकः । ग्रामेयकः। (दक्षिणापश्चात्पुरसस्त्यण*) दाक्षिणात्यः। पाश्चात्यः । पौरस्स्यः। केहामात्रतसस्त्यच् ॥ ६॥ क्वेहामाभ्यस्त्रतस्प्रत्ययान्तेभ्यश्च त्यच् स्यात् । कत्यः इहत्यः अमात्यः कुत्रत्यः कुतस्त्यः । (ऐषमो ह्यश्वसो वा त्यच्*) ऐषमस्त्यम् । पक्षे । सायंचिरंप्राज्ञेप्रगेऽव्ययात् ॥ ६१ ॥ एभ्यः कालार्थेभ्यस्तनट् स्यात् । ऐषमस्तनम् । ह्यस्त्यं शस्तनम् । श्वस्त्यं श्वस्तनम् । (भवतोरिकणीयसौ*) क्वचिदिकस्येतो लुक् । भावत्कम् भवदीयम् । (परजनराज्ञोऽकीयः*) परकीयः । राजकीयः। (दोरीयः*) देवदत्तीयः तदीयः पाणिनीयम् । (ईयेऽन्याहोन्त:*) अन्यदीयम् । (वा युष्मदस्मदोऽजीनौ युष्माकास्माकं चास्यैकत्वे तु For Personal & Private Use Only Page #133 -------------------------------------------------------------------------- ________________ तद्धितेष्वपत्यत्वाधिकारः । १२५ तवकममकम* ) यौष्माकः यौष्माकी स्त्री यौष्माकीणः । यौष्माकीणा । युष्मदीयः । आस्माकः आस्माकीनः अस्मदीयः । तावकं मामकम् । तावकीनं मामकीनम् | त्वदीयं मदीयम् । अमोन्ताऽवोऽधसः ॥ ६२ ॥ अन्तादवसधस्भ्यां चामः स्यात् । प्रायो ऽव्ययस्य ॥ ६३ ॥ तद्धिते परेऽव्ययस्यान्त्यस्वरादेः प्रायो लुकू । अन्तमः अधमः । ( पश्चादाद्यन्ताग्रादिमः ) प - श्चिमः । ( मध्यान्मः* ) मध्यमः । ( अध्यात्मादिभ्य इकण* ) आध्यात्मिकं आधिदैविकम् । समानपूर्वलोकोत्तरपदात् ॥ ६४ ॥ समानपूर्वपदेभ्यो लोकोत्तरपदेभ्यश्चेकण् स्यात् । सामानग्रामिकः । पारलौकिकः । वर्षाकालेभ्यः ॥ ६५ ॥ वर्षाशब्दात्कालविशेषाच्चेकण् स्यात् । वार्षिकः मासिकः । (क्वचिद्वा*) नैशिकः नैशः । ( चिरपरुत्परारेस्लो वा*) चिरत्नं चिरतनमित्यादि । ( पुरो नः * ) पुराणं पुरातनम् । ( पूर्वाह्नापराह्नात्तनड्डा सप्तम्या अलुपू* ) पूर्वाह्णेतन: पौर्वाह्निकः (भर्तुसन्ध्यादेरण* ) आश्विनः ग्रैष्मः सान्ध्यः । हेमन्ताद्वा तो लुक् च ॥ ६६ ॥ For Personal & Private Use Only Page #134 -------------------------------------------------------------------------- ________________ हैमलघुप्रक्रियाव्याकरणे - अस्माद्वाण तद्योगे तलुक् च वा । हैमनं हैमन्तं हैमन्तिकं (प्रावृष एण्यः शेषे) प्रावृषेण्यः (जाते विका*) प्रावृषिकः । पूर्णः शेषाधिकारः । अगोप्यवधिः पूर्णः । (जितादिष्वर्थेषु यथायोगमिकणादयो वक्तव्याः* ) अर्जित आक्षिकः । दना संस्कृतं संसृष्टं वा दाधिकम् । उडुपेन तरति औडुपिकः नाविकः । हस्तिना चरति हास्तिकः । वेतनेन जीवति वैतनिकः ऋयिकः । मीनान् हन्ति मैनिकः । परदारान् गच्छति पारदारिकः । सुनातं पृच्छति सौनातिकः। प्रभूतं ब्रूते प्राभूतिकः । सेनां समवैति सैनिकः । धर्म चरति धार्मिकः । आध-मिकः । अपूपाः पण्यमस्य आपूपिकः । नृत्तं शिल्पमस्य नार्तिकः । असिः प्रहरणमस्य आसिकः । (नास्तिकास्तिकादयो निपात्या*) भावादिमः ॥६७॥ भावप्रत्ययान्तान्निवृत्ते इमः स्यात् । सेकिमम् फलम् । द्वारादेः ॥ ६॥ एषां वोः प्रागैदौतौ स्याताम् । द्वारे नियुक्तो दौवारिका निकटे वसति नैकटिकः । समाने तीर्थे वसति सतीर्यः। पन्थानं याति पथिका पान्थः । अहा विवृत्तमाहिकमित्यादि। For Personal & Private Use Only Page #135 -------------------------------------------------------------------------- ________________ तचितेष्वपत्यत्वाधिकारः। १२४ मूल्यैः क्रीते ॥ ६९॥ ___ मूल्यार्थाट्टान्तात्क्रीतेऽर्थे इकणादयः स्युः। प्रा स्थिकम्। मानम् ॥७०॥ अस्मात्प्रथमान्तार्थाषष्ठयर्थे इकणादयः स्युः।. द्रोणो मानमस्य द्रौणिको राशिः। . विंशत्यादयः ॥७१ ॥ एते निपात्यन्ते। द्वौ दश तौ मानमेषां विंशतिः। एवं त्रिंशदादयः । (पञ्चद्दशद्वर्गेवा*) पञ्चद्दशस्पञ्चको दशको वा वर्गः। तमर्हति ॥ ७२॥ द्वितीयान्तादहत्यर्थे इकणादयः स्युः। विषमर्हति वैषिकः। नित्यं छेदमर्हति छैदिकः। विरागस्य विरङ्गादेशे वैरङ्गिकः । (दण्डादेर्यः) दण्डमईतीति दण्ड्यः । अर्थ्यः। क्रीतादयश्चत्वार आहेदर्थाः । (त्रिंशदिशतेर्डकोऽसंज्ञायामाहेदर्थे*) त्रिंशता क्रीतो यावत्रिंशतमर्हति त्रिंशकः । (विंशतेस्तेर्डिति लुक्) विंशकः। सङ्ख्याडतेश्वाशत्तिष्टेः कः ॥७३॥ शदन्तत्यन्तयन्तवर्जसङ्ख्याया डतेत्रिंशदिशतिभ्यां चाहदर्थे का स्वान् । द्विकं त्रिंशक विशन For Personal & Private Use Only Page #136 -------------------------------------------------------------------------- ________________ .१२८ हैमलघुप्रक्रियाव्याकरणे तिकं कतिकं यावत्कम् । डतेः पृथग्ग्रहणं त्यन्तप्रातनिषेधपरिहाराय । अशत्तिष्टेरिति किम् । चात्वारिंशत्कम् । साप्ततिकम् । षाष्टिकम् । ( सहस्रशतमानादण आर्हदर्थे ) साहस्रः शातमानः । अनाम्न्यऽद्विः प्लुप् ॥ ७४ ॥ द्विगोरार्हृदर्थे जातस्य प्रत्ययस्य लुप् स्यात् नतु द्विः अनानि । द्वाभ्यां कंसाभ्यां क्रीतो द्विकंसः । इत्यादर्थावधिः । वहति रथयुगप्रासङ्गात् ॥ ७५ ॥ एभ्यो द्वितीयान्तेभ्यो वहत्यर्थे यः स्यात् । रथं वहति रथ्यः । ( धुरो यैयण) धुर्यः धौरेयः । (वामाद्यादेरीन) वामधुरीणः । ( हलसीरादिकण) हालिकः सैरिकः । ( शकटादण्*) शाकटः । हृद्यधर्म्यपद्यादयः साधवः। (नौविषेण तार्यवध्ये*) नाव्या नदी । विष्यः शत्रुः । ( न्यायार्थादनपेते यः*) न्यायादनपेतं न्याय्यं अर्थ्यम् । तत्र साधौ ॥ ७६ ॥ सप्तम्यन्तात्साधौ यः स्यात् । सभ्यः । ( पर्षदो ण्यणौ साधौ ) पार्षद्यः पार्षदः पारिषद्यः पारिषदः । ( सर्वजनाण्ण्येनञौ साधौ ) सार्वजन्यः सार्वजनीनः । (पथ्यादेरेयण्*) पाथेयम् । आतिथेयी । ( ण्योऽतिये) आतिथ्यम् । For Personal & Private Use Only Page #137 -------------------------------------------------------------------------- ________________ तद्धितेष्वपत्यत्वाधिकारः । तस्मै हिते ॥ ७७ ॥ चतुर्थ्यन्ताद्धिते ईयः स्यात् । वत्सीयः। ( प्राण्य ङ्गादिभ्यो यः) दन्त्यम् । भोगोत्तरपदात्मभ्यामीनः ॥ ७८ ॥ भोगोत्तरपदेभ्य आत्मनश्च हिते ईनः स्यात् । मातृभोगीणः । ( ईनेऽध्वात्मनोरन्त्यस्वरादेर्लुग् न स्यात् * ) आत्मनीनः । पञ्चसर्वविश्वाज्जनात्कर्म १२९ धारयात् ॥ ७९ ॥ पञ्चादिपूर्वाज्जनान्तात्कर्मधारयाद्धिते ईनः स्यात् । पश्चजनीनः । विश्वजनीनः (सर्वाण्णो वा* ) सार्वः सर्वयः । इति हिताधिकारः । अपत्यादिषूक्तार्थेषु प्राग्वतः स्त्रीपुंसान्नञ् स्वञ् । स्त्रैणं पौनम् । त्वे वा ॥ ८० ॥ त्वविषये त्वेतौ वा । स्त्रैणं स्त्रीत्वम् । पौंस्तं पुंस्त्वम् । भावे त्वतलू ॥ ८१ ॥ षष्ठ्यन्ताद्भावेऽभिधेये त्वतलौ स्याताम् । शब्दप्रवृत्तिनिमित्तं भावः । गोत्वं गोता । For Personal & Private Use Only Page #138 -------------------------------------------------------------------------- ________________ १३० . हैमलघुप्रक्रियाव्याकरणे नञ्तत्पुरुषादबुधादेः ॥ ८२॥ . - अबुधादिवोदस्मात्त्वतलावेव स्याताम् । अशुकृत्वं अशुक्लता । अबुधादेरिति किम् । आबुध्यं आचतुर्यम् । (पृथ्वादेरिमन्वा भावे*) पृथुमृदुभृशकृशदृढपरिवृढस्य ऋतो रः इमनि णीष्ठेयस्सु च परेषु । बन्यखरादेः॥ ८३॥ तुरन्त्यस्वरादेश्चमनि ण्यादौ च लुक् स्यात् । प्रथिमा। वृवर्णाल्लघ्वादेः ॥ ८४॥ - लघुरादिः समीपे येषामिउऋवर्णानां तदन्तेभ्यो भावे कर्मणि चाण स्यात् । पार्थिवम् । त्वतलूरूपे चाधिकारादनुवर्तनीये । पृथुत्वम् । पृथुता । ब. दिमा मार्दवम् । प्रियस्थिरस्फिरोरुगुरुबहुलतृप्रदीर्घवृद्धवृन्दारकस्येमनि च प्रास्थास्फावरगरबंहत्रपद्राघवर्षवृन्दम् ॥ ८५॥ प्रियादीनां दशानां यथासंभवमिमनिणीष्ठेयस्सु च प्रादयो दशादेशा भवन्ति । प्रियस्य भावः प्रेमा प्रियत्वम् प्रियता । स्थेमा २ स्फेमा २ वरिमा २ गरिमा २ वहिमा २ अपिमा २ द्राधिमा २ वर्षिमा २ वृन्दिमा २।। For Personal & Private Use Only Page #139 -------------------------------------------------------------------------- ________________ तद्धितेष्वपत्यत्वाधिकारः । भूर्लुक्चेवर्णस्य ॥ ८६ ॥ बहोरीयसाविनि च भूः स्याल्लुक् चानयोरि वर्णस्य । भूमा । स्थूलदूरयुवह्नस्त्रक्षिप्रक्षुद्रस्यान्तस्था देर्गुणश्च नामिनः ॥ ८७ ॥ एषां पण्णामिनि ण्यादौ चान्तस्थादेरवयवस्य लुगू नामिनश्च गुणः । स्थविमा २ दविमा इसिमा २ क्षेपिमा २ क्षोदिमा २ । वर्णदृढादिभ्यष्ट्यण् च वा ॥ ८८ ॥ वर्णविशेषेभ्यो दृढादिभ्यश्च भावे व्य‍ इमन् च वा । शौक्ल्यं शुक्लिमा २ | दायै द्रढिमा २ | पतिराजान्तगुणाङ्गराजादिभ्यः कर्मणि च ॥ ८९ ॥ १३१ पत्यन्तेभ्यो राजान्तेभ्यो गुणः प्रवृत्तिनिमितं येषां तेभ्यो राजादिभ्यश्च भावे कर्मणि च व्य‍ स्यात् । अधिपतेर्भावः कर्म वा आधिपत्यम् २ आधिराज्यं २ मौढ्यं २ राज्यं २ काव्यं २ सौभाग्यं २ । भावे कर्मणि च इत्यनुवर्तनीयमधिकारात् । अर्हतस्तोन्त च ॥ ९० ॥ अस्मात् व्यण् तस्य न्तादेशः । आर्हन्त्यं २ | ( सहायाद्वा व्यण* ) साहाय्यम् । For Personal & Private Use Only Page #140 -------------------------------------------------------------------------- ________________ . १३२ हैमलघुप्रक्रिया व्याकरणे योपान्त्याद्गुरूपोत्तमादसुप्रख्यादकञ्॥९१॥ ज्यादीनामन्त्यमुत्तमं तत्समीपमुपोत्तमं तद्गुरुर्यस्य तस्माद्योपान्त्यात्सुप्रख्यवर्णादकञ् स्यात् । साहायकं २ रामणीयकं २ ( चोरादेरकञ्* ) चौरिका चौरकं चौर्यम् । ( सखिवणिग् दूताद्यः ) सख्यं २ वणिज्या वाणिज्यम् २ दूत्यं दौत्यं २ ( स्तेनाद्यो वा नलुक् ये* ) स्तेयं स्तैन्यं २ ( कपिज्ञातेरेयण* ) कापेयम् । ( प्राणिजातिवयोऽर्थादञ्* ) आश्वं २ कौमारं २ ( युवादेरण* ) यौवनं २ स्थाविरं २ ( पुरुषहृदयादसमासेऽण* ) पौरुषम् २ | हृदयस्य हृल्लासलेखाये ॥ ९२ ॥ लासादिषु हृदयस्य हृत्स्यात् । हार्दम् २ समासे तु सुपुरुषत्वम् परमहृदयत्वम् । इति भावकर्माधिकारः । शाकादयो यथार्ह क्षेत्रे वाच्याः । इक्षुशाकटं शाकशाकिनं त्रैहेयं मौद्गीनं यव्यं षष्टिक्यं । ( पील्वादेः कुणः पाके* ) ( कर्णादेर्मूले जाहः ) ( पक्षात्तिर्मूले* ) ( हिमादेलुः सहे* ) ( बलवातादूलः) (शीतोष्णतृप्रादालुरसहे) तृनं दुःखम् । सर्वादेः पथ्यङ्कर्मपत्र पात्रशरावं व्याप्नोति ॥ ९३ ॥ For Personal & Private Use Only Page #141 -------------------------------------------------------------------------- ________________ तद्धितेष्वपत्यत्वाधिकारः। १३३ सर्वशब्दपूर्वेभ्य एभ्यः षड्भ्यो व्यामोतीत्यर्थे ईनः स्यात् । सर्वपथीनो रथः । सर्वाङ्गीणं शं । सर्वकर्मीणो ना । सर्वपत्रीणो यन्ता । सर्वपात्रीणं सर्वशरावीणं घृतम् । (अलङ्गामिन्यध्वनोऽमन्ताधेनौ वाच्यौ * ) अध्वन्यः अध्वनीनः । समांसमीनसाप्तपदीनादयः साधवः। (क्वचित्स्वार्थे ईनः*) अषडक्षीणो मन्त्रः । अलङ्कर्मीणोऽलंपुरुषीणो ना। अदिस्त्रियां वाचः॥९४ ॥ ' अञ्चन्तात्स्वार्थे ईनो वा स्यात् । प्राचीनं प्राक् । प्राचीना प्राची शाखा । अदिस्त्रियामिति किम् । प्राची दिक् । तस्य तुल्ये कः संज्ञाप्रतिकृत्योः॥९५॥ षष्ठयन्तात्तुल्येर्थेऽनयोर्गम्ययोः कः स्यात् । अश्वकः । (शाखादेर्यः*) शाख्यः । मुख्यः । (कुशाग्रादीयः*) कुशाग्रीया मतिः । काकतालीयादयस्तुल्ये साधवः । (विप्रभृतिभ्यः शालशंकटादयः*) विशालं विशंकटम् । तदस्य सञ्जातं तारकादिभ्य इतः ॥ ९६ ॥ एभ्यः सञ्जातार्थेभ्यः षष्ठ्यर्थे इतः स्यात् । तारकाः सञ्जाता अस्य तारकितं नमः । पुष्पितः तरुः । (प्रमाणान्मात्रट् षष्ठ्यर्थे *) आयामः प्रमाणम् । जानुः प्रमाणमस्य जानुमात्रं जलम् । तावन्मात्री भूः। व्या. १२ For Personal & Private Use Only Page #142 -------------------------------------------------------------------------- ________________ हैमलघुप्रक्रियाव्याकरणे वोद्धुं दघ्नद्वयसट् ॥ ९७ ॥ ऊर्ध्वप्रमाणादेतौ वा । जानुदघ्नम् जानुद्वयसं जलम् । ( हस्तिपुरुषाद्वाण प्रमाणे* ) संयोगादिनः ॥ ९८ ॥ १३४ संयोगात्परस्येनोऽण्यन्त्यस्वरादेर्लुग् न स्यात् । हास्तिनं हस्तिमात्रं हस्तिदनं हस्तिद्वयसम् । पौरुषं ३ ( इदंकिमोतुरियू कियू चास्य माने * ) इदं मानमस्येयान् कियान् पटः । ( यत्तदेतदो डा वादिरतुः * ) यावान् तावान् एतावान् । यत्तत्किमः सङ्ख्याया डतिर्वा ॥ ९९ ॥ सङ्ख्यारूपमानवाचिभ्य एभ्यः सङ्ख्येये डतिर्वा स्यात् । यति यावन्तः । तति तावन्तः । कति कियन्तः । अवयवात्तयट् ॥ १०० ॥ अवयववृत्तेः सङ्ख्यार्थादवयविनि तयट् स्यात् । पञ्च अवयवा अस्य पञ्चतयो यमः । चतुष्टयी गतिः (द्वित्रिभ्यामयडू वाऽवयवे) द्वयं द्वितयम् । त्रयं त्रितयम् । अधिकं तत्सङ्ख्यमस्मिन् शतसहस्त्रे शति शद्दशान्ताया डः ॥ १०१ ॥ शति शद्दन्तायाः सङ्ख्यायास्तच्छतादिसङ्ख्यं बैंक For Personal & Private Use Only Page #143 -------------------------------------------------------------------------- ________________ तद्धितेष्वपत्यत्वाधिकारः। १३६ वस्त्वधिकमित्यर्थे शतसहस्रयोर्डः स्यात् । विंशतिर्योजनानामधिकास्मिन्निति विशं त्रिंशं द्वादशं योजनशतं योजनसहस्रं वा। सङ्ख्यापूरणे डट् ॥ १०२ ॥ सङ्ख्या पूर्यते येन तस्मिन्नर्थे सङ्ख्यायाः डट् स्यात् । द्वादशानां सङ्ख्यापूरणः द्वादशः। (विंशत्यादेर्वा तमट् पूरणे *) विंशतितमः । सहनतमः शततमः (पठ्यादेरसङ्ख्यादेस्तमट्*) षष्टितमः । सङ्ख्यादेस्तु डट् । द्विसप्ततः। - नो मट् ॥ १०३॥ नान्तायाः सङ्ख्यायाः पूरणे मट् स्यात् । पश्वमः । सङ्ख्यादेस्तु डः । षोडशः। पित्तिथट् बहुगणपूगसङ्गात् ॥ १०४ ॥ एभ्यस्तिथट् स्यात् (अतोरिथट् पूरणे) तौ च पितौ । बहुतिथः। क्यङ्मानिपित्तद्धिते ॥ १०५॥ एषु त्रिष्वनूड्परतः स्त्री पुंवत्स्यात् । बह्वीनां सङ्ख्यापूरणी बहुतिथी । यावतिथः । यावतिथी । (षट्कतिकतिपयात् थट् पूरणे *) षष्ठः कतिथः । (चतुरस्थट् *) चतुर्थः । (येयौ च लुक् च*) चतुरः। तुर्यः । तुरीयः। (देस्तीयः*) द्वितीयः। For Personal & Private Use Only Page #144 -------------------------------------------------------------------------- ________________ १३६ . हैमलघुप्रक्रियाव्याकरणे - त्रेस्तृ च ॥ १०६ ॥ त्रेस्तीयस्तृत्वं चास्य । तृतीयः। पूर्वमनेन सादेश्चेन् ॥ १०७ ॥ ___ द्वितीयान्तात्सपूर्वात्केवलाच्च पूर्वशब्दात्तृतीयार्थे इन् स्यात् । कृतं पूर्वमनेन कृतपूर्वी कटं । पीतपूर्वी पयः। इष्टादेः॥ १०८॥ - एभ्यः प्रथमान्तेभ्यस्तृतीयार्थे कर्तरि इन् स्यात् । इष्टो यज्ञोऽनेन इष्टी यज्ञे । अधीतस्तर्कोऽनेन अधीती तर्के। . तेन वित्ते चञ्चुचणौ ॥ १०९॥ तृतीयान्तात् ख्याते एतौ स्याताम् । विद्याचञ्चुः । केशचणः। तदस्याऽस्त्यस्मिन्निति मतुः ॥११०॥ प्रथमान्तात्षष्ठ्यर्थे सप्तम्यर्थे वा मतुः स्यात् । प्रथमान्तं चेदस्तीत्युच्यते। गावोऽस्य सन्ति गोमान्। मावर्णान्तोपान्त्यापश्चमवर्गा न्मतोर्मो वः ॥ १११॥ मावर्णी प्रत्येकमन्तोपान्त्यौ यस्य तस्मात्पञ्चमवर्जवर्गान्ताच मतोर्मो वः स्यात् । किमत्रास्तीति किंवान् वृक्षवान् । For Personal & Private Use Only Page #145 -------------------------------------------------------------------------- ________________ तद्धितेष्वपत्यत्वाधिकारः । नोर्म्यादिभ्यः ॥ ११२ ॥ एभ्यो मतोर्मो वो न स्यात् । ऊर्मिमान् । ( उदन्वान् जलाधारे * ) राजन्वान् सुराज्ञि ॥ ११३॥ सुराजकेऽर्थे राजन्वान् । संज्ञायां चर्मण्वत्यादयश्च साधवः । (नावादेरिकः*) नाविकः । मत्वन्तं च रूपं सर्वत्राधिकारादनुवर्तनीयम् । नौमान् । ( शिखादिभ्य इन्* ) शिखी माली (त्रीह्यादिभ्य इकेनौ * ) व्रीहिकः त्रीही । अतोऽनेकस्वरात् ॥ ११४ ॥ अदन्तादनेकस्वरादिकेनौ स्याताम् । धनिकः धनी । ( इलेनाणूशनरादयो यथायोगं मत्वर्थे वाच्याः * ) तुन्दिलः फेनिलः शृङ्गिणः ज्योत्स्नी प्राज्ञः श्राद्धः लोमशः पामनः मधुरम् मरुत्तः । नस्तं मत्वर्थे ॥११५॥ १३७ सान्तं तान्तं च नाम मत्वर्थे परे पदं न स्यात् । मरुत्वान् । ( बलवातदन्तललाटादूलः * ) बलूलः । ( प्राण्यङ्गादातो लः * ) चूडालः । ( सिध्मादिक्षुद्रजन्तुरुग्भ्योऽपि ) । सिध्मलः यूकालः मूर्च्छालः । ( प्रज्ञापर्णोदकफेनालेलौ * ) प्रज्ञालः प्रज्ञिलः । ( वाचः आलाटौ क्षेपे ) वाचालः वाचाटः । ( वाचो ग्मिन् * ) वाग्मी । ( लक्ष्म्या For Personal & Private Use Only Page #146 -------------------------------------------------------------------------- ________________ - सवादरदन्तात्कमधारयादन् स्यात् । सवधना। वातातीसारपिशाचात् कश्चान्तः ॥ १२० ॥ एभ्यस्त्रिभ्य इन कोन्तश्च । वातकी । ... . . . एभ्यो मत्वर्थे अः स्यात् । अभ्रं नमः । अशंसो मैत्रः। अस्तपोमायामेधास्त्रजो विन् ॥ ११७ ॥ असन्तात्तपःप्रभृतिभ्यश्च विन् स्यात् । वचस्वी तपस्वी मायावी । ब्रीह्यादित्वान्मायिकः । मायी मेधावी । (मेधारथान्नवेरः*) मेधिरः रथिरः रथिकः । स्रग्वी। . आमयादीर्घश्च ॥ ११८॥ .. अस्माद्विन्प्रत्ययः स्यात् दीर्घश्चास्य । आमयावी। (स्वान्मिन्नीशे दीर्घश्च *) स्वामी। (गोः*) गोमी । (ऊों विनवलावस् चान्तः *) ऊर्जस्वी ऊर्जस्वला ऊर्वान् । सर्वादेरिन् ॥ ११९ ॥ सर्वादेरदन्तात्कर्मधारयादिन् स्यात् । सर्वधनी। वातातीसारपिशाचात् कश्चान्तः ॥ १२० ॥ एभ्यस्त्रिभ्य इन कोन्तश्च । वातकी । - - For Personal & Private Use Only Page #147 -------------------------------------------------------------------------- ________________ तद्धितेष्वपत्यत्वाधिकारः। १३९. .. (प्राचुर्यप्राधान्यादिषु यथार्ह मयड्डाच्यः * ) अपूपमयं पर्व । (प्रकारे जातीयर् *) महाजातीयः । (भूतपूर्वे प्चरट् *) पूर्व भूतो भूतपूर्वः । भूतपूर्वा । आल्या आब्यचरी । (निन्द्ये पाशप् ) छान्दसपाशः। (प्रकृष्टे तमप् * ) अयमेषां प्रकृष्टः शुक्ल: शुक्लतमः। द्वयोर्विभज्ये च तरप् ॥ १२१ ॥ . द्वयोर्मध्ये प्रकृष्टे विभज्ये च तरप् स्यात् । इयं पदी इयं पट्टी इयमनयोः प्रकृष्टा पट्टी पटुतरा। सौन्नेभ्यो माथुरा आढ्यतराः । (कचित्स्वार्थे यथालक्ष्यं तरप्) अभिन्नतरकम् । किंत्याद्येऽव्ययादसत्वे तयोरन्तस्याम् १२२ किमस्त्याद्यन्तादेदन्तादव्ययाच्च परयोस्तमप्तरपोरन्तस्याम् स्यात् न चेत्तौ. सत्वे द्रव्ये वर्तेते। किंतमां किंतराम् । अयमेषां प्रकृष्टं पचति पचतितमाम् । अयमनयोः प्रकृष्टं पचति पचतितराम् । पूर्वाह्नेतराम् पूर्वाह्नेतमाम् । अतितराम् अतितमाम् भुते । असत्वे किम् । किंतरं दारु ।। गुणागाद्वेष्ठेयसू ॥ १२३ ॥ गुणप्रवृत्तिहेतुकात्तमप्तरपोर्विषये यथासङ्ख्यमेतौ वा स्याताम् । अयमेषां प्रकृष्टः पटुः पटिष्ठः पटुतमः । अयमनयोः प्रकृष्टः पटुः पटीयान् पटु For Personal & Private Use Only Page #148 -------------------------------------------------------------------------- ________________ १४० . हैमलघुप्रक्रियाव्याकरणे तरः। (प्रशस्यस्य श्रःणीष्ठेयस्सु *) प्रकृष्टः प्रशस्यः श्रेष्ठः श्रेयान् । (वृद्धप्रशस्ययोर्व्यः*) ज्येष्ठः ज्यायान् । अयमीयसौ साधुः। (अल्पयूनोः कन्वाः *) कनिष्ठः २ अल्पिष्ठः २ यविष्ठः २ (बाढान्तिकयोः साधनेदौ ण्यादिषु *) प्रकृष्टो बाढ़ः साधिष्ठः साधीयान् । प्रकृष्टोऽन्तिको नेदिष्ठ नेदीयान् । प्रियस्थिरेत्यादिना प्रियादीनां प्राद्यादेशे । प्रकृष्टः प्रिया प्रेष्ठः प्रेयान् । स्थेष्ठः स्थेयान् । (बहोर्णीष्ठे भूय् *) भूयिष्ठः । ईयसौ (भूलक् चेवर्णस्य*) भूयान् । स्थूलदूरेत्यादिना स्थूलादीनामन्तस्थादिलोपे नामिनो गुणे च स्थविष्ठः स्थवीयान् । दविष्ठः दवीयान् । (विन्मतोणीष्ठेयसौ लुप्*) प्रकृष्टः स्रग्वी सजिष्ठः । एवं त्वचिष्ठः। . त्यादेश्च प्रशस्ते रूपप् ॥ १२४ ॥ त्याद्यन्तान्नाम्नश्च प्रशस्ते रूपप् स्यात् । पचतिरूपम् वैयाकरणरूपः । (तरबादिषु क्वचिद् ह्रस्वपुंवद्भावौ वा वक्तव्यौ * ) पचन्तितरां पचत्तरां पचन्तीतराम् । अतमबादेरीषदसमाते कल्पपू देश्यप् दे शीयर् ॥ १२५॥ तमबाद्यन्तवात्त्याधन्तानाम्नश्च किश्चिदुनेऽमी For Personal & Private Use Only Page #149 -------------------------------------------------------------------------- ________________ तद्धितेष्वपत्यत्वाधिकार ४१ त्रयः स्युः । पचतिकल्पं पचतिदेश्य पचतिदेशीयम् । पटुकल्पा पटुदेश्या पटुदेशीया । (नपत्रः प्राग्बहुर्वा किञ्चिदूने *) बहुपटुः पटुकल्पः । (कुसिताल्पाज्ञातादिषु यथार्ह कबादयो वाच्या*) अश्वकः । अनुकम्पायां पुत्रक एहकि । (एकादाकिन् चाऽसहाये * ) एकाकीपकः । त्यादिसर्वादेः खरेष्वन्त्यात्पूर्वोऽक् ॥१२६॥ . त्याद्यन्तात्सर्वादेश्चान्त्यस्वरात्पूर्वोऽक् स्यात् कुसितादिषु । पचतकि सर्वके इति । युष्मदस्मदोऽसोभादिस्यादेः ॥ १२७॥ ___ सकारादिओकारादिभकारादिवर्जितस्याद्यन्तयोर्युष्मदस्मदोरन्त्यस्वरादेः पूर्वोऽक् स्यात् । त्वयका मयका । सकारादिवर्जनात् युष्मकासु अमकासु। युवकयोः आवकयोः । युवकाभ्याम् आवकाभ्याम् । अव्ययस्य को द् च ॥ १२८ ॥ अस्यान्त्यस्वरात्पूर्वोऽक् तद्योगे को द् च । कुत्सिताद्युच्चैरुच्चकैः धिक् धकिद् । (वैकाद्वयोर्निर्धार्ये डतरः*) एकतर एकको वा भवतोः कठः पटुः यत्तत्किमन्यात् ॥ १२९ ॥ एभ्यो द्वयोरेकस्मिन्निर्धार्ये इतरः स्यात् । यतरो भवतोः कठादिस्ततर आगच्छेत् । For Personal & Private Use Only Page #150 -------------------------------------------------------------------------- ________________ १४२ हैमलघुप्रक्रियाव्याकरणे - बहूनां प्रश्ने डतमश्च वा ॥ १३० ॥ यदादिभ्यो बहूनां मध्ये निर्धार्यार्थेभ्यः प्रश्ने डतमो डतरश्च वा स्यात् । यतमो यतरो वा भवतां कठादिस्ततमस्ततरो वा यातु । एवं कतमः कतरः । अन्यतमः अन्यतरः । पक्षे यको यो वेत्यादि । (वैकात् तमप्तथा*) एकतमः एककः एको वा भवतां कठादिः । (प्रायोऽतोयसट् मात्रट् स्वार्थे * ) यावदेव यावद्वयसम् । यावन्मात्रम् । तीयाट्टीकण न विद्या चेत् ॥ १३१॥ तीयान्तात् स्वार्थे टीकण् वा स्यात् । द्वैतीयीकं तार्तीयीकी । विद्या तु द्वितीया । (वर्णाऽव्ययात्स्वरूपे कारः) ककारः (रादेफ) रेफः । (नामरूपभागाद्धेयः* ) नामधेयम् । (देवात्तल *) देवता । (भेषजादिभ्यष्ट्यण * ) भैषज्यम् । (प्रज्ञादिभ्योऽण् * ) प्राज्ञः वाणिजः । (वाच इकणसन्दिष्टे *) वाचिकम् । (उपायादिकण ह्रस्वश्चास्य*) औपयिकम् । (विनयादिभ्य इकण वा भवति *) वैनयिकम् । इति तद्वितदिग्मात्रम्। इति श्रीमहोपाध्यायश्रीकीर्तिविजयगणिशिम्योपाध्यायश्रीविनयविजयामिविरचितायां हेमलम्बुप्रक्रियाको प्रथमवृत्तिः समाप्ता। हैमलघुप्रक्रियाव्याकरणे पूर्वाई समाप्तम् ॥ . For Personal & Private Use Only Page #151 -------------------------------------------------------------------------- ________________ -- हैमलघुप्रक्रियाव्याकरणम्। ANTOP अथ उत्तरार्द्धम् ॥ ॥श्रीजिनाय नमः ॥ अथाख्यातप्रक्रिया निरूप्यते । आख्यातप्रत्ययाश्च धातोर्वक्तव्याः। .. क्रियार्थों धातुः॥१॥ कृतिः क्रिया पठनपचनादिरूपा साऽर्थो यस्य स धातुः स्यात् । स च त्रेधा गणजो नामजः सौत्रश्च । आद्यो नवधा । तथाहुः।। अदादयः कानुबन्धाश्चानुबन्धा दिवादयः । . स्वादयष्टानुबन्धाश्च तानुबन्धास्तुदादयः॥१॥ रुधादयः पानुबन्धा यानुबन्धास्तनादयः ।। क्यादयः शानुबन्धाश्चणानुबन्धाश्चुरादयः॥२॥ उक्तानुबन्धरहिता भ्वादयः। यत्र नामैव प्रत्ययसंबन्धाद्धातुत्वं याति स नामधातुः। सौत्राश्च कण्डादयो दोलणप्रमुखाश्च । प्रत्येकमेते त्रिविधाः परस्मैपदिन आत्मनेपदिन उभयपदिनश्च । ड्नुबन्ध इदनुबन्धः कर्तर्यप्यात्मनेपदी धातुः। ईगनुबन्धस्तूभयपदी परस्मैपदी शेषः ॥३॥ .... S . .. . . For Personal & Private Use Only Page #152 -------------------------------------------------------------------------- ________________ हैमलघुप्रक्रियाव्याकरणे नवाद्यानि शत्रुकसू च परस्मैपदम् ॥ २ ॥ सर्वासां त्यादिविभक्तीनामाद्यानि नववचनानि शतृक्कसू च प्रत्ययौ परस्मैपदसंज्ञानि स्युः । ( पराणि कानानशौ चात्मनेपदम् * ) त्रीणि त्रीण्यन्ययुष्मदस्मदि ॥ ३ ॥ सर्वासां विभक्तीनां त्रीणि त्रीण्येकद्विबहुवचनान्यन्यदर्थे युष्मदर्थेऽस्मदर्थे च यथाक्रमं स्युः । सति ॥ ४ ॥ आरब्धासमाप्तवस्तुविषयः कालः सन् वर्तमानस्तदर्थाद्धातोर्वर्तमाना स्यात् । वर्तमाना । १४४ परस्मैपदानि । तिवू तसू अन्ति । सिधू थस् थ । मिव् वस् मस् । एताः शितः ॥ ५ ॥ वर्तमाना सप्तमीपञ्चमीह्यस्तन्यः शितो ज्ञेयाः । भू सत्तायाम् । भू तिव् इति स्थिते । वकारो विकार्यार्थः । आत्मनेपदानि । आते अन्ते । आये ध्वे । ए वहे महे । ते से कर्तर्यनद्भयः शब् ॥ ६ ॥ अदादिवर्जाद्धातोः कर्तरि विहिते शिति शब् प्रत्ययः स्यात् । शकारवकारावितौ । For Personal & Private Use Only Page #153 -------------------------------------------------------------------------- ________________ भ्वादयः परस्मैपदिनः। १४५ नामिनो गुणोऽङ्किति ॥७॥ किडित्वर्जे प्रत्यये परे नाम्यन्तस्य धातोगुणः स्यात् । अवादेशे, स धार्मिको भवति । तौ भवतः । लुगस्यादेत्यपदे इत्यकारलोपे, ते भवन्ति । त्वं भवसि । युवां भवथः । यूयं भवथ । मव्यस्याः ॥८॥ धातोर्विहिते मादौ वादौ च प्रत्यये परे अत आः स्यात् । अहं भवामि । आवां भवावः । वयं भवामः । अन्यदर्थादिद्वयत्रययोगे पराश्रयमेव वचनम् । स च त्वं च भवथः । स च त्वं चाहं च भवामः। विधिनिमन्त्रणाधीष्टसंप्रश्नप्रार्थने ॥९॥ विधिः क्रियायां प्रेरणा । विध्यादिषु सप्तमी स्यात् । संभावनादिष्वपि सप्तमी । सप्तमी। परस्मैपदिनः। आत्मनेपदिनः । यात् याताम् युस्। ईत ईयाताम् ईरन् । यास् यातम् यात । ईथासू ईयाथाम् ईध्वम् । याम् याव याम। ईय' ईवहि ईमहि। ___ यः सप्तम्याः ॥१०॥ आत् परस्य सप्तम्या याशब्दस्य इ: स्यात् । व्या. १३ For Personal & Private Use Only Page #154 -------------------------------------------------------------------------- ________________ १४६ हैमलघुप्रक्रियाव्याकरणे । शिष्यो गुरुसेवी भवेत् । भवेदसौ भव्यः श्राद्धत्वात् । भवेताम् । (आपरयोर्याम्युसोरियमियुसौ *) भवेयुः । भवेः भवेतम् भवेत । भवेयम् मवेव भवेम। प्रैषाऽनुज्ञावसरे कृत्यपञ्चम्यौ ॥ ११ ॥ न्यत्कारपूर्विका, प्रेरणा प्रैषः । प्रैषादिषु कृत्याः पञ्चमी च स्युः। (विध्यादिषु आशिषि च पञ्चमी वक्तव्या*) पञ्चमी। परस्मैपदिनः। आत्मनेपदिनः। तुव् ताम् अन्तु । ताम् आताम् अन्ताम्। हि तम् त। स्व आथाम् ध्वम् । आनिव आव आमव् । ऐव् आवहै आमहैन् । ..' अध्ययनोद्यतो भवतु चैत्रः । भवताम् । भ चन्तु । (आशिषि तुह्योस्तात वा * ) आयुष्मान् भवतु भवतात् भवान् । अतः प्रत्ययालुक् ॥ १२॥ धातोः परो योऽदन्तः प्रत्ययस्ततः परस्य हेझुक् स्यात् । भव भवतात् भवतम् भवत । आशिषि श्रेयस्वी भवतात्सौम्य । भवानि भवाव भवाम। अनद्यतने सस्तनी ॥१३॥ For Personal & Private Use Only Page #155 -------------------------------------------------------------------------- ________________ भ्वादयः परस्मैपदिनः । १४७ .' आन्याय्यादुत्थानादान्याय्याच्च संवेशनादहरुभयतः सार्धरात्रं वाद्यतनः कालस्ततोऽन्योऽनद्यतनस्तस्मिन् भूतार्थाद्धातोयस्तनी स्यात् । ख्याते दृश्ये लोकविज्ञाते प्रयोक्तुः शक्यदर्शने परोक्षेऽपि भूतानद्यतने ह्यस्तनी स्यात् । ह्यस्तनी। परस्मैपदिनः। आत्मनेपदिनः। दिव् ताम् अन् । त आताम् अन्त । सिव तम् त। थास् आथाम् ध्वम् । अम्बू व म। इ वहि महि। दिस्योरिकार उच्चारणार्थः। ___ अड्धातोरादिर्घस्तन्यां चामा ङा ॥ १४ ॥ ह्यस्तन्यामद्यतनीक्रियातिपत्त्योश्च विषये धातोरादिरट् स्यात् नतु माड्योगे । अभवद् ह्यो जिनार्चा । विरामे वा । अभवत् अभवताम् अभ-. वन् । अभवः अभवतम् अभवत । अभवम् अभवाव अभवाम । - अविवक्षिते ॥ १५॥ परोक्षत्वेनाविवक्षिते परोक्षे भूतानद्यतने हस्तनी स्यात् । अभवद्वीरः। मे च वर्तमाना ॥ १६ ॥ For Personal & Private Use Only Page #156 -------------------------------------------------------------------------- ________________ हैमलघुप्रक्रियाव्याकरणे भूतानद्यतने वर्तमानाद्धातोः स्मे पुरादौ चोपपदे वर्तमाना स्यात् । शिष्यास्तव भवन्ति स्म । पुरा भवति ते पदम् । अभवदित्यर्थः । १४८ अद्यतनी ॥ १७ ॥ अद्यतनकाले भूतार्थाद्धातोरद्यतनी स्यात् । विशेषाऽविवक्षाव्यामिश्रे ॥ १८ ॥ अद्यतनादिविशेषाऽविवक्षायां व्यामिश्रणे च सति भूतार्थाद्धातोरद्यतनी स्यात् । अद्यतनी । परस्मैपदिनः । आत्मनेपदिनः । दि ताम् अन्। त आताम् अन्त । सि तम् त। अम् व म । थास् आथाम् ध्वम् । वहि इ महि । सिजद्यतन्याम् ॥ १९ ॥ अद्यतन्यां परस्यां धातोः परः सिच् स्यात् । इकार उच्चारणार्थः । चकारो विशेषार्थः । पिबैतिदाभूस्थः सिचो लुप् परस्मै न चेट् ॥ २० ॥ देति दासंज्ञा धातवः । एभ्यः परस्य सिचः परस्मैपदे लुप् स्यात् लुब्योगे न चेटू । भवतेः सिजुलुपि ॥ २१ ॥ For Personal & Private Use Only Page #157 -------------------------------------------------------------------------- ________________ भ्वादयः परस्मैपदिनः। १४९ . सिचो लुपि भवतेर्गुणो न स्यात् । अड् धातोरित्यडागमे । अभूत् अद्य वृष्टिः । अभूताम् । अभू अन् इति स्थिते । सिज्लोपे धातोरिवर्णस्येत्युवादेशे। भुवो वः परोक्षाऽद्यतन्योः ॥ २२ ॥ भुवो वन्तस्योपान्त्यस्य परोक्षाद्यतन्योरुत् स्यात् । अभूवन् । अभूः अभूतम् अभूत । अभूवम् अभूव अभूम। परोक्षे भूतानद्यतने ॥ २३ ॥ परोक्षार्थाद्धातोः परोक्षा स्यात् ।। परोक्षा। परस्मैपदिनः। आत्मनेपदिनः। णव् अतुस् उस्। . ए आते इरे । थव् अथुस् । से आथे ध्वे ।ण व म। . ए वहे महे । भू णव् इति स्थिते णकारो वृद्ध्यर्थः। द्विर्धातुः परोक्षा ( प्राक् तु खरे स्वर विधेः ॥ २४॥ परोक्षायां डे. च परे धातुर्द्विः स्यात् । स्वरादौ तु द्वित्वनिमित्ते स्वरस्य कार्यात्प्रागेव । - भूस्खपोरदुतौ ॥ २५॥ For Personal & Private Use Only Page #158 -------------------------------------------------------------------------- ________________ १५० हैमलघुप्रक्रियाव्याकरणे . भूस्वपोः परोक्षायां द्वित्वे पूर्वस्य यथासङ्ख्यमदुतौ स्याताम्। द्वितीयतुर्ययोः पूर्वी ॥ २६ ॥ द्वित्वे पूर्वयोर्द्वितीयतुर्ययोर्यथासङ्ख्यमाद्यतृतीयौ स्याताम् । नामिनोऽकलिहलेः ॥२७॥ नाम्यन्तस्य धातो नो वा कलिहलिर्जय ञ्णिति वृद्धिः स्यात् । तत आवादेशे भुवो व इत्यूत्वे च । बभूव श्रीवीरः । बभूवतुः बभूवुः । - स्क्रसृवृभृस्तुद्रुश्रुस्रोर्व्यञ्जनादेः परोक्षायाः ॥ २८॥ स्कृगः स्रादिवर्जेभ्यश्च सर्वधातुभ्यः परस्या व्यसनादेः परोक्षाया आदिरिट् स्यात् । बभूविथ बभूवथुः बभूव । बभूव बभूविव बभूविम । कृतास्मरणाऽतिनिहवे परोक्षा ॥२९॥ अनयोरर्थयोरपरोक्षेऽपि भूते परोक्षा स्यात् । सुप्तोऽहं किल विललाप । नाहं कलिङ्गं जगाम । आशिष्याशी पञ्चम्यौ ॥३०॥ परस्येष्टाशंसनमाशीस्तदर्थाद्धातोराशी पञ्चम्यौ स्याताम्। For Personal & Private Use Only Page #159 -------------------------------------------------------------------------- ________________ भ्वादयः परस्मैपदिनः ।। १५४ आशी। परस्मैपदानि । आत्मनेपदानि । क्यात् क्यास्तां क्यासुः । सीष्ट सीयास्तां सीरन् । क्याः क्यास्तं क्यास्त । सीष्ठासू सीयास्थां सीध्वं । क्यासं क्यास्व क्यास्म । सीय सीवहि सीमहि । ककारो गुणनिषेधार्थः । भूयाद्भद्रं, सन्यः । भूयास्ताम् भूयासुः । भूयाः भूयास्तम् भूयास्त । भूयासम् भूयास्व भूयास्म। अनद्यतने श्वस्तनी ॥३१॥ अनद्यतने भविष्यदर्थाद्धातोः श्वस्तनी स्यात् । , श्वस्तनी। परस्मैपदिनः। आत्मनेपदिनः । ता तारौ तारस् । “ता तारौ तारस् । तासि तास्थसू तास्थ । तासे तासाथे तावे। तास्मि तास्वसू तास्मस् । ताहे तास्वहे तास्महें। स्ताद्यशितोऽत्रोणादेरिट् ॥ ३२॥ धातोः परस्य सादेस्तादेश्चाऽशित आदिरिद स्यात् नतु प्रत्यये उणादिषु च । भविता श्वः पूजोत्सवः । भवितारौ भवितारः । भवितासि भवितास्थः भवितास्थ । भवितास्मि भवितास्वः भवितास्मः। - भविष्यन्ती ॥ ३३ ॥ For Personal & Private Use Only Page #160 -------------------------------------------------------------------------- ________________ १५२ हैमलघुप्रक्रियाव्याकरणे सामान्यतो भविष्यदर्थाद्धातोभविष्यन्ती स्यात्। __ भविष्यन्ती। । परस्मैपदिनः। . आत्मनेपदिनः । स्यति स्यतस् स्यन्ति । स्यते स्येते स्यन्ते । स्यसि स्यथस् स्यथ । स्यसे स्येथे स्यध्वे । स्यामि स्यावस् स्यामस् । स्ये स्यावहे स्यामहे । "इडागमे । भविष्यति भविष्यतः भविष्यन्ति । भविष्यसि भविष्यथः भविष्यथ । भविष्यामि भविष्यावः भविष्यामः। पुरायावतोर्वर्तमाना ॥ ३४ ॥ अनयोरुपपदयोर्भविष्यदर्थाद्धातोर्वर्तमाना स्यात् । पुरा भवति । यावद्भवति । भविष्यतीत्यर्थः। (कदाकोने वा*) कदा भवति । कदा भविष्यति। कहि भवति कर्हि भविष्यति। - माङयद्यतनी ॥ ३५॥ माङयुपपदे धातोरद्यतनी स्यात्। सर्वविभक्त्यपवादः। माड्योगेऽडागमाभावः । मा भूत् । सस्मे ह्यस्तनी च ॥ ३६॥ समे माङयुपपदे ह्यस्तनी अद्यतनी च स्यात् । मा स्म भवत् मा स्म भूत् । - अयदि स्मृत्यर्थे भविष्यन्ती ॥ ३७॥ For Personal & Private Use Only Page #161 -------------------------------------------------------------------------- ________________ भ्वादयः परस्मैपदिनः। १५३ स्मृत्यर्थे धातावुपपदे भूतानद्यतनार्थे भविघ्यन्ती स्यात् नतु यद्योगे । स्मरसि साधो सिद्धाद्रौ तपस्विनो भविष्यामः । यद्योगे तु । स्मरसि यत्तत्र तपस्विनोऽभवाम। धातोः सम्बन्धे प्रत्ययाः ॥ ३८॥ धात्वर्थानां विशेषणविशेष्यभावे सति यथाकालमपि प्रत्ययाः साधवः स्युः । विश्वदृश्वाऽस्य पुत्रो भविता । भावि कृत्यमासीत् । प्रचये नवा सामान्यार्थस्य ॥३९॥ धात्वर्थानां च समुच्चये गम्ये सामान्यार्थस्य धातोः संबन्धे सति धातोः परौ हिस्वौ तध्वमौ च तद्युष्मदि वा स्याताम् । व्रीहीन् वप लुनीहि पुनीहि इत्येवं यतते यत्यते वा । पक्षे वपति लुनातीत्येवं यतते यत्यते वा। सूत्रमधीष्व नियुक्तिमधीष्व भाष्यमधीष्वेत्येवमधीते । पक्षे सूत्रमधीते नियुक्तिमधीते इत्येवमधीते । एवं तध्वमोरप्युदाहरणानि । यथाविधि धातोः संबन्धे सति भृशाभीक्ष्ण्येऽप्येवम् । लुनीहि पुनीहीत्येवायं लुनाति । अधीष्वाधीष्वेत्येवमयमधीते इत्यादि । सप्तम्यर्थे क्रियातिपत्तौ क्रियाति पत्तिः ॥४०॥ सप्तम्या अर्थो निमित्तं हेतुफलादि सामग्री For Personal & Private Use Only Page #162 -------------------------------------------------------------------------- ________________ १५४ हैमलघुप्रक्रियाव्याकरणे कुतश्चिद्वैगुण्याक्रियानभिनिवृत्तौ सत्यामेष्यदर्थाद्धातोः सप्तम्यर्थे क्रियातिपत्तिः स्यात् । ___क्रियातिपत्तिः। परस्मैपदिनः। आत्मनेपदिनः । स्यत् स्यताम् स्यन् । स्यत स्येताम् स्यन्त । स्यस् स्यतम् स्यत। स्यथा स्येथाम् स्यध्वम् । स्थम् स्थाव स्थाम। स्से स्यावहि स्यामहि । - सुवृष्टिश्चेदभविष्यत् सुभिक्षमभविष्यत् । अभप्यिताम् अभविष्यन् । अभविष्यः अभविष्यतम् अभविष्यत । अभविष्यम् अभविष्याव अभविप्याम । पां पाने । अनुस्वार इनिषेधार्थः । श्रौतिकवुधिवुपाघ्राध्मास्थाम्नादाम्दृश्यर्ति- शदसदः शृकृधिपिबजिघ्रधमतिष्ठमन यच्छपश्यर्छशीयसीदम् ॥ ११ ॥ - श्रौत्यादीनां त्रयोदशानां शिति शृप्रभृतयस्त्रयोदशादेशाः स्युः । पिबति पिबतः पिबन्ति १ । पिबेत् पिबेताम् पिबेयुः । पिबेः पिबेतम् पिबेत । पिबेयम् पिबेव पिबेम २ । पिबतु पिबतात् पिबताम् पिबन्तु । पिब पिबतात् पिबतम् पिबत ३ । अपिबत् अपिबताम् अपिबन् ४। पिबैतिदेति सिज्लोपे अपात् २ अपाताम् । सिज्विदोऽभुवः॥४२॥ For Personal & Private Use Only Page #163 -------------------------------------------------------------------------- ________________ भ्वादयः परस्मैपदिनः।। १५५ अभुवः सिच्प्रत्ययान्ताद्विदश्च धातोः परस्थानः पुस् स्यात् । पकार इत् । इडेरपुसि चातो लक ॥४३॥ कित्यशिति स्वरे इटि एति पुसि च परे आदन्तस्य धातोरन्तस्य लुक् स्यात् । अपुः। अपा: अपातम् अपात । अपाम् अपाव अपाम. ५ । हृखः॥ ४४ ॥ द्वित्वे सति पूर्वस्य ह्रस्वः स्यात् । आतो णव औः ॥४५॥ आतः परस्य णव औः स्यात् ।। इन्ध्यसंयोगात्परोक्षा किद्वत् ॥ ४६॥ इन्धेरसंयोगान्ताच्च परा अवित्परोक्षा किद्वत्स्यादिति कित्त्वादिडेत्पुसीत्याल्लुक । पपौ पपतुः पपुः। सृजिदृशिस्कृखरात्वतस्तृनित्या- निटस्थवः ॥४७॥ सृजिदृशिभ्यां स्कृगः स्वरान्तादत्वतश्च तृजिनित्यानिटो विहितस्य थव आदिरिडा स्यात् । पपाथ पपिथ पपथुः पप । पपौ पपिव पपिम ६। गापास्थासादामाहाकः ॥४८॥ एषां वित्याशिष्यः स्यात् । पेयात् पेयास्ताम् For Personal & Private Use Only Page #164 -------------------------------------------------------------------------- ________________ १५६ . हैमलघुप्रक्रियाव्याकरणे पेयासुः । पेयाः पेयास्तम् पेयास्त । पेयासम् पेयास्व पेयास्म ७। एकखरादनुखारेतः॥४९॥ - एकस्वरादनुस्वारेतो धातोस्ताद्यशित इड् न स्यात् । पाता पातारौ पातारः ८। पास्यति पास्यतः पास्यन्ति ९। अपास्यत् अपास्यताम् अपास्यन् १० इत्यादिवत् । घां गन्धोपादाने । जिप्रति १ । जिप्रेत् २। जिघतु जिघ्रतात् ३ । अजिघ्रत् ४ । द्धेघाशाच्छासो वा ॥५०॥ - एभ्यः पञ्चभ्यः परस्य सिचः परस्मैपदे लुब्वा स्यात् । अघ्रात् । पक्षे सः। - सिजस्तेर्दिस्योः ॥ ५१॥ सिजन्ताद्धातोरस्तेश्च परयोर्दिस्योरादिरीत् स्यात् । यमिनमिरम्यातः सोऽन्तश्च ॥ ५२ ॥ यम्यादिभ्यस्त्रिभ्य आदन्तेभ्यश्च परस्मैपदे सिच आदिरिट् स्यादेषां च स् अन्तः। इट इति ॥ ५३॥ इटः परस्य सिच इति परे लुक् स्यात् । अघ्रासीत् अघ्राताम्-अघ्रासिष्टाम् अधुः-अघ्रासिषुः । अघा:-अघासीः अघातम्-अघ्रासिष्टम् अघात For Personal & Private Use Only Page #165 -------------------------------------------------------------------------- ________________ भ्वादयः परस्मैपदिनः। १५७ अघ्रासिष्ट । अघ्राम्-अघ्रासिपम् अघ्राव-अघ्रासिष्य अघ्राम-अघ्रासिष्म ५ । परोक्षायां घ्रा घ्रा इति । द्वित्वे व्यञ्जनस्यानादेर्लुक् ॥ ५४॥ . द्वित्वे पूर्वस्यानादेर्व्यञ्जनस्य लुक् स्यात् । द्वितीयतुर्ययोः पूर्वी इति घस्य गत्वे । . गहोर्जः ॥ ५५॥ द्वित्वे सति पूर्वयोंर्गहोर्जः स्यात् । जनौ जघतुः जघुः ६॥ __ संयोगादेर्वाशिष्येः॥ ५६ ॥ संयोगादेरादन्तस्य कृित्याशिष्येर्वा स्यात् । घेयात्-घायात् घेयास्ताम्-घ्रायास्ताम् घेयासुःप्रायासुः ७॥ध्राता ८ घास्यति ९।अघ्रास्यत् १० । ध्मां शब्दाग्निसंयोगयो। धमति १ . धमेत् २। धमतु-धमतात् ३ । अधमत् ४। अध्मासीत् ५। दध्मौ ६।ध्मेयात् ध्मायात् ॥ध्माता ८॥ध्मास्यति ९ । अध्मास्यत् १० । ष्ठां गतिनिवृत्तौ । षः सो ष्टयैष्ठिवष्वष्कः ॥ ५७ ॥ - पाठे धात्वादेः षःसः स्यान्न तु श्यैष्ठिवष्वष्काम्। निमित्ताभावे नैमित्तिकस्याप्यभाव इति ठस्य थत्वं स्था। तिष्ठति १। तिष्ठेत् २ । तिष्ठतु तिष्ठतात् ३। अतिष्ठत् ४ । अस्थात् अस्थाताम् अस्थुः ५। . . व्या. १४ For Personal & Private Use Only Page #166 -------------------------------------------------------------------------- ________________ १५८ हैमलघुप्रक्रियाव्याकरणे स्थासेनिसिसिचूसञ्जां द्वित्वेऽपि ॥५८॥ ___ उपसर्गस्थानाम्यादेः परेषां स्थादीनां सः षः स्यात् द्वित्वेऽपि। अध्यष्ठात् अध्यष्ठाताम् अध्यष्टुः । . अघोषे शिटः ॥ ५९ ॥ द्वित्वे पूर्वस्य शिटस्तत्संबन्धिन्येवाघोषे लुक् स्यात् । तस्थौ अधितष्ठौ तस्थतुः तस्थुः ६ । स्थेयात् स्थेयास्ताम् स्थेयासुः । ७ स्थाता अधिष्ठाता ८ । स्थास्यति अधिष्ठास्यति ९ । अस्थास्यत् अध्यष्ठास्यत् १०।म्नां अभ्यासे। मनति १।मनेत् २।मनतु मनतात् ३ । अमनत् ४ । अनासीत् ५। मनौ ६ । ने. यात्-नायात् ७ । नाता ८ । नास्यति ९ । अम्नास्थत् १० । दाम् दाने । यच्छति १ । यच्छेत् २॥ यच्छतु ३ । अयच्छत् ४। अवौ दाधौ दा ॥६०॥ अवितौ दाधारूपौ धातू दासंज्ञौ स्यातामिति दासंज्ञत्वात्पिबतीत्यादिना सिलुप् । अदात् । विद्वर्जनात् दांव दैव् इत्यादेर्न दासंज्ञा । ददौ ६। गापास्थासादामेत्येत्वे, देयात् ७ । दाता ८ । दास्थति ९ । अदास्यत् १० । किं जिं अभिभवे । जयति १ । जयेत् २ । जयतु जयतात् ३ । अजयत् ४। सिचि परस्मै समानस्याङिति ॥ ६१ ॥ For Personal & Private Use Only Page #167 -------------------------------------------------------------------------- ________________ भ्वादयः परस्मैपदिनः । १५९ समानान्तस्य धातोः परस्मैपदविषये सिचि अङिति वृद्धिः स्यात् । अजैषीत् अजैष्टाम् अजैषुः । अजैषीः अजैष्टम् अजैष्ट । अजैषम् अजैष्व अजैष्म ५ । जेर्गिः सन्परोक्षयोः ॥ ६२ ॥ सन्परोक्षयोः परयोर्द्वित्वे सति पूर्वात्परस्य जेर्गि: स्यात् । नामिनोऽकलिहलेरिति वृद्धिः । जिगाय । योsनेकस्वरस्य । जिग्यतुः जिग्युः । जिगयिथ जिगेथ जिग्यथुः जिग्य | णिद्वान्त्यो णव ॥ ६३ ॥ परोक्षाया अन्त्यो णवू णिद्वा स्यात् । जिगाय - जिग जिग्यव जिग्यिम ६ । दीर्घश्वीति दीर्घे -जीयात् जीयास्ताम् जीयासुः ७ । जेता ८ । जेष्यति ९ । अजेष्यत् १० । स्मं चिन्तायाम् । स्मरति १ । स्मरेत् २ । स्मरतु- स्मरतात् ३ । अस्मरत् ४ । अस्मात् अस्माष्टम् अस्मार्षुः । अस्माषः अस्मार्ष्टम् अस्मार्ष्ट । अस्मार्षम् अस्मा अस्मा ५ । स्मृ स्मृ इति द्वित्वे । ऋतोऽत् ॥ ६४ ॥ द्वित्वे सति पूर्वस्य ऋतोऽत् स्यात् । सस्मार । संयोगादृदः ॥ ६५ ॥ For Personal & Private Use Only Page #168 -------------------------------------------------------------------------- ________________ . १६० हैमलघुप्रक्रियाव्याकरणे संयोगात्परो य ऋत्तदन्तस्यार्तेश्चाकि परोक्षायां गुणः स्यात् । सस्मरतुः सस्मरुः। तः॥.६६ ॥ ऋदन्तात्तृजि नित्यानिटो विहितस्य थव आदिरिड् न स्यात् । सस्मर्थ सस्मरथुः सस्मर । सस्मारसमर समरिव समरिम ६। । -- क्ययङाशीयें ।। ६७ ॥ संयोगात्परो य ऋत्तदन्तस्यार्तेश्च क्ये यडन्याशीर्ये च गुणः स्यात् । स्मर्यात् स्मर्यास्ताम् स्म-. योस ७ । स्मर्ता । हनृतः स्यस्य ॥ ६॥ हन्तेदन्ताच्च परस्य स्यस्यादिरिद् स्यात् । मरिष्यति ९ । अस्मरिष्यत्.१० । द प्लवनतर णयो। तरति ४ । असारीत् अतारिष्टाम् अतारिपुः ५। ततार। स्कृच्छृतोऽकि परोक्षायाम् ॥ ६९ ॥ स्कृऋच्छोदन्तानां च परोक्षायां गुणः स्थान तु कोपलक्षितायां तस्याम् । तर इति जाते। तृत्रपफलभजाम् ॥ ७॥ एषां चतुर्णामवित्परोक्षासेट्थवोः परयोः स्वरस्य ए: स्यान्न च द्विः । तेरतुः तेरु । तेरिय ६ । For Personal & Private Use Only Page #169 -------------------------------------------------------------------------- ________________ भ्वादयः परस्मैपदिनः। १६१ ऋता कितीर् ॥ ७१ ॥ स्पष्टम् । भ्वादेर्नामिनो दीर्घोर्वोयंजने ॥ ७२ ॥ भ्वादेर्धातोयौँ रवौ तयोः परयोस्तस्यैव नामिनो दीर्घः स्यात् व्यञ्जने परे । तीर्यात् । वृतो नवाऽनाशीः सिचपरस्मै च ॥ ७३ ॥ वृभ्यामृदन्तेभ्यश्च परस्यैटो दीर्घो वा स्यात् नतु परोक्षाशिषोः सिचि परस्मैपदे च । तरिता-तरीता ८ । तरिष्यति-तरीष्यति ९ । अतरिष्यत्-अ. तरीष्यत् १० । दूधे पाने । धयति । आत्सन्ध्यक्षरस्य ॥ ७४॥ - धातोः सन्ध्यक्षरान्तस्य आः स्यात् नतु शिति परे । ततश्च दासंज्ञा। .. --... टूधेश्वेर्वा ॥ ७५॥ आभ्यां कर्तर्यद्यतन्यां डो वा स्यात् । द्विर्धातुरिति द्वित्वे पूर्वह्रस्वत्वे दत्वे च । अदधत् अदधताम् अदधन् । धेघाशाच्छासो वेति सिज्लोपविकल्पे । अधात् अधाताम् अधुः। पक्षे अधासीत् अधासिष्टाम् अधासिषुः ५। दधौ ६। धेयात् ७। धाता ८। धास्यति ९। अधास्यत् १० । ध्यें चि.. न्तायाम् । ध्यायति ४। अध्यासीत् ५। दध्यौ For Personal & Private Use Only Page #170 -------------------------------------------------------------------------- ________________ १६२ हैमलघुप्रक्रिया व्याकरणे । दध्यतुः दध्युः । दध्यिथ ६ । ध्येयात् ध्यायात् ७ । अर्च पूजायाम् । अर्चति । खरादेस्तासु ॥ ७६ ॥ स्वरादेर्धातोरादेरद्यतनीह्यस्तनीक्रियातिपत्तिषु वृद्धिः स्यात् । आर्चत् ४ । आचींत् आर्चिष्टाम् ५। अनातो नश्चान्त ऋदाद्यशौ संयोगस्य ॥ ७७ ॥ ऋदादेरश्नोतेः संयोगान्तस्य च परोक्षायां द्वित्वे पूर्वस्यादेरत आत्स्थानादन्यस्य आः स्यात् कृतातो नोन्तश्च । आनच आनर्चतुः आनचुः ६ । अर्ध्यात् ७ । अर्चिता ८ । अर्चिष्यति ९ । आचिंष्यत् १० । त्यजं हानौ । त्यजति ४ । व्यञ्जनानामनिटि ॥ ७८ ॥ व्यञ्जनान्तस्य धातोः परस्मैपदविषयेऽनिटि सिचि समानस्य वृद्धिः स्यात् । चजः कगमिति जस्य गत्वे, अघोषे प्रथमो शिट इति गस्य कत्वे, नाम्यन्तस्थेति सस्य पत्वे, अत्याक्षीत् । धुड् ह्रस्वाल्लुगनिटस्तथोः ॥ ७९ ॥ धुडन्तात् हस्वान्ताच्च धातोः परस्यानिटः सिचस्तादौ थादौ च लुकू स्यात् । अत्याक्ताम्म्र अत्याक्षुः । अत्याक्षीः । अत्याक्ष्म ५ । For Personal & Private Use Only Page #171 -------------------------------------------------------------------------- ________________ भ्वादयः परस्मैपदिनः। १६३ णिति ॥ ८०॥ जिति णिति च परे धातोरुपान्त्यस्यातो वृद्धिः स्यात् । तत्याज तत्यजतुः । तत्यजिथ तत्यक्थ ६ । त्यज्यात् ७ । त्यक्ता ८ । त्यक्ष्यति ९। अत्यक्ष्यत् १० । ब्रज गतौ । ब्रजति ४। __ वदव्रजलः॥८१॥ वदव्रजोर्लन्तरन्तयोचोपान्त्यस्य परस्मैपदे सेटि सिचि वृद्धिः स्यात् । अवाजीत् अत्राजिष्टाम् अब्राजिषुः । अब्राजीः ५। वनाज ६। व्रज्यात् ७ । ब्रजिता ८ । ब्रजिष्यति ९ । अवजिष्यत् १०॥ पत्ल पथे गतौ । पतति ४। नेर्मादापतपदनदगदवपीवहीश- मूचिग्यातिवातिद्रातिप्साति स्यतिहन्तिदेग्धौ ॥ ८॥ ___ अदुरुपसर्गान्तस्थाद्रादेः परस्यैषां सप्तदशानां संबन्धिनो नेरुपसर्गस्य नोण स्यात् । प्रणिपतति । लदिदातादिपुष्यादेः परस्मै ॥ ८३॥ लूदितो द्युतादेः पुष्यादेश्च परस्मैपदेऽद्यतन्याश्वयत्यसूवचपतः श्वास्थवो चपतम् ॥ ८४॥ मङ् स्यात् । For Personal & Private Use Only Page #172 -------------------------------------------------------------------------- ________________ १६४ हैमलघुप्रक्रियाव्याकरणे एषां चतुर्णामङि परे यथासङ्ख्यं श्वादयः स्युः । इति पठादेशे । अपतत् अपतताम् अपतन् ५ । पपात ६ । अनादेशादेरेकव्यञ्जनमध्येऽतः ॥ ८५ ॥ अवित्परोक्षासेट्र्थवोः परयोर्योऽनादेशादिर्घातुस्तत्संबन्धिनोऽकारस्यासंयुक्त व्यञ्जनमध्यगतस्य एः स्वान्न तु द्विः । प्रात स्वये स्वरविधेरिति कृतमपि द्वित्वं निवर्तते इत्यर्थः । पेततुः पेतुः । पेतिथ ६ । पत्यात् ७ । पतिता ८ । गद व्यक्तायां वाचि । गदति प्रणिगदति ४ । व्यञ्जनादेवपान्त्यस्यातः ॥ ८६ ॥ व्यञ्जनादेर्धातोरुपान्त्यस्यातः सेटि सिचि परस्मैपदे वृद्धिर्वा स्यात् । अग्रादीव-अगदीत् अगादिष्टाम्- अपविष्टाम् अगादिषुः - अगदिषुः ५ । जगाद ६ । गद्यात् ७ । गदिता ८ । गदिष्यति ९ । अगदिष्यत् १० । अर्द गतियाचनयोः । अर्दति ४ । आर्दीत् ५ । आनर्द ६ । अर्थात् ७ । अर्दिता ८ । अर्दिष्यति ९ । आर्दिष्यत् १० । णिदु कुत्सायाम् । पाठे धात्वादेर्णो नः । उदितः खरान्नोऽन्तः ॥ ८७ ॥ उदितो धातोः स्वरात्परो नोऽन्तः स्यात् । म्नां धुइर्गेन्त्योऽपदान्ते । निन्दति ४ । इट ईतीति For Personal & Private Use Only Page #173 -------------------------------------------------------------------------- ________________ भ्वादयः परस्मैपदिनः । १६५ सिज्लोपे । अनिन्दीत् अनिन्दिष्टाम् अनिन्दिषुः । अनिन्दिष्म ५ । निनिन्द ६ । निन्द्यात् ७ । निन्दिता ८ । एवं टुनदु समृद्धौं ९ । नन्दतीत्यादि १० । णमं प्रहृत्वे । नमति ४ । अदुरुपसर्गान्तरोणहिनुमीनानेः ॥ ८८ ॥ दुर्वर्जोपसर्गस्थादन्तः शब्दस्थाच रादेः परस्यैषां नो णू स्यात् । णेति गोपदेशा धातवः । प्रणमति । यमिरमीति सागमे । शिद्ध हेऽनुस्वार इत्यनुस्वारे । अनंसीत् अनंसिष्टाम् अनंसिषुः ५ । ननाम नेमतुः नेमुः । नेमिथ - ननन्थ ६ । नम्यात् ७ । नन्ता ८ | नंस्यति ९ । अनंस्यत् १० । गम्लं गतौ । गमिषद्यमः च्छः ॥ ८९ ॥ एषां शिति च्छः स्यात् । गच्छति ४ । लुदित्वादङागमे । अगमत् अगमताम् अगमन् ५ । जगाम । गमहनजनखनघसः खरेऽनङि क्लिति लुक् ॥ ९० ॥ एषामुपान्त्यस्यावर्जे स्वरादौ किति परे लुक् स्यात् । जग्मतुः जग्मुः ६ । गम्यात् ७ । गन्ता ८ । गमोऽनात्मने ॥ ९९ ॥ गमः परस्य स्यादेरिट् स्यात् नत्वात्मनेपदे । गमिष्यति गमिष्यतः गमिष्यन्ति ९ । अगमिष्यत् For Personal & Private Use Only Page #174 -------------------------------------------------------------------------- ________________ १६६ हैमलघुप्रक्रियाव्याकरणे अगमिष्यताम् अगमिष्यन् । अगमिष्यः. अगमिष्यतम् अगमिष्यत । अगमिष्यम् अगमिष्याव अगमिष्याम १० । क्रमू पादविक्षेपे । भ्रासभ्लासभ्रमक्रमक्लमत्रसित्रुटिलषियसिसंयसेर्वा ॥ ९२ ॥ एभ्यो दशभ्यः कर्तृविहिते शिति श्यो वा स्यात् । क्रमो दीर्घः परस्मै ॥ ९३ ॥ क्रमः परस्मैपदे शिति दीर्घः स्यात् । क्राम्यतिक्रामति । क्राम्येत्क्रामेत् ४ । क्रमः ॥ ९४ ॥ क्रमः परस्य स्ताद्यशित इट् स्यान्नत्वात्मनेपदे । न विजाशसक्षणयेदितः ॥ ९५ ॥ एषां हृयन्तानामेदितां च परस्मैपदे सेटि सिचि वृद्धिर्न स्यात् । अक्रमीत् अक्रमिष्टाम् ५ । कङश्चञ् ॥ ९६ ॥ द्वित्वे पूर्वयोः कङोश्चञौ स्याताम् । चक्राम चक्रमिथ चक्रन्थ ६ । क्रम्यात् ७ । क्रमिता ८ । क्रमिष्यति ९ । अक्रमिष्यत् १० । झुं प्रेक्षणे । पश्यति ४ । ऋदिच्छ्रिस्तम्भूस्तूम्भूम्रुचूम्लुचूषुचूग्लुचूग्लुञ्चूजो वा ॥ ९७ ॥ For Personal & Private Use Only Page #175 -------------------------------------------------------------------------- ________________ भ्वादयः परस्मैपदिनः। १६७ ऋदितः श्व्यादीना नवानां च परस्मैपदेऽद्यत. न्याम वा स्यात् । ऋवर्णदृशोऽङि ॥ ९८॥ ऋवर्णान्तानां दृशश्चाडि परे गुणः स्यात् । अदशत् अदर्शताम् अदर्शन् । पक्षे सिचि । अः सृजिदृशोऽकिति ॥ ९९ ॥ . अनयोः स्वरात्परो धुडादौ प्रत्ययेऽदन्तः स्यात् नतु किति । द्रश इति जाते व्यञ्जनानामनिटीति वृद्धौ, यजसृजेति शस्य षत्वे । षढोः कः सि ॥ १०॥ से परे षढोः कः स्यात् । नाम्यन्तस्थेति सस्य षत्वे । अद्राक्षीत् अद्राष्टाम् अद्राक्षुः ५। वित्परोक्षायाः कित्त्वाभावः। ... लघोरुपान्त्यस्य ॥ १०१ ॥ धातोरुपान्त्यस्य नामिनो लघोरकिति गुणः । स्यात् । ददर्श ददृशतुः ददृशुः । सृजिदृशीत्यादिनेविकल्पे, दद्रष्ठ ददर्शिथ ६। दृश्यात् ७ । द्रष्टा ८॥ द्रक्ष्यति ९ । अद्रक्ष्यत् १० । दंशं दशने । दंशसंजः शवि लुक् । दशति ४ । अदासीत् ५। ददंश ६ । संयोगान्तत्वादवित्परोक्षायाः कित्त्वाभावे न लोपाभावः । ददंशतुः। For Personal & Private Use Only Page #176 -------------------------------------------------------------------------- ________________ १६८ हैमलघुप्रक्रियाव्याकरणे - नो व्यञ्जनस्थानुदितः ॥ १०२ ॥ व्यञ्जनान्तस्यानुदितो धातोरुपान्त्यस्य नः किति परे लुक् स्यात् । दश्यात् ७ । दंष्टा ८ । दक्ष्यति ९। अदक्ष्यत् १० । कृषं विलेखने । लघोरुपान्त्यस्येति गुणे, कर्षति ४। सशमशकृषतपहपो वा ॥ १०३ ॥ एभ्योऽद्यतन्यां सिंच का स्वात् । - स्पृशादिसृपो वा ॥ १०४ ॥ - स्पृशादिपञ्चकस्य सपश्च स्वरात्परो धुडादौ प्रत्ययेऽदन्तो वा स्यात् न तु किति । शेष दृशिवत् । अक्राक्षीत् अक्राष्टाम् अक्राक्षुः । अकार्षीत् अकाम् । अकार्षुः । पक्षे। ..............' हशिटो नाम्युपान्त्याददृशोऽनिटः .. सक् ॥ १०५ ॥ · हान्ताच्छिडन्ताच नाम्युपान्त्यादृश्वर्जादनिटोऽद्यतन्यां सक् स्यात् । सिजपवादः । अकृक्षत् अकृक्षताम् अकृक्षन् ५। चक चकृषतुः ६ । कृ. ध्यात् ७ । क्रष्टा-क ८ ।क्रक्ष्यति-कश्येति ९ । अक्रक्ष्यत् अकय॑त् १० । हसे हसने । हसति ।। एदित्त्वादृयभावे । अहसीत् अहसिष्टाम् अससिषुः । ५ जहास ६ । हस्यात् ७ । हसिता ८॥ For Personal & Private Use Only Page #177 -------------------------------------------------------------------------- ________________ भ्वादयः परस्मैपदिनः। १६९ हसिष्यति ९ । अहसिष्यत् १० । दहं भस्मीकरणे। दहति ४ । भ्वादेर्दादेर्घः । इति हस्य घत्वे, गडदबादेरिति दस्य धत्वे, अघोषे प्रथमोऽशिट इति घस्य कत्वे, अधाक्षीत् । धुट् हस्वादिति सिज्लुपि । अधश्चतुर्थात्तथोधः ॥ १०६ ॥ चतुर्थात्परयोर्धारूपवर्जाद्धातोनिहितयोस्तथोपः स्यात् । अदाग्धाम् अधाक्षः ५। ददाह देहतुः देहुः ६। दह्यात ७॥ दग्धा ८॥धक्ष्यति ९ । अधक्ष्यत। १० । मिहं सेचने । मेहति ४ । हशिट इति सकि, अमिक्षत् ५ । मिमेह मिमिहतुः ६ । मिह्यात् ७। ढस्तड्ढे ॥ १०७॥ तन्निमित्ते ढे परे ढस्यानु लुक् स्यात् दीर्घश्चादिदुतः । मेढा ८ । मेक्ष्यति ९ । अमेष्यत् १० । अर्ह मह पूजायाम् । अर्हति ४.) आहीत् ५ । आ. नर्ह ६ । अर्थात् ७ । अर्हिता ८ । अहिष्यति ९॥ आर्हिष्यत् १० । महति ४ । अमहीत् ५। ममाह मेहतुः ६ । मह्यात् ७ । महिता ८ । महिष्यति ९ । अमहिष्यत् १० । अक्षौ व्याप्तौ च । वाऽक्षः ॥ १०८॥ अस्मात्कर्तरि शिति श्रुर्वा स्यात् । उश्नोः ॥ १०९॥ धातोः परयोरकिति गुणः स्यात् । अक्ष्णोति । व्या. १५ For Personal & Private Use Only Page #178 -------------------------------------------------------------------------- ________________ १७० हैमलघुप्रक्रियाव्याकरणे शिदवित् ॥ ११०॥ धातोः परोऽवित् शित्प्रत्ययो डिद्वत्स्यात् । अश्णुतः। भ्रूश्नोरित्युवादेशे । अणुवन्ति १। अश्णुयात् २ । अक्ष्णोतु-अक्ष्णुतात् । अणुहि ३ । आक्ष्णोत् ४ । पक्षे अक्षति ४। धूगौदितः॥ १११ ॥ धूग औदियश्च परस्य स्ताद्यशित आदिरिड्डा स्यात् । इटि आक्षीत् । पक्षेऽपि आक्षीत् । तक्षौ त्वक्षौ तनूकरणे । (तक्षः स्वार्थे वा श्रुः शिति*) तक्ष्णोति तक्ष्णुतः ४ इति । अतक्षीत् । पक्षे व्यञ्जनानामनिटीति वृद्धौ, संयोगस्यादाविति कलुकि, षस्य कत्वे, अताक्षीत् अतक्षिष्टाम्-अताष्टाम् अत- ' क्षिषुः-अताक्षुः ५।ततक्ष ६। तक्ष्यात् ७ । तक्षितातष्टा ८। तक्षिष्यति-तक्ष्यति ९ । अतक्षिष्यत् १० । इति भ्वादयः परस्मैपदिनः। अथ भ्वादय आत्मनेपदिनः। एधि वृद्धौ । शवि एधते धर्मतः सुखम् । आतामाते आथामाथे आदिः॥ ११२॥ ___ आत्परेषामेषां चतुर्णामात इः स्यात् । एधेते एधन्ते । एधसे एघेथे एधध्वे । एधे एधावहे एधा For Personal & Private Use Only Page #179 -------------------------------------------------------------------------- ________________ भ्वादयः आत्मनेपदिनः । १७१ महे १ । एधेत एधेयाताम् एधेरन् । एधेथाः एधेयाथाम् एधेध्वम् । एधेय एधेवहि एधेमहि २ । एधताम् एधेताम् एधन्ताम् । एधस्व एधेथाम् एधध्वम् । एधै एधावहै एधामहै ३ । स्वरादेस्ता स्विति वृद्धौ । ऐधत ऐधेताम् ऐधन्त । ऐधथाः ऐधेथाम् ऐधध्वम् । ऐधे ऐधावहि ऐधामहि ४ । ऐधिष्ट ऐधिषाताम् । अनतोऽन्तोदात्मने ॥ ११३ ॥ अनतः परस्यात्मनेपदस्यान्तोऽत्स्यात् । ऐधिपत । ऐधिष्ठाः ऐधिषाथाम् । सोधि वा ॥ ११४ ॥ धातोर्घादौ प्रत्यये सो लुग्वा स्यात् । ऐधिध्वम् । पक्षे । नाम्यन्तस्थेति सिचः षत्वे, तस्य तृतीयस्तृतीय इति डत्वे, तवर्गश्चवर्गेति धस्य ढत्वे, ऐधिदम् । ऐधिषि ऐधिष्वहि ऐधिष्महि ५ । गुरुनाम्यादेरनृच्छ्रर्णोः ॥ ११५ ॥ गुरुर्नाम्यादिर्यस्य तस्माद्धातो ऋच्छ्रणुवत्परस्याः परोक्षाया आम् स्यात् आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते । अनुर्विपर्यासव्यवहितनिवृत्त्यर्थः । एधांबभूव एधांबभूवतुः एधांबभूवुः, इत्यादि प्राग्वत् । For Personal & Private Use Only Page #180 -------------------------------------------------------------------------- ________________ हैमलघुप्रक्रियाव्याकरणे आमः कगः ॥ ११६ ॥ आमः परादनुप्रयुक्तात्कृग आम एव प्राग् यो धातुस्तस्मादिव कर्तर्यात्मनेपदं स्यात्स चेदात्मनेपदाहस्तस्मात्तत्प्रयोज्यमन्यथा परस्मैपदमिति । एधांचक्रे । एधामास ६ । एधिषीष्ट एधिषीयास्ताम् एधिषीरन् । एधिषीष्ठाः एधिषीयास्थाम् एधिषीध्वम् । एधिषीय एधिपीवहि एधिषीमहि ७ । एधिता एधितारौ एधितारः । एधितासे एधितासाथै धिताध्वे । एधिताहे एधितास्वहे एधितास्महे ८ | एधिष्यते धिष्येते एधिष्यन्ते । एधिष्यसे एधिष्येथे एधिष्यध्वे । एधिष्ये एधिष्यावहे धिष्यामहे ९ । ऐधिष्यत ऐधिष्येताम् ऐधिष्यन्त । ऐधिष्यथाः । ऐधिष्येथाम् । ऐधिष्यध्वम् । ऐधिष्ये ऐधिष्यावहि ऐधिष्यामहि १० । द्युति दीप्तौ । लघोरुपान्त्यस्येति गुणे द्योतते १ । द्योतेत २ । द्योतताम् ३ | अद्योतत ४ । द्युद्भ्योऽयतन्याम् ॥ ११७ ॥ द्युतादिभ्योऽद्यतनीविषये कर्तर्यात्मनेपदं वा स्यात् । अद्योतिष्ट । पक्षे ऌदिद्युतादिपुष्यादेः परस्मै इत्यङ् । अद्युतत् अद्योतिषाताम् अद्युतताम् अद्योतिषत-अद्युतन् । अद्योतिष्ठा :- अद्युतः अद्योतिषाथाम् अद्युततम् अद्योतिध्वम् अद्युतत। अद्यो For Personal & Private Use Only १७२ Page #181 -------------------------------------------------------------------------- ________________ भ्वादयः आत्मनेपदिनः। १७३ तिषम्-अद्युतम् अद्योतिष्व-अधुताव अद्योतिष्मअद्युताम ५। द्युतेरिः ॥११८॥ धुतेर्द्वित्वे पूर्वस्य उत इ. स्यात् । दिद्युते दिधुताते दिद्युतिरे । दिद्युतिषे इत्यादि ६ । घोतिषीष्ट ७ । धोतिता ८ । द्योतिष्यते ९। अद्योतिष्यत १० । रुचि अभिप्रीत्यां च । रोचते इत्यादि । एवं द्युतादयस्त्रयोविंशतिस्तत्र वृदादिपञ्चतो विशेषः । वृतू वर्तने । वर्तते ४। अवर्तिष्ट अवृतत् ५। ववृते ६ । वर्तिषीष्ट ७ । वर्तिता ८।। वृद्भ्यः स्यसनोः॥ ११९ ॥ वृतादेः पञ्चतः स्यादौ प्रत्यये सनि च विषये कर्तर्यात्मनेपदं वा स्यात् । वर्तिष्यते । पक्षे । न वृद्भ्यः ॥ १२०॥ - वृतादिपञ्चकात् स्ताद्यशितोऽनात्मने इट् न स्यात् । वत्स्यति ९ । अवर्तिष्यत-अवत्स्यत् १०। स्यन्दौङ् स्रवणे । स्यन्दते । औदित्त्वादिडा । अस्यन्दिष्ट-अस्यन्त अस्यन्दिषाताम्-अस्यन्त्साताम् अस्यन्दिषत-अस्यन्त्सत ५। धुभयोऽद्यतन्यामिति परस्मैपदपक्षे अडि सति नो व्यञ्जनस्येति नलुकि । अस्यदत् अस्यदताम् अस्यदन् ५। सस्थन्दे सस्यन्दिषे सस्यन्त्से ६ । स्यन्दिषीष्ट-स्यन्त्सीष्ट ७ । For Personal & Private Use Only Page #182 -------------------------------------------------------------------------- ________________ १७४ हैमलघुप्रक्रियाव्याकरणे स्यन्दिता-स्यन्ता स्यन्दितासे-स्यन्तासे ८ । स्यन्दिष्यते-स्यन्त्स्यते स्यन्त्स्यति ९ । अस्यन्दिष्यत-अ. स्यन्त्स्यत अस्यन्त्स्यत् १०। निरभ्यनोश्च स्यन्दस्याप्राणिनि ॥ १२१ ॥ - एभ्यः परिनिविभ्यश्च परस्याप्राणिकर्तृकस्य स्यन्दः सः पूवा स्यात् । अनुष्यन्दते अनुस्यन्दते जलम् । अप्राणिनीति किम् । अनुस्यन्दते हस्ती। वृधू वृद्धौ । शृधू शब्दकुत्सायाम् । एतौ वृतिवत् । कृपौङ् सामर्थे । ऋरलुलं कृपोऽकृपीटादिषु ॥ १२२ ॥ कृपेक्रतो रस्य च लल् स्यात् नतु कृपीटादिविषयस्य । कल्पते ४ । बुद्भ्योऽद्यतन्यामित्यात्मनेपदविकल्पे धूगौदित इतीविकल्पे च अकल्पिष्ट । पक्षे सिजाशिषावात्मने ॥ १२३ ॥ नामिन्युपान्त्ये सति धातोनिरटावात्मनेपदविषयौ सिजाशिषौ किद्वत्स्याताम् । अक्लुप्त । पक्षे अक्लपत् ५। चक्लुपे । चक्लूपिषे-चक्लुप्से इत्यादि ६ । कल्पिपीष्ट-क्लप्सीष्ट । कृपः श्वस्तन्याम् ॥ १२४ ॥ कृपेः श्वस्तन्यामात्मनेपदं वा स्यात् । कल्पिता For Personal & Private Use Only Page #183 -------------------------------------------------------------------------- ________________ भ्वादयः आत्मनेपदिनः। १७५ कल्ता । परस्मैपदपक्षे न वृद्भ्य इतीनिषेधे कल्प्ता। एवं कल्पितासे-कल्तासि ८ । कल्पिष्यते-कल्प्स्यतेकल्प्स्यति ९ । अकल्पिष्यत-अकल्प्स्यत-अकल्प्स्यत् १० । कपुड्न चलने । उदित इति नुमागमे नां धड़वर्गेति मत्वे कम्पते ४ । अकम्पिष्ट ५। चकम्पे ६१ क्षमौषि सहने । क्षमते ४। औदित्त्वात् अक्षमिष्ट-अक्षस्त क्षमिता-क्षन्ता । रमि क्रीडायाम् । रमते ४ । अरस्त ५। रेमे ६। रंसीष्ट ७ । रन्ता ८। रंस्यते ९ । अरंस्यत १०। ( व्याड्परे रमः . परस्मैपदं स्यात्*) विरमति । व्यरंसीत् । विरराम । डुलभिंष् प्राप्तौ । लभते ४ । अधश्चतुर्थात्तथोधः । अलब्ध ५। लेभे ६ । लप्सीष्ट ७ । लब्धा ८ । लप्स्यते ९ । अलप्स्यत १०। स्फायै ओप्यायै वृद्धौ । स्फायते ४ । अस्फायिष्ट । हान्तस्थानीड्भ्यां वा ॥ १२५ ॥ हादन्तस्थायाश्च पराओरिटश्च परासां परोक्षाद्यतन्याशिषां धो द वा स्यात् । अस्फायित्वम्-अस्फायिध्वम् । पस्फाये पस्फायिट्वे २। ६ । स्फायिषीष्ट स्फायिषीद्वम् २ । ७ । स्फायिता ८ । स्फायिष्यते ९ आप्यायत ४। दीपजनबुधिपूरितायिप्यायो वा ॥ १२६ ॥ एभ्यः षड्भ्योऽद्यतन्यास्ते परे त्रिच् वा स्या For Personal & Private Use Only Page #184 -------------------------------------------------------------------------- ________________ १७६ हैमलघुप्रक्रियाव्याकरणे तद्योगे तलुक् च । ञ्चावितौ । आप्यायि चैत्रः । आप्यायिष्ट ५ । प्यायः पीः ॥ १२७ ॥ प्यायः परोक्षायङोः पीः स्यात् । आपिये । आपिप्यिषे ६ | आप्यायिषीष्ट ७ । आप्यायिता ८। आप्यायिष्यते ९ । आप्यायिष्यत १० । तायृङ् संतानपालनयोः । तायते ४ । अतायि अतायिष्ट इत्यादि । अवियिप्रभृतयो गतौ । अयते । उपसर्गस्यायौ रो लः । प्लायते - पलायते ४ । पलायिष्ट ५ । दयायास्कासः ॥ १२८ ॥ एतश्चतुर्भ्यः परोक्षाया आम् स्यात् । पलायांचक्रे ६ | दयि दानगतिहिंसादानेषु च । दयते ४ । अदयिष्ट ५ । दयांचक्रे ६ । षेवृङ सेवृङ् सेवने । परिनिवेः सेवः ॥ १२९ ॥ I एभ्यः परस्य सेवः सो द्वित्वेप्ययपि पू स्यात् । सेवते परिषेवते । पर्यषेवत ४ । पर्यषेविष्ट ५ । परिषिषेवे ६ । परिषेविषीष्ट ७ । परिषेविता ८ । परिविष्यते ९ । पर्यषेविष्यत १० । षहि मर्षणे । सहते । · असोङसिवूसहस्सदाम् ॥ १३० ॥ परिनिविभ्यः परस्य सिवूसहोः स्सटश्च सः पू For Personal & Private Use Only Page #185 -------------------------------------------------------------------------- ________________ ८ भ्वादयः आत्मनेपदिनः । १७७ स्यात् अटि च वा नच सोङविषये । विषहते । पर्यषहत - पर्यसहत ४ । पर्यषहिष्ट २ । ५ । सेहे ६ । सहिषीष्ट ७ । सहलुभेच्छरुषरिषस्तादेः ॥ १३१ ॥ एभ्यः परस्य तादेरशित आदिरिङ् वा स्यात् । सहिता । पक्षे होधुट्पदान्ते इति हस्य दत्वे, अधश्चतुर्थादिति तस्य धत्वे, तवर्गश्चवर्गेति धस्य ढत्वे । सहिवहेरोच्चावर्णस्य ॥ १३२ ॥ 1 सहिवह्योस्य तड्ढे परे लुक् स्यात् ओच्चावर्णस्य । सोढा - सहिता सोढारौ । असोङेति किम् । विषहिता से विसोढासे ८ । सहिष्यते ९ । असहिष्यंत १० । गाहौङ विलोडने । गाहते ४ । इड्डिकल्पे अगाहिष्ट - अगाढ अगाहिषाताम् अघाक्षाताम् अगाहिषत अघाक्षत । अगाहिष्ठाः - अगाढाः इत्यादि ५ । जगाहे. जगाहिषे - जघाक्षे ६ । गाहिषीष्ट-घाक्षीष्ट ७ । गाहिता - गाढा ८ । गाहिष्यते घाक्ष्यते ९ । अगाहिष्यत-अघाक्ष्यत १० । ईहि चेष्टायाम् । ईह ऐहत ४ । ऐहिष्ट ५ । ईहांचक्रे ६ । ईहिषीष्ट ७ । ईहिता ८ । ईहिष्यते ९ । ऐहिष्यत १० । ईक्ष दर्शने । ईक्षते ऐक्षत ४ । ऐक्षिष्ट ५ । ईक्षांचक्रे ६ | ईक्षिपीष्ट ७ । ईक्षिता ८ | ईक्षिष्यते ९ । 1 ऐक्षिष्यत १० । For Personal & Private Use Only Page #186 -------------------------------------------------------------------------- ________________ १७८ हैमलघुप्रक्रियाव्याकरणे . विशिष्टार्थोपसर्गादेः परस्मैपदिनामपि । तथा चोभयपदिनामात्मनेपदिता भवेत् ॥ १॥ देवार्चामैत्रीसङ्गमपथिकर्तृकमन्त्र करणे स्थः ॥ १३३ ॥ ___एतदर्थादुपपूर्वात्तिष्ठतेरात्मनेपदं स्यात् । देवाचर्चा जिनेन्द्रमुपतिष्ठते उपातिष्ठत ४।.. - इश्च स्थादेः ॥ १३४॥ स्थाधातोर्दासंज्ञाच्चात्मनेपदविषयः सिच् किद्धस्यात् तद्योगे च स्थादोरिश्च । सिचः कित्त्वाद्गुणाभावः । धुहस्वादिति सिज्लोपे उपास्थित उपास्थिषाताम् उपास्थिषत ५। उपतस्थे ६ । उपस्थासीष्ट ७ । उपस्थाता ८ । उपस्थास्यते ९। उपास्थास्यत १० । मैत्री रथिकानुपतिष्ठते । संगमः यमुना गङ्गामुपतिष्ठते । पन्थाः कर्ता यस्य तत्र श्रुघ्नमुपतिष्ठते पन्थाः । मन्त्रः करणं यस्य तत्र ऐन्द्रया गाहेपत्यमुपतिष्ठते । वा लिप्सायाम् ॥ १३५॥ । उपात्स्थो लिप्सायां गम्यायामात्मनेपदं वा स्यात् । भिक्षुर्वदान्यमुपतिष्ठते । उदोऽनूबेहे ॥ १३६ ॥ अनू चेष्टायां उत्पूर्वात्स्थस्तथा । मुक्तावुत्ति For Personal & Private Use Only Page #187 -------------------------------------------------------------------------- ________________ भ्वादयः आत्मनेपदिनः । १७९ 1 ष्ठते । ऊर्ध्वचेष्टायां तु आसनादुत्तिष्ठति । अचेष्टायामपि ग्रामाच्छतमुत्तिष्ठति । उदः स्थास्तम्भः सः ॥ १३७ ॥ उदः परयोः स्थास्तम्भोः सस्य लुक् स्यात् । उत्थाता । ज्ञीप्सा स्थेये ॥ १३८ ॥ ज्ञीप्सात्मप्रकाशनं स्थेयः सभ्यस्तयोर्विषये स्थ आत्मनेपदम् । तिष्ठते कन्या छात्रेभ्यः । त्वयि तिष्ठते विवादः । प्रतिज्ञायामप्येवम् । नित्यं शब्दमातिष्ठते । ( संविप्रावात् * ) संतिष्ठते इत्यादि । उपात्स्थः ॥ १३९ ॥ कर्मण्यसति तथा । योगे उपतिष्ठते । सकर्मणस्तु नृपमुपतिष्ठति । प्रोपादारम्भे ॥ १४० ॥ आभ्यामारम्भेऽर्थे क्रम आत्मनेपदं स्यात् । प्रक्रमते ४ । क्रम इतीडूनिषेधे प्राक्रंस्त ५ । प्रचक्रमे ६ । प्रसीष्ट ७ । प्रक्रन्ता ८ । प्रक्रंस्यते ९ । प्राक्रंस्यत १० । (क्रमोऽनुपसर्गाद्वात्मनेपदम् ) क्रमते - क्रामति इत्यादि । ( आङो ज्योतिरुद्गमे* ) आक्रमते भानुः । वद व्यक्तायां वाचि । व्यक्तवाचां सहोक्तौ ॥ १४१ ॥ व्यक्तवाचो नरादयस्तेषां संभूयोच्चारणार्थाद्वद । For Personal & Private Use Only Page #188 -------------------------------------------------------------------------- ________________ १८० हैमलघुप्रक्रियाव्याकरणे 1 आत्मनेपदं स्यात् । संप्रवदन्ते ग्राम्याः । ( विवादे वा* ) विवदन्ति विवदन्ते वा गणकाः । ( अनोः कर्मण्यसति* ) अनुवदते चैत्रो मैत्रस्य । कर्मणि तु उक्तमनुवदति । समो गमृच्छिप्रच्छिश्रुवित्स्वरत्वतिदृशः ॥ १४२ ॥ संपूर्वेभ्य एभ्योऽष्टाभ्यः कर्मण्यसत्यात्मनेपदं स्यात् । सङ्गच्छते समगच्छत । गमो वा ॥ १४३ ॥ गमेरात्मनेपदविषयौ सिजाशिषौ सिजाशिषौ किद्वद्वा स्याताम् । यमिरमिनमिगमिहनिमनिवनतितनादेर्घुटि क्विति ॥ १४४ ॥ एषां तनादीनां च धुडादौ किति लुक् स्यात् इति मलुकि धुड्हस्वादिति सिज्लुपि समगत | पक्षे समस्त समगसाताम् - समगंसाताम् ५। संजग्मे संजग्मिषे ६ । संगसीष्ट संगसीष्ट ७ । संगन्ता ८ । संगस्यते ९ । समगंस्यत १० । और शब्दोपतापयोः । संस्वरते ४ । समस्वरिष्ट ५ । संयोगादृदतैरिति गुणे संसस्वरे संसस्वरिषे ६ । इत्यादि । संपश्यते ४ । सिजाशिषावात्मन इति सिचः कि For Personal & Private Use Only Page #189 -------------------------------------------------------------------------- ________________ भ्वादयः आत्मनपदिनः। १८१ त्वम् । समदृष्ट समदृक्षाताम् समदृक्षत ५। संददृशे संददृशिषे ६। संदृक्षीष्ट ७ । संद्रष्टा ८ । संद्रक्ष्यते ९ । समद्रक्ष्यत १० । सकर्मकत्वे तु संगच्छति रवि शशीत्यादि । (गमेः क्षान्तौ आत्मनेपदम् ) आगमयते गुरुम् । कंचित्कालं प्रतीक्षत इत्यर्थः । चर गतिभक्षणयोः। उदश्चरः साप्यात् ॥ १४५॥ उत्पूर्वाञ्चरेः सकर्मकादात्मनेपदं स्यात् । मार्गमुच्चरते । उत्क्रम्य यातीत्यर्थः । अकर्मकत्वे तु धूम उच्चरति । ऊर्ध्वं गच्छतीत्यर्थः । समस्तृतीयया ॥ १४६ ॥ संपूर्वाञ्चरेस्तृतीयान्तेन योगे आत्मनेपदं स्यात्। अश्वेन संचरते ४ । समचरिष्ट ५। संचेरे संचेरिषे ६ । इत्यादि । अन्यत्र तु संचरति समचारीत् । संचचारेत्यादि । ( नुप्रच्छ: *) आनुते भृगालः। आपृच्छते गुरुम् । क्रीड विहारे । - क्रीडोऽकूजने ॥ १४७ ॥ कूजनमव्यक्तशब्दस्ततोऽन्यार्थात्संपूर्वात्क्रीडतेरात्मनेपदं स्यात् । संक्रीडते । कूजने तु संक्रीडन्त्यनांसि। . . अन्वाङ्परेः ॥ १४८॥ एभ्यस्त्रिभ्यः क्रीडतेरात्मनेपदं स्यात् । अनुक्रीडते व्या. १६ For Personal & Private Use Only Page #190 -------------------------------------------------------------------------- ________________ 9. .. १८२ हैमलघुप्रक्रियाव्याकरणे ४। अन्वक्रीडिष्ट ५ । अनुचिक्रीडे अनुचिक्रीडिषे ६ । इत्यादि । अन्यत्र तु क्रीडति । अक्रीडीत् चिक्रीडेत्यादि । तपं धूप संतापे। व्युदस्तपः ॥ १४९ ॥ आभ्यां परात्तपेः कर्मण्यसति स्वेऽङ्गे वा कर्मणि सत्यात्मनेपदं स्यात् । वितपते उत्तपते रविः । वितपते पाणिम् । व्यतपन ४ । व्यतप्त व्यतप्साताम् व्यतप्सत ५। वितेपे वितेपिषे ६ । वितप्सीष्ट ७। वितप्ता ८ । वितप्स्यते ९ । व्यतप्स्यत १०। अन्यत्र तु तपति तपः । अताप्सीत् अताप्ताम् अताप्सुः ५ । तताप तेपिथ-ततप्थेत्यादि १०। आङो यमहनः खेऽङ्गे च ॥ १५०॥ आपराभ्यां यमहन्भ्यां कर्माभावे स्वेऽङ्गे वा कर्मण्यात्मनेपदं स्यात् । आयच्छते ४ । यमः सूचने ॥ १५१ ॥ सूचनार्थाद्यमेरात्मनेपदविषयः सिच् किद्धस्यात् । कित्त्वाद्यमिरमीत्यादिनाम् लुकि, उपायत । (वा स्वीकृतौ सिचः कित्त्वम्*) उपायत-उपायंस्त शस्त्रम् । उपायसाताम् इत्यादि ५ । उपायेमे ६ । उपायंसीष्ट ७ । उपायन्ता ८ । उपायंस्यते ९। उपायंस्थत १० । आहते इत्यादिवत् । For Personal & Private Use Only Page #191 -------------------------------------------------------------------------- ________________ भ्वादयः आत्मनेपदिनः। १८३ क्रियाव्यतिहारेऽगतिहिंसाशब्दार्थहसो हृवहश्चानन्योऽन्यार्थे ॥ १२ ॥ अन्यचिकीर्षितायाः क्रियाया अन्येन हरणं करणं क्रियाव्यतिहारः तदर्थाद्गतिहिंसाशब्दार्थहस्वर्जाद्धातोर्हवहिभ्यां चात्मनेपदं स्यात् । व्यतिहरन्ते व्यतिवहन्ते भारम् । गत्यर्थादिवर्जनं किम् । व्यतिसर्पन्ति, व्यतिहिंसन्ति, व्यतिजल्पन्ति,व्यतिहसन्ति । (परस्परान्योन्येतरेतरयोगे च न*)। परस्परस्य व्यतिलुनन्ति । नाङ उपतापैश्वर्याशीष्षु च। __ आशिषि नाथः ॥ १५३ ॥ आशीरादेव नाथ आत्मनेपदं स्यात् । नाथः ॥ १५४॥ आत्मनेपदविषयस्य नाथो व्याप्यं कर्म वा स्यात्। सर्पिषो नाथते ४ । अनाथिष्टेत्यादि । अनाशिषितु “नाथन्ति के नाम न लोकनाथम्"। परावेर्जेः ॥ १५५॥ आभ्यां पराजयतेरात्मनेपदं स्यात् । पराजयते विजयते ४ । व्यजेष्ट ५। विजिग्ये ६ । विजेषीष्ट ७ । विजेता ८ । विजेष्यते ९ । व्यजेष्यत १०। इति भ्वादय आत्मनेपदिनः । For Personal & Private Use Only Page #192 -------------------------------------------------------------------------- ________________ १८४ हैमलघुप्रक्रियाव्याकरणे अथ भ्वादय उभयपदिनः । डुपची पाके पचधातुः । शेषा इतः। ईगितः ॥ १५६ ॥ ईदितो गितश्च धातोः कर्तुरात्मगामिनि फले आत्मनेपदं स्यादन्यथा परस्मैपदं स्यात् । पचति ।। अपाक्षीत् अपाताम् । पपाच पपक्थ-पेचिथ ६ । पच्यात् ७ । पक्कापश्यति ९ अपक्ष्यत् १० । पचते ४।अपक्त ५। पेचे ६। पक्षीष्ट ७। पक्का ८॥ पक्ष्यते ९ । अपक्ष्यत १० । डुकंग करणे । गकार उभयपदार्थः। - कृगतनादेरुः ॥ १५७॥ कृगस्तनादिभ्यश्च कर्तृविहिते शिति उ स्यात् । नामिनो गुणोऽकितीति गुणे, उश्नोरिति गुणे, करोति । अतः शित्युत् ॥१५८॥ शित्यविति य उस्तन्निमित्तो यः कृगोऽकारस्तस्य उत्स्यात् । शिदवित् डिद्वत्स्यात् इति गुणाभावे कुरुतः । इवर्णोदेरिति वत्वे कुर्वन्ति । करोषि ।' - कृगो यि च ॥ १५९ ॥ कृगः परस्योतो यादौ वमि चाविति लुक् स्यात् । कुर्वः कुर्मः। For Personal & Private Use Only Page #193 -------------------------------------------------------------------------- ________________ भ्वादयः उभयपदिनः । कुरुच्छुरः ॥ १६० ॥ कुरुच्छुरोर्नामिनो रेफे परे दीर्घो न स्यात् । कुर्यात् २ । करोतु कुरुतात् । असंयोगादोः ॥ १६९ ॥ असंयोगात्परो य उस्ततो हेर्लुक् स्यात् । कुरुकुरुतात् । करवाणि करवाव करवाम ३। जॅक रोत् अकुरुताम् । अकरवम् अकुर्व अकुर्म ४ । अकार्षीत् अकाष्टम् अकार्षुः । अकार्षीः अकार्ष्टम् अकार्ष्ट । अकार्षम् अकार्ष्व अकार्ष्म ५ । चकार चक्रतुः चक्रुः । ऋतः इती निषेधे, चकर्थ चकारचकर । स्क्रसृवृ इत्यत्र स्कुगग्रहणात् कृगो नेट् । चकूव चक्रम ६ । १८५ रिः शक्याशीर्ये ॥ १६२ ॥ ऋदन्तस्य धातो ऋतः शे क्ये आशीर्ये च परे रिः स्यात् । क्रियात् ७ । कर्ता ८ | हनुत इति इडागमे करिष्यति ९ । अकरिष्यत् १० । कुरुते कुर्वते १ । कुर्वीत २ । कुरुताम् । कुरुष्व । करवै करवावहै करवामहै ३ । अकुरुत । अकुरुथाः । अकुर्वि अकुर्वहि अकुर्महि ४ | · ऋवर्णात् ॥ १६३ ॥ ऋवर्णान्ताद्धातोरनिटावात्मनेपदे सिजाशिषौ For Personal & Private Use Only Page #194 -------------------------------------------------------------------------- ________________ १८६ हैमलघुप्रक्रियाव्याकरणे किद्वत्स्याताम् । धुड्हस्वादिति सिलुपि अकृत अकृषाताम् । माकृथाः। र्नाम्यन्तात्परोक्षाद्यतन्याशिषो धो ढः॥१६४॥ रेफान्तानाम्यन्ताच धातोरेतासांधो ढः स्यात् । अकृतम् । अकृष्वहि अकृष्महि ५ । चक्रे । चकृषे चकृढे ६ । कृषीष्ट । कृषद्विम् ।७। कता करिध्यते ९ । अकरिष्यत १०।। संपरेः कृगस्सट् ॥ १६५॥ आभ्यां परस्य कृग आदिः स्सट् स्यात् । स्सटि समः॥ १६६ ॥ स्सटि परे समः स स्यात् अनुस्वाऽरानुनासिको च पूर्वस्य । संस्करोति संस्करोति । लुक् ॥ १६७ ॥ समः सटि परे लुक् स्यात् । संस्करोति । समस्करोत् ४ । समस्कार्षीत् ५। संचस्कार । सृजि दृशिस्कृ इत्यादिना वेटि स्कृच्छृतोऽकीति गुणे संचस्करिथ-संचस्कर्थ संचस्करिव ६। संस्क्रियात् । संस्कुरुते ४ । समस्कृषाताम् ५। संचस्करे ६ । संस्कृषीष्ट ७ । असोसिवूसहस्सटामिति षत्वे परिष्करोति । For Personal & Private Use Only Page #195 -------------------------------------------------------------------------- ________________ भ्वादयः उभयपदिनः। १८७ उपाद्भूषासमवायप्रतियत्नविकारवा क्याध्याहारे ॥ १६८॥ एष्वर्थेषु उपात्कृगः स्सट् स्यात् । कन्यामुपस्करोतीत्यादि । वेः कृगः शब्दे चानाशे ॥ १६९ ॥ कर्मण्यसति शब्दे वा कर्मणि सत्यनाशार्थाद्वि. पूर्वात्कृग आत्मनेपदमेव स्यात् । विकुर्वतेऽश्वाः । कोष्टा विकुरुते स्वरान् । (परानोः कृगः परस्मैपदमेव *) पराकरोति । हंग हरणे । हरति ४। अहार्षीत् ५। जहार जहर्थ जहिम ६ । हरते ४ । अहत ५। जहे जहिषे ६ । हृषीष्ट ७ । हगो गतताच्छील्ये आत्मनेपदमेव * ) पैतृकमश्वा अनुहरन्ते। पितुरनुहरते । एवं भंग भरणे धृग् धारणे भरति धरतीत्यादि । णींगू प्रापणे + नयति ४ अनैषीत् अनैष्टाम् अनैषुः ५। नियाय निनयिथ निनेथ । नयते ४ । अनेष्ट ५ । निन्ये निन्यिषे ६ । कर्तृस्थाऽमूर्ताप्यात् ॥ १७ ॥ कर्तृस्थममूर्त कर्म यस्य तस्मानिय आत्मनेपदमेव । श्रमं विनयते (पूजाचार्यकभृत्युत्क्षेपज्ञानविगणनव्यये निय आत्मनेपदमेव * ) नयते विद्वान स्याद्वादे । अदुरुपसर्गेति णत्वे प्रणयति अन्तर्णयति । श्रिग सेवायाम् । श्रयति ।। For Personal & Private Use Only Page #196 -------------------------------------------------------------------------- ________________ हैमलघुप्रक्रियाव्याकरणे णिश्रिनुकमः कर्तरि ङः ॥ १७१ ॥ ण्यन्तात् श्रादेश्च कर्तर्यद्यतन्या ङः स्यात्ततो द्विर्धातुरिति द्वित्वे संयोगादितीयादेशे अशिश्रियत् अशिश्रियताम् अशिश्रियन् ५ । शिश्राय शिश्रियतुः शिश्रियः । शिश्रयिथ ६ । श्रीयात् ७ । श्रयिता ८ । श्रयिष्यति ९ । अश्रयिष्यतः १० । श्रयते ४ । अशिश्रियत अशिश्रियेताम् अशिश्रियन्त ५ । शिश्रिये ६ । श्रयिषीष्ट ७। शपीं आक्रोशे । शपति ४ । अशाप्सीत् ५ । शशाप । शेपिथ- शशपथ ६ । शपते ४ । अशप्त ५ । शेपे शेपिषे ६ । शप्सीष्ट ७ । शप उपलम्भने ॥ १७२ ॥ उपलम्भनं प्रकाशनं शपथो वा तदर्थाच्छपतेरात्मनेपदमेव । मैत्राय शपते । अनुपलम्भने तु मैत्र शपति । यर्जी देवपूजासंगतिकरणदानेषु । यजति ४ । अयाक्षीत् ५ । यजादिवशवचः सखरान्तस्था वृत् ॥ १७३ ॥ यजादेर्वशव चोश्च परोक्षायां द्वित्वे पूर्वस्य सस्वरान्तस्था यथासन्नं इउऋरूपा वृत्स्यात् । ञ्णितीति वृद्धौ इयाज ५ । For Personal & Private Use Only १८८ Page #197 -------------------------------------------------------------------------- ________________ भ्वादयः उभयपदिनः । यजादिवचेः किति ॥ १७४ ॥ यजादेर्वचेश्च संस्वरान्तस्था किति परे वृत् स्यात् । ततो द्वित्वे व्यञ्जनस्थानादेर्लुगिति जलकि, दीर्घे च ईजतुः ईजुः । वित्परोक्षायाः कित्त्वाभा - वात् इयजिथ । यजसृजेति षत्वे इयष्ठ ६ । इज्यात् ७ । यष्टा ८ । यक्ष्यति ९ । अयक्ष्यत् १० । यजते अयजत ४ । अयष्ट अयक्षाताम् ५। ईजे इंजिषे ६ । यक्षीष्ट ७ । वेंगू तन्तुसन्ताने । वयति वयेत् वयतु अवयत् ४ । आत्सन्ध्यक्षरस्येत्यात्वे । अवासीत् अवासिष्टाम् ५ । वेर्वय् ॥ १७५ ॥ वेगः परोक्षायां वयू वा स्यात् । उवाय । यजादिवचेः कितीति वृति द्वित्वे जय् इति भवति । न वयो यू ॥ १७६ ॥ वेगो वयो यः परोक्षायां य्वृन्न स्यात् । ऊयतुः ऊयुः । यजादिवशवच इत्यादिना पूर्वस्य वृति उवयिथ । स्वरान्तत्वान्नित्यमिट् । ऊयथुः ऊय । उवाय-उवय ऊयिव ऊयिम | वयादेशाभावे तु । वेरयः ॥ १७७ ॥ वेगोऽयन्तस्य पूर्वस्य परस्य च परोक्षायां वृन्न स्यात् । वव ववतुः ववुः । १८९ • For Personal & Private Use Only Page #198 -------------------------------------------------------------------------- ________________ १९० हैमलघुप्रक्रियाव्याकरणे अविति वा ॥ १७८ ॥ वेगोऽयकारान्तस्याविति परोक्षायां वृद्धा न स्यात् । द्वित्वे कृते परत्वाद्धातोरुवादेशे पश्चात् समानदीर्घः । ऊवतुः ऊवुः । ववाथ-वविथ ६ । स्वरान्तत्वादिविकल्पः । ऊयात् ७ । वाता ८ । वास्यति ९। अवास्यत् १०। आत्मनेपदेऽपि वयते ४। अवास्त ५। परीक्षायां क्यादेशे ऊये ऊयिषे । पक्षे ववे वविषे ६ । वासीष्ट छ। व्यग् संवरणे । संव्ययति ४ । अव्यासीत् ५। ज्याव्येव्यधिव्यचिव्यथेरिः॥ १७९ ॥ एषां पञ्चानां परोक्षायां द्वित्वे सति पूर्वस्य इ. स्यात् । यजादिवशिति वृद्धाधनार्थमिकारस्यापि इः । नामिनोऽकलिहलेरिति वृद्धौ आयादेशे च विव्याय । यज्ञादिवचेरिति वृति योऽनेकस्वरस्येति यत्वे च विव्यतुः विव्युः। ऋवृव्येऽद इट् ॥ १८०॥ एभ्यश्चतुर्थ्यः परस्य थवो नित्यमिट् स्यात् । विव्ययिथ विव्याय विव्यय ६ । यजादिवचेः कितीति वृति वीयात् ७ । व्याता ८ । व्यास्यति ९। अव्यास्यत् १० । व्ययते ४ । अव्यास्त ५। विव्ये विव्यिषे ६ । व्यासीष्ट ७ । हेंग स्पर्धाशब्दयोः । आह्वयति ४। For Personal & Private Use Only Page #199 -------------------------------------------------------------------------- ________________ ... भ्वादयः उभयपदिनः। १९१ हालिप्सिचः ॥ १८१॥ एभ्यस्त्रिभ्योऽद्यतन्यामङ् स्यात् । आह्वत् आहृताम् आह्वन् । द्वित्वे हः ॥ १८२ ॥ ह्वेगो द्वित्वविषये सस्वरान्तस्था वृत्स्यात् । ततो हुहु इति द्वित्वे आजुहाव । धातोरिवर्णोवर्णस्येत्युवादेशे आजुहुवतु आजुहुवुः । आजुहोथआजुहविथ आजुहाव-आजुहव ६ । आहूयात् ७ । आह्वाता ८ । आह्वास्यति ९ । आह्वास्यत् १० । आह्वयते ४। वात्मने ॥ १८३॥ हादिभ्यस्त्रिभ्योऽद्यतन्यामात्मनेपदेऽड्वा स्यात् । आह्वत-आह्वास्त आह्वाताम्-आह्वासाताम् ५। आजुहुवे आजुहुविषे ६ । आहासीष्ट ७ । ... ह्रः स्पर्धे ॥ १८४॥ आपूर्वात् ह्वयतेः स्पर्धे गम्ये आत्मनेपदमेव स्यात्।मल्लो मल्लमाह्वयते । अन्यत्र तु गामाह्वयति । संनिवेः ॥ १८५॥ एभ्योऽपि हृयतेरात्मनेपदमेव । दुवपी बीजसन्ताने । वपंति ४ । अवाप्सीत् ५ । द्वित्वे पूर्वस्य स्वृति, उवाप। वृति द्वित्वे, ऊपतुः ऊपुः । उवपिथ For Personal & Private Use Only Page #200 -------------------------------------------------------------------------- ________________ १९२ हैमलघुप्रक्रियाव्याकरणे उवपूथ ऊपथुः ऊप । उवाप-उवप ६ । उप्यात् ७। वप्ता ८ वप्स्यति ९ । अवप्स्यत् १० वपते ४ । अवप्त ५। ऊपे ऊपिषे ६ । वप्सीष्ट ७ । वहीं प्रापणे । वहति ४ । अवाक्षीत् ५ । सहिवहेरोच्चावर्णस्येति अवोढाम् अवाक्षुः ५ । उवाह उवहिथ । इडभावे पक्षे उवोढ ६ । उह्यात् ७। वोढा ८। वक्ष्यति ९ । अवक्ष्यत् १० । वहते ४ । अवोढ अवक्षाताम् अवक्षत ५। ऊहे ऊहिले ६वक्षीष्ट ७॥ (प्राद्वहः परस्मैपदमेव*) प्रवहति । (परेच*) परिवहति । ट्रोश्वि गतिवृद्ध्योः । श्वयति अश्वयत् ४ । धेश्वेर्वेति वैकल्पिके डे, द्विर्धातुरिति द्वित्वे, संयोगादितीयादेशे, अशिश्चियत् अशिश्वियताम् अशिश्चियन् । पक्षे ऋदिच्छीत्यादिना वैकल्पिके डि श्वयत्यसूवच इत्यादिना श्वादेशे च अश्वत् अश्वताम् अश्वन् । पक्षे सिजागमे इडागमे ईदागमे नश्वीति वृद्धिनिषेधे गुणे यादेशे सिज्लोपे अश्वयीत् अश्वयिष्टाम् अश्वयिषुः । अश्वयीः ५ । वा परोक्षा यङि ॥ १८६ ॥ श्वेः सस्वरान्तस्था परोक्षायडर्वृद्वा स्यात् । ततः शुशु इति द्वित्वे शुशाव शुशुवतुः शुशुवुः । शुशविथः पक्षे शिश्वाय शिश्वियतुः शिश्वियुः । शिश्वयिथ ६ । यजादिवचेरिति वृति शूयात् शूयास्ताम् ७ । श्वयिता ८ । श्वयिष्यति ९ । अश्व For Personal & Private Use Only Page #201 -------------------------------------------------------------------------- ________________ भ्वादयः उभयपदिनः। १९३ यिष्यत् १० । वद व्यक्तायां वाचि । वदति ४। वदव्रज लू इति वृद्धौ अवादीत् अवादिष्टाम् अवादिषुः । मैवं वादीः ५। उवाद ऊदतुः ऊदुः। उवदिथ ७। वदिता ८ । वसं निवासे । वसति ४। सस्तः सि ॥ १८७॥ सन्तस्य धातोः सस्याशिति सादौ प्रत्यये विषयभूते तः स्यादिति सिजागमालागेव सस्य तः । अवात्सीत् अवात्ताम् अवात्सुः ५ । उवास । घखसः॥ १८८॥ नाम्यादेः परस्य घस्वसोः सः षः स्यात् । ऊषतुः ऊषुः । उवसिथ-उवस्थ उवास-उवस ६। उष्यात् । वस्ता ८ । वत्स्यति ९। श्विवद्वसः परस्मैपदिनः । टुयाग यायायाम् । याचति ४। अयाचीत् । पक्षे ऋदिच्छीत्यङगगमे अयाचत्यायवाच ॥ याच्यात् ७।याचिता ८॥ याचिष्यति ९।अयाचिष्यत् १०॥ याचते ४ । अयाचिष्ट ५। ययाचे ६ । याचिषीष्ट ७। गुहौग संवरणे। गोहः खरे ॥ १८९ ॥ कृतगुणगुहा स्वरादावुपान्त्यस्य ऊत्स्यात् । गूहति १।गूहेत् २। गृहतु३। अगृहत् ४। अगृहीत् । इडभावे हशिट इति सकि अघुक्षत् अगूहिष्टाम् व्या. १७ For Personal & Private Use Only Page #202 -------------------------------------------------------------------------- ________________ हैमलघुप्रक्रियाव्याकरणे अघुक्षताम् अगूहिषुः-अघुक्षन् .५ । जुगूह जुगुहतुः जुगुहुः । जुगूहिथ-जुगोढ जुगुहथुः जुगुह ६। गुह्यात् ७। गृहिता-गोढा ८। गूहिष्यति-घोक्ष्यति ९। अगूहिष्यत्अघोक्ष्यत् १० । गूहते ४ । अगूहिष्ट । इडभावे सक् । दुहदिहलिहरहो दन्त्यात्मने वा . सकः ॥ १९०॥ एभ्यश्चतुभ्यः परस्य सको दन्त्यादावात्मनेपदे लुग् वा स्यात् । ढस्तड्ड इति ढलोपे उकारस्य दीर्घ च अगूढ । पक्षे अघुक्षत अगूहिषाताम् । खरेऽतः ॥ १९१॥ सकोऽस्य स्वरादौ प्रत्यये लुक् स्यात् । अधुक्षाताम् अगहिषत-अघुक्षन्त । अगूहिष्ठाः-अगूढाःअधुक्षथाः। अगूहिष्वहि-अगुह्वहि-अधुक्षावहि ५।जुगुहे ६॥ गूहिषीष्ट-घुक्षीष्ट ७ । भजी सेवायाम् । भजति ४ । अभाक्षीत् ५। बभाज ६ । भज्यात् ७ । भक्ता ८ । भक्ष्यति ९ । अभक्ष्यत् १० । भजते ४। अभक्त ५। भेजे भेजाते ६ । भक्षीष्ट ७। राजगू टुभ्राजि दीप्तौ । राजति ४ । ऋदिच्छीत्यादिनाडि अराजत् । पक्षे सिचि अराजीत् अराजताम्-अराजिष्टाम् ५। रराज। For Personal & Private Use Only Page #203 -------------------------------------------------------------------------- ________________ अदादयः परस्मैपदिनः । जृभ्रमवमत्रसफणस्यमस्वनराजभ्रा"जा सभ्लासो वा ॥ ९९२ ॥ एषामेकादशानां स्वरस्यावित्परोक्षासेटूथ वोरेवी स्यात् न च द्विः । रेजतुः - रराजतुः रेजुः - रराजुः । रेजिथ - रराजिथ ६ । राज्यात् ७ । राजिता ८ । राजिष्यति ९ । अराजिष्यत् १० । राजते ४ । अराजिष्ट ५ । रेजे - रराजे रेजाते - रराजाते रेजिरे - रराजिरे ६ । राजिषीष्ट ७ । एवं भ्राजिरपि । रञ्जीं रागे । अकविनोश्च रञ्जेः ॥ १९३ ॥ १९५ रञ्जरकटि घिनणि शवि चोपान्त्यनो लुक् स्यात् । रजति । अरजत् ४ । अरांक्षीत् अराङ्काम् अराङ्क्षुः ५ । ररञ्ज ररञ्जतुः ६ । रज्यात् ७। रङ्का ८ । रङ्क्ष्यति ९ । अरङ्क्ष्यत् १० । रजते ४ । अरत अरङ्गातां अरङ्गत ५ । ररखे । रङ्गीष्ट ७ । रङ्का८ । रक्ष्यते ९ । अरङ्क्ष्यत १० । इति महोपाध्यायश्रीकीर्त्तिविजयगणि शिष्योपाध्यायश्रीविनयविजयगणिविरचितायां हैमलघुप्रक्रियायां भ्वादयः समाप्ताः । अथ अदादयः ॥ अदं प्सां भक्षणे । कर्तर्यनद्भ्य इत्यत्रादादिवर्जनादेषां शवभावः । अत्ति अत्तः अदन्ति । अद्यात् । अत्तु-अत्तात् । For Personal & Private Use Only Page #204 -------------------------------------------------------------------------- ________________ हैमलघुप्रक्रियाव्याकरणे हुधुटो हेः ॥ १ ॥ .. होर्घुडन्ताच्च परस्य हेर्धिः स्यात् । अद्धि अत्तात् ३ । १९६ अदश्चाद् ॥ २ ॥ अत्तेरुत्पञ्चकाच्च दिस्योरादिरट् स्यात् । स्वरादेस्तास्विति वृद्धौ । आदत् आत्ताम् आदन् । आदः आत्तम् आत्त । आदम् आइ आद्म । घस्लुसनद्यतनी घञचलि ॥ ३ ॥ एषु पञ्चसु परेष्वदेर्घस्लृः स्यात् । लुदिद्युतादिपुष्यादेरित्यङ् । अघसत् अघसताम् अघसन् परोक्षायां नवा ॥ ४ ॥ अदेः परोक्षायां घस्लृ आदेशो वा स्यात् । जघास । द्वित्वे गमहनेत्यकारलोपे, अघोषे प्रथमोऽशिट इति घस्य कत्वे, घस्वस इति षत्वे । जक्षतुः जक्षुः । ऋवृव्येऽद इट् । जघसिथ जक्षथुः जक्ष । जघास- जघस जक्षिव जक्षिम । पक्षे । अस्यादेराः परोक्षायाम् ॥ ५ ॥ अस्यां द्वित्वे पूर्वस्यादेरतः आः स्यात् । आद. आदतुः आदुः । आदिथ ६ | अद्यात् ७ । अत्ता ८४ अत्स्यति ९ । आत्स्यत् १० । सांति प्सातः सान्ति १ । प्सायात् २ । प्सातु प्सातात् ३ । अप्सात् अप्साताम् । For Personal & Private Use Only Page #205 -------------------------------------------------------------------------- ________________ अदादयः परस्मैपदिनः। १९७ वा द्विषातोऽनः पुस् ॥ ६॥ द्विष आदन्ताच्च परस्य शितोऽनः पुस् वा स्यात् । अप्सुः-अप्सान् ४ । अप्सासीत् अप्सासिष्टाम् अप्सासिषुः ५। पप्सौ पप्सतुः पप्सुः ६ । प्सायात्-प्सेयात् ७ । साता ८॥प्सास्यति ९ ।अप्सास्यत् १०। एवं भांक् दीप्तौ । भाति ४। अभासीत् ५ । बभौ बभाथ-वभिथ ६ । यांक प्रापणे । याति ४ । अयासीत् ५। ययौ ६ । ष्णांक् शौचे । स्नाति ४। अस्त्रासीत् ५। सत्रौ ६ । श्रांक पाके । श्राति ४ । अश्रासीत् ५। शश्री ६ । द्रांक् कुत्सितगतौ । द्राति । नियोगे निद्राति ४ । न्यद्रासीत् ५। निदद्रौ ६ । प्रांक पूरणे । प्राति ४ । अप्रासीत् ५ । पनौ ६ । प्रेयात्-प्रायात् ७ । प्राता ८ । प्रास्यति ९। अप्रास्यत् १० । वाक् गतिगन्धनयोः। ख्यांक प्रकथने । पांक रक्षणे । लांक आदाने । रांक् दाने इत्यादयो भातिवत् ।मांक माने। दांवक् लवने एतावपि तथैव । किन्त्वाशिषि गामापास्थेति मेयात् , दायात् । इंणक् गतौ । एति । अविच्छितो डिन्त्वाद् गुणाभावे इतः। . ह्विणोरप्विति व्यौ ॥७॥ होरिणश्च नामिनः स्वरादावपित्यविति यथासङ्ख्यं व्यौ स्याताम् । यन्ति । एषि इथः इथ । For Personal & Private Use Only Page #206 -------------------------------------------------------------------------- ________________ १९८ हैमलघुप्रक्रियाव्याकरणे एमि इवः इमः १ । इयात् इयाताम् इयुः २ । एतु - इतात् इताम् यन्तु । इहि - इतात् इतम् इत । अयानि अयाव अयाम ३ । त्यस्तैर्वृद्धिः ॥ ८ ॥ इणिकोरस्तेश्चादेः स्वरस्य ह्यस्तन्यां वृद्धिः स्यात् । अमाङाग्रस्वाल्लुगपवादोऽयम् । ऐत् ऐताम् आयन् । ऐः ऐतम् ऐत | आयम् ऐव ऐम ४ । पिबैतिदेति सिज्लोपे । 1 इणिकोर्गाः ॥ ९ ॥ इणिकोरद्यतन्यां विषये गाः स्यात् । अगात् अगाताम् अगुः ५ । द्वित्वे द्वितीयस्य वृद्धावायादेशे । पूर्वस्यास्खे खरे वोरियुक् ॥ १० ॥ द्वित्वे सति यः पूर्वस्तत्सम्बन्धिनोरि वर्णोवर्णयोरस्वे स्वरे इयुवौ स्याताम् । इयाय । इणः ॥ ११ ॥ अस्य स्वरादौ प्रत्यये इयू स्यात् । दीर्घे । ईयतुः ईयुः । वेटि द्वितीयस्य गुणेऽयादेशे इयादेशे च इययिथ-इयेथ ईयथु: ईय । इयाय - इयय ईयिव ईमि ६ । दीर्घीति दीर्घे । ईयात् ईयास्ताम् ईषासुः ७ । एता ८ । एष्यति ९ । ऐष्यत् १० । For Personal & Private Use Only Page #207 -------------------------------------------------------------------------- ________________ अदादयः परस्मैपदिनः। १९९. आशिषीणः ॥ १२॥ उपसर्गात्परस्येण ईतः किति यादावाशिषि ह्रस्वः स्यात् । उदियात् । शेषं प्राग्वत् । इंक् स्मरणे । अधिपूर्व एवायम् । अध्येति अधीतः। इको वा ॥ १३॥ 'इकः स्वरादावविति शिति वा स्यात् । अधियन्ति-अधीयन्ति १ । षमिणवत् । आशिषि हस्वाभावो विशेषः । अधीयात् अधीयास्ताम् १०॥ वींक् प्रजनकान्त्यसनखादनेषु । वेति वीतः वियन्ति १। वीयात् २। वेतु-वीतात् वीहि ३ । अवेत् अवीताम् अवियन ४ । अवैषीत् अवैष्टाम् ५। विवाय विव्यतुः ६।वीयात् ७ । वेता ८ । वेष्यति ९ । अवेष्यत् १० । धुंक् प्रसवैश्वर्ययोः । प्रसवोऽभ्यनुज्ञानम् । उत और्विति व्यञ्जनेऽद्वेः॥ १४ ॥ - अद्युक्तस्योदन्तधातोर्व्यञ्जनादौ विति औः स्यात् । सौति सुतः सुवन्ति १ । सूयात् २ । सौतु-सुतात् ३ । असौत् । धूग्सुस्तोः परस्मै ॥१५॥ एभ्यः परस्मैपदे सिच आदेरिट् स्यात् । सु इति सुमात्रग्रहणम् । असावीत् असाविष्टाम् । सुनोतेरेव ग्रहणमिति पक्षे । असौषीत् असौष्टाम् ५। For Personal & Private Use Only Page #208 -------------------------------------------------------------------------- ________________ २०० हैमलघुप्रक्रियाव्याकरणे · I सुषाव ६ । सूयात् ७ । सोता ८ । सोष्यति ९ । असोष्यत् १० । तुंकु हिंसावृत्तिपूरणेषु । यङ्तुरुस्तोर्बहुलम् ॥ १६ ॥ यङ्लुबन्तात्तुरुस्तुभ्यश्च परो व्यञ्जनादौ विति ईत् बहुलं परादिः स्यात् । तवीति-तौति तुतः तुवन्ति १ । तुयात् २ । तौतु तवीतु तुतात् ३ । अतौत् ४ । केचित्तु सर्वत्र व्यञ्जनादौ शितीतमिच्छन्ति । तुतः तुवीतः सुयात् - तुवीयात् ४ । अतौषीत् ५ । तुताव ६ । तूयात् ७ । तोता ८ । तोष्यति ९ । अतोष्यत् १० । टुक्षु रु कुंकु शब्दे | टुकार इत् । रौति-रवीति ४ । अरावीत् ५ । क्षुकु सौतिवत्, किन्तु क्षोः सेट्त्वात् अक्षावीत् ५ । युक् मिश्रणे । णुकू स्तुतौ इत्यादयोऽपि सौतिवत् । रुदृक् अश्रुविमोचने । रुत्पञ्चकाच्छिदयः ॥ १७ ॥ रुदादेः पञ्चतः परस्य व्यञ्जनादेः शितोऽयादेरादिरिद्र स्यात् । रोदिति रुदितः रुदन्ति १ । रुद्यात् २ । रोदितु - रुदितात् रुदन्तु । रुदिहिरुदितात् रुदितम् रुदित । रोदानि रोदाव रोदाम ३ । } दिस्योरीट् ॥ १८ ॥ रुत्पञ्चकाच्छितो दिस्योरादिरीट् स्यात् । अरोदीत् । अदश्चाडित्यडागमे च, अरोदत् अरुदिताम् For Personal & Private Use Only Page #209 -------------------------------------------------------------------------- ________________ अदादयः परस्मैपदिनः। २०१ अरुदन् । अरोदीः-अरोदः अरुदितम् अरुदित । अरोदम् अरुदिव अरुदिम ४ । अस्य सेट्रवादद्यतन्याम् , अरोदीत् । पक्षे ऋदिच्छीत्यडि, अरुदत् अरुदताम् अरोदिष्टाम् अरोदिषुः-अरुदन ५ । रुरोद रुरुदतुः रुरुदुः ६ । रुद्यात् ७ । रोदिता ८। रोदिष्यति ९ । अरोदिष्यत् १० । भिष्वपंक् शये। स्वपिति १ । स्वप्यात् २ । स्वपितु. ३ । अस्वपीत् अस्वपत् ४। अस्वाप्सीत् अस्वाप्ताम् अस्वाप्सुः ५। द्वित्वे भूस्त्रपोरिति पूर्वस्योत्वे, सुष्वाप ६। - खपेर्यक्रे च ॥ १९ ॥ स्वपेर्यडि डे किति च सस्वरान्तस्था य्वृत्स्यात् । ततो द्वित्वे,सुषुपतुः सुषुपुः । सुष्वपिथ-सुष्वप्थ ६। सुप्यात् ७ । स्वप्ता ८ । स्वप्स्यति ९ । अस्वप्स्यत् १० । अन श्वसक् प्राणने प्रपूर्वः । अदुरुपसर्गेति णत्वे द्वित्वेऽप्यन्तेऽप्यनितेः परेस्तु वा इति णत्वे । प्राणिति १। प्राण्यात् २। प्राणितु ३ । प्राणीत् प्राणत् ४ । प्राणीत् प्राणिष्टाम् ५ । प्राण प्राणतुः ६ । प्राण्यात् ७ । प्राणिता ८ । प्राणिप्यति ९ । प्राणिष्यत् १० । श्वसिति१ । श्वस्यात् २। श्वसितु ३.। अश्वसीत्-अश्वसत् ४। व्यञ्जनादेोपान्त्यस्येति वृद्धिविकल्पे, अश्वासीत्-अश्वसीत् ५। शश्वास शश्वसतुः ६ । श्वस्यात् ७॥श्वसिता। For Personal & Private Use Only Page #210 -------------------------------------------------------------------------- ________________ २०२ हैमलघुप्रक्रियाव्याकरणे श्वसिष्यति ९ । अश्वसिष्यत् १० । जक्षक् भक्षहसनयोः । जक्षिति जक्षितः । अन्तो नो लुक् ॥ २० ॥ युक्तजक्षपश्ञ्चकात्परस्यान्तो नो लुक्स्यात् । जक्षति १ । जक्ष्यात् २ | जक्षितु ३ । अजक्षीत् अजक्षिताम् । द्युक्तजक्षपञ्चतः ॥ २१ ॥ कृतद्वित्वाज्जक्षपञ्चकाच्च परस्य शितोऽनः पुस् स्यात् । अजक्षुः ४ । अजक्षीत् ५ । जजक्ष ६ । जक्ष्यात् ७ । जक्षिता ८ । जक्षिष्यति ९ । अजक्षिष्यत् १० । इति रुत्पञ्चकम् । दरिद्राक् दुर्गतौ । दरिद्राति । इर्दरिद्रः ॥ २२ ॥ दरिद्रो व्यञ्जनादौ शित्यवित्यात इः स्यात् । दरिद्रितः । नश्चातः ॥ २३ ॥ युक्तजक्षपश्चतः श्नश्च शित्यवित्यातो लुक् स्यात् । दरिद्रति दरिद्रासि १ । दरिद्रियात् २ | दरिद्रातु दरिद्रतात् दरिद्रिहि ३ । अदरिद्रात् अदरिद्रिताम् दरिद्रः ४ । For Personal & Private Use Only Page #211 -------------------------------------------------------------------------- ________________ अदादयः परस्मैपदिनः। २०३ दरिद्रोऽद्यतन्यां वा ॥२४॥ दरिद्रोऽद्यतन्यां विषये लुगू वा स्यात् । अदरिद्रीत् अदरिद्रिष्टाम् अदरिद्रिषुः । अदरिद्रासीत् अदरिद्रासिष्टाम् अदरिद्रासिषुः। - धातोरनेकखरादाम् परोक्षायाः। कृभ्वस्ति चानु तदन्तम् ॥ २५॥ अनेकस्वराद्धातोः परस्याः परोक्षायाः स्थाने आम् स्यात् । आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते । दरिद्रांचकार ददरिद्रौ ६ । अशित्यस्सन्णकच्णकानटि ॥२६॥ सादिसन्नादिवर्जे अशिति विषये लुक् स्यात् । दरिद्यात् ७ । दरिद्रिता ८ । दरिद्रिष्यति ९ । अदरिद्रिष्यत् १० । जागृक् निद्राक्षये । जागर्ति जागृतः जाग्रति । जागर्षि १ । जागृयात् २ । जागर्तु-जागृतात् जागृताम् जाग्रतु । जागृहिजागृतात् ३ । नामिनो गुणोऽकितीति गुणे। व्यञ्जनादेः सश्च दः॥२७॥ धातोर्व्यञ्जनात्परस्य दे क् यथासंभवं धातुसकारस्य च दः स्यात् । अजागः अजागृताम् । ... पुस्पौ ॥ २८॥ नाम्यन्तस्य धातोः पुसि पौ च गुणः स्यात् । अजागरुः। For Personal & Private Use Only Page #212 -------------------------------------------------------------------------- ________________ हैमलघुप्रक्रियाव्याकरणे सेः रुद्धां च रुर्वा ॥ २९ ॥ धातोर्व्यञ्जनात्परस्य सेर्लुक सकारदकारधकाराणां च यथासंभवं रुव । अजागः अजागृतम् अजागृत । अजागरम् ४ । न श्विजागृशसेति वृद्ध्यभावे, अजागरीत् अजागरिष्टाम् अजागरिषुः ५ । जाग्रुषसमिन्धेर्नवा ॥ ३० ॥ २०४ एभ्यः परोक्षाया आम् वा स्यात् । जागराञ्चकार ३ । पक्षे । आद्यश एकस्वरः ॥ ३१ ॥ अनेकस्वरस्य धातोराद्य एकस्वरोऽवयवः परोक्षाङे परे द्विः स्यात् । ( जागुर्जिणवि वृद्धिः स्यात् * ) नामिनोऽकलिहलेरिति सिद्धे नियमार्थमिदम् । तेनान्यत्र णिति वृद्धिर्न स्यात् । जजागार । अवित्परोक्षायाः कित्त्वे ( जागुः किति गुणः स्यात् * ) जजागरतुः जजागरुः । अनेकस्वरत्वात् ऋत इतीडूनिषेधाभावे जजागरिथ जजागरथुः जजागर | जजागार - जजागर जजागरिव जजागरिम ६ । जागर्यात् ७ । जागरिता ८ । जागरिव्यति ९ । अजागरिष्यत् १० । चकासृ दीप्तौ । ऋकार इत् । चकास्ति चकास्तः चकासति १ । चकास्यात् २ । चकास्तु (हेधिः सोधि वा लुक् ) चकाधि चकाद्धि ३ | अंचकात् अचकास्ताम् अ 1 For Personal & Private Use Only Page #213 -------------------------------------------------------------------------- ________________ अदादयः परस्मैपदिनः। २०५ चकासुः । अचकाः-अचकात् ४ । अचकासीत् अ. चकासिष्टाम् अचकासिषुः । ऋदित्त्वादङगमे अचकासत् ५। चकासांचकार ६। चकास्यातू ।। चकासिता ८। चकासिष्यति ९। अचकासिष्यत् १० । शासूक् अनुशिष्टौ । शास्ति। इसासः शासोऽब्यञ्जने ॥३२॥ शास्तेरंशस्यासोऽडि किति व्यञ्जनादौ च परे इस स्यात् । शिष्टः शासति । शास्सि शिष्टः शिष्ट । शास्मि शिष्वः शिष्मः १ । शिष्यात् २ । शास्तुशिष्टात् शिष्टाम् शासतु । शासऽस्हनः शाध्येधिजहि ॥३३॥ एषां त्रयाणां यन्तानां यथासङ्ख्यं शाध्येधिजहयः स्युः । शाधि-शिष्टात् . शिष्टम् शिष्ट । शा. सानि शासाव शासाम ३। अंशात् अशिष्टाम् अ. शासुः। अशा:-अशात् अशिष्टम् अशिष्ट । अशासम् अशिष्व अशिष्म ४। शास्त्यसूवक्तिख्यातेरङ् ॥ ३४ ॥ एभ्यश्चतुर्योऽद्यतन्यामड् स्यात् । अशिषत् अशिषताम् अशिषन् ५। शशास शशासतुः ६॥ शिष्यात् । शास्ता ८। शासिष्यति ९ । अशासिष्यत् १० । वचं भाषणे । वक्ति वक्तः । अ-, व्या. १८ .. For Personal & Private Use Only Page #214 -------------------------------------------------------------------------- ________________ ૨૦૬ हैम लघुप्रक्रिया व्याकरणे न्तिपरस्य वचेः प्रायोsप्रयोगः । वक्षि वक्थः वक्थ । वैच्मि वच्चः वच्मः १ 1 वच्यात् २ | वक्तु वक्तात् वक्ताम् वचन्तु । वग्धि ३ | अवकू - अवग् अवकाम् अवचन् । अवक्- अवग् अवक्तम् अवक्त । अवचम् अवच्च अवच्म ४ । शास्त्य सूवतीत्यङि, श्वयत्यसूवचेति वोचादेशे, अवोचत् अवोचताम् अवोचन् ५ । द्वित्वानन्तरं यजादिवशवच इति य्वृति, उवाच । यजादिवचेरिति वृति द्वित्वे, ऊचतुः ऊचुः । उवचिथ उवक्थ ६ । उच्यात् ७ । वक्ता ८ । वक्ष्यति ९ । अवक्ष्यत् १० । मृजौक् शुद्धौ । लघोरुपान्त्यस्येति गुणे । मृजोऽस्य वृद्धिः ॥ ३५ ॥ मृजेर्गुणे सत्यकारस्य वृद्धिः स्यात् । यजसृजेति पत्वे, मार्ष्टि मृष्टः । ऋतः स्वरे वा ॥ ३६ ॥ 1 मृजेर्ऋतः स्वरादौ प्रत्यये वृद्धिर्वा स्यात् । मार्जन्ति - मृजन्ति । षढोः कः सीति कत्वे, मार्क्षि मृष्टः मृष्ट । माज्मि मृज्वः मृज्मः १ । मृज्यात् २ । मार्छु- मृष्टात् मृष्टाम् मृजन्तु - मार्जन्तु । हुधुटो हेर्धिरिति, मृहि-मृष्टात् मृष्टम् मृष्ट । मार्जानि मार्जाव मार्जाम ३ । अमा-अमाई अमृष्टाम् अमृजन् - अमार्जन् । अमा-अमाई अमृष्टम् अमृष्ट । For Personal & Private Use Only Page #215 -------------------------------------------------------------------------- ________________ अदादयः परस्मैपदिनः । अमार्जम् अमृज्व अमृज्म ४ । औदित्वादिड्डिकल्पे, अमाजत्-अमाक्षत् ५ । ममार्ज ममार्जतुः-ममृजतुः ममार्जुः -ममृजुः । ममार्जिथ ६ । मृज्यात् ७ । मार्जिता मा ८ । मार्जिष्यति - मार्क्ष्यति १९ । अ मार्जिष्यत् - अमार्क्ष्यत् १० | विदक् ज्ञाने । वेत्ति वित्तः विदन्ति । वेत्सि वित्थः वित्थ । वेद्मि विद्वः विद्मः । तिवां णवः परस्मै ॥ ३७ ॥ वेत्तेः परेषां तिवादीनां परस्मैपदान्येव णवादयो नव यथासङ्ख्यं वा स्युः । वेद विदतुः विदुः । वेत्थ विदथुः विद । वेद विद्वं विद्म १ | विद्यात् विद्याताम् विद्युः २ । २०७ पञ्चम्याः कृग् ॥ ३८ ॥ वेत्तेः परस्याः पञ्चम्याः किवाम् वा स्यात्, आमन्ताच्च पञ्चम्यन्तः कृगनुप्रयुज्यते । विदांकरोतु । पक्षे वेत्तु - वित्तात् वित्ताम् विदन्तु । हुधुटो हेर्धिरिति विद्धि-वित्तात् वित्तम् वित्त । वेदानि वेदाव वेदाम ३ । व्यञ्जनाद्देरिति दिवूलुपि, अवेत् अवित्ताम् । सिज्विदो भुव इत्युसि, अविदुः । सेः सद्धां च रुव इति सेलुपि, दस्य रुत्वे । अबेः अवित्तम् अवित्त | अवेदम् अविद्व अविद्म ४ । अवेदीत् अवेदिष्टाम् अवेदिषुः ५ । For Personal & Private Use Only Page #216 -------------------------------------------------------------------------- ________________ २०८ हैमलघुप्रक्रियाव्याकरणे . वेत्तेः कित् ॥ ३९॥ - वेत्तेः परस्याः परोक्षाया आम्वा स्यात् , स च कित् । विदाञ्चकार ३ । पक्षे विवेद विविदतुः विविदुः । विवेदिय ६ । विद्यात् विद्यास्ताम् विद्यासुः ७ । वेदिता ८ । वेदिष्यति ९ । अवेदिष्यत् १० । हनंक हिंसागत्योः । हन्ति । नेडमादेति णत्वे, प्रणिहन्ति । यमिरमीति नलुपि, हतः। गमहनेत्युपान्त्यलुपि, हंनो हुनो न इति नादेशे, घ्नन्ति । हनो घीति णत्वप्रतिषेधे, प्रघ्नन्ति । हंसि हथः हथ । हन्मि हुन्वः हन्मः। हनो वमि वा ॥ ४०॥ अदुरुपसर्गान्तस्थाद्रादेः परस्य हन्ते! ण स्यात्, मोः परयोस्तु वा । प्रहण्मि-प्रहन्मि प्रहण्वः-प्रहन्वः १। हन्यातू-अहण्यात् २ । हन्तु-हतात हताम् घ्नन्तु । शासाऽसू हन इति, जहि-हतात् हतम् हत । हनानि हनाव हनाम ३ । अहन् अहताम् अनन् । अहन् अहतम् अहत । अहनम् अहन्व अहन्म ४। अद्यतन्यां वा त्वात्मने ॥ ४१॥ अद्यतन्यां विषये हनो वधः स्यात् , आत्मनेपदे तु वा । इट ईतीति सिजलोपे। For Personal & Private Use Only Page #217 -------------------------------------------------------------------------- ________________ अदादयः परस्मैपदिनः । अतः ॥ ४२ ॥ अदन्ताद्धातोर्विहितेऽशिति प्रत्यये धातोर्लुक् स्यात् इत्यकारलुपि । अवधीत् अवधिष्टाम् अवधिषुः ५ । ञिणवि घन् ॥ ४३ ॥ औणवि च परे हन्तेर्धन् स्यात् । ततो द्वित्वे, द्वितीयतुर्ययोरिति घस्य गत्वे, गहोर्ज इति तस्य जत्वे, वृद्धौ च जघान । हनो द्वित्वे गमहनेत्युपान्त्यपि । अडे हिनो हो घः पूर्वात् ॥ ४४ ॥ हिनोर्डवर्जे प्रत्यये परे द्वित्वे सति पूर्वस्मात्परस्य हों घः स्यात् । जघ्नतुः जघ्नुः । जघनिथजघन्थ जघ्नथुः जघ्न । जघान - जघन जघ्निव जनिम ६ । हनो वध आशिष्यञ ॥ ४५ ॥ २०९ आशीर्विषये हन्तेर्वधः स्यात्, न तु ञिटि । वध्यात् वध्यास्ताम् वध्यासुः ७ । हन्ता ८ । हनृतः स्यस्येतीडागमे, हनिष्यति ९ । अहनिष्यत् १० । वशक् कान्तौ । यजसृजेति षत्वे, तवर्गस्य श्चवर्गेति टत्वे, वष्टि । वंशेरयङि ॥ ४६ ॥ वशेः सस्वरान्तस्था अयङि ङ्कति वृत्स्यात् । - For Personal & Private Use Only Page #218 -------------------------------------------------------------------------- ________________ २१० हैमलघुप्रक्रियाव्याकरणे उष्टः उशन्ति । वक्षि उष्ठः उष्ठ । वश्मि उश्वः उश्मः १ । उश्यात् २। वष्टु-उष्टात् उष्टाम् उशन्तु I उडि-उष्टात् उष्टम् उष्ट । वशानि वशाव वशाम ३ । अवटू-डू वृति स्वरादेस्तास्विति वृद्धौ, औष्टाम् औशन् । अवटू-डू औष्टम् । औश्व औरम ४ । व्यञ्जनादेवपान्त्यस्यात इति वृद्धिविकल्पे, अवाशीत्-अवशीत् अवाशिष्टाम्-अवशिष्टाम् ५। द्वित्वे यजादि वश इति वृति, वृद्धौ उवाश । वशेरयङि इति वृति द्वित्वे च ऊशतुः ऊशुः । उवशिथ ऊशथुः ऊश । उवाश-उवश ऊशिव ऊशिम ६ । उश्यात् उश्यास्ताम् ७ । वशिता ८ । वशिष्यति ९ । अवशिष्यत् १० । असक् भुवि । अस्ति । नास्त्योर्लुक् ॥ ४७ ॥ • श्नश्वास्तेश्चातः शित्यविति लुक् स्यात् । स्तः सन्ति । अस्तेः सिहस्त्वेति ॥ ४८ ॥ अस्तेः सस्य लुक् स्यात्सादौ प्रत्यये एति च सस्य हः स्यात् । असि स्थः स्थ । अस्मि स्वः स्मः १ ॥ स्यात् स्याताम् स्युः २ । अस्तु - स्तात् स्ताम् सन्तु । शासस् इति, एधि-स्तात् स्तम् स्त । असानि असाव असाम ३ । सः सिजस्तेरितीदागमे एत्यस्तेरिति वृद्धौ च आसीत् आस्ताम् आसन् । आसीः आस्तम् आस्त । आसम् आस्व आस्म ४ । For Personal & Private Use Only Page #219 -------------------------------------------------------------------------- ________________ अदादय आत्मनेपदिनः । अस्ति ब्रुवोर्भूवचावशिति ॥ ४९ ॥ अस्तिब्रुवोर्यथासङ्ख्यं भूवचौ स्याताम् अशिति विषये । अभूत् ५ । बभूव ६ । इत्यादि प्राग्वत् । प्रादुरुपसर्गाद्यखरेऽस्तेः ॥ ५० ॥ प्रादुः शब्दादुपसर्गस्थाच्च नाम्यन्तस्थाकवर्गात्परस्यास्तेः सकारस्य यादौ स्वरादौ च प्रत्यये षः स्यात् । प्रादुष्ण्यात् निष्यात् प्रादुष्यन्ति निषन्ति । शिडूनान्तरेऽपि । निःषन्ति । इति परस्मैपदिनः । २११ अदादय आत्मनेपदिनः । इक् अध्ययने । ङकार आत्मनेपदार्थः । अधिपूर्वश्चायम् । अधीते । धातोरिवर्णेतीयादेशे अधीयते अधीयते । अधीषे १ । अधीयीत अधीयीयाताम् २ | अधीताम् अधीयाताम् ३ । अध्यैत इयादेशे वृद्धौ च अध्येयाताम् अध्यैयत ४ । वाद्यतनीक्रियातिपत्त्योर्गीङ् ॥ ५१ ॥ अनयोः परयोरिङो गीङ् वा स्यात् । अध्यगीष्ट अध्यगीषाताम् अध्यगीषत । अध्यैष्ट अध्यै - षाताम् अध्यैषत ५ । For Personal & Private Use Only Page #220 -------------------------------------------------------------------------- ________________ २१२ हैमलघुप्रक्रियाव्याकरणे गाः परोक्षायाम् ॥ ५२॥ इङः परोक्षाविषये गाः स्यात् । अधिजगे ६। अध्येषीष्ट ७ । अध्येता ८ । अध्येष्यते ९ । अध्यगीष्यत अध्यैष्यत १० । शी स्वप्ने । (शीड ए: शिति* ) शेते शयाते। शीडोरत् ॥ ५३ ॥ शीङः परस्याऽऽत्मनेपदस्थस्याऽन्तोरत् स्यात् । शेरते १ । शयीत २ । शेताम् शयताम् शेरताम् ३ । अशेत ४ । अशयिष्ट ५ । शिश्ये ६ । शयिषीष्ट ७ । शयिता ८ । शयिष्यते ९ । अशयिष्यत १० । षूडौक् प्राणिगर्भविमोचने । सूते १। धातोरिवर्णोवर्णस्येति उवादेशे सुवीत २। सूताम् वि. च्छितोऽकुित्त्वाद्गुणे प्राप्ते (सूतेः पञ्चम्यां गुणो न स्यात् ) सुवै ३ । असूत ४ । औदित्त्वादिविकल्पः । असविष्ट असविषाताम् असविषत । अ. सोष्ट असोषाताम् असोषुः ५। सुषुवे सुषुविषे ६। सोषीष्ट-सविषीष्ट ७ । सोता-सविता ८ । सोप्यते -सविष्यते ९। असोष्यत-असविष्यत १०॥ इत्यादि। ईडिक् स्तुतौ । ईट्टे ईडाते ईडते। ईशीडः सेवेखध्वमोः॥ ५४ ॥ आभ्यामेष्विट् स्यात् । ईडिषे ईडाथे ईडिध्वे । ईडे ईड्वहे ईड्महे १ । ईडीत २ । ईट्टाम् ३ । For Personal & Private Use Only Page #221 -------------------------------------------------------------------------- ________________ २१३ 1 अदादय आत्मनेपदिनः । ऐट्ट ४ । ऐडिष्ट ५ । गुरुनाम्यादेरित्यामि ईडांचक्रे ६ । ईडिषीष्ट ७ । ईडिता ८ । ईडिष्यते ९ । ऐडिष्यत १० । ईरिक् गतिकम्पनयोः । इर्त्ते १ । ईरीत २ । ईर्त्ताम् ईर्ष्या ईर्ध्वम् ३ | ऐर्त्त ४ । ऐरिष्ट ५ । ईराञ्चक्रे ६ । ईरिषीष्ट ७ । ईरिता ८ | ईरिष्यते ९ । ऐरिष्यत १० । ईशिकू ऐश्वर्ये । ईष्टे ईशिषे ईशिध्वे १ । ईशीत २ । ईष्टाम् ३ । पेष्ट ४ । ऐशिष्ट ५ । ईशांच ६ । ईशिषीष्ट ७ । ईशिता ८ । ईशिष्यते ९ । ऐशिष्यत १० । वसिक् आच्छादने । वस्ते १ । वसीत २ । वस्ताम् ३ । अवस्त ४ । अवसिष्ट ५ । ववसे ६ । वसिषीष्ट ७ । वसिता ८ । वसिष्यते ९ । अवसिष्यत १० । आङः शासूकि इच्छायाम् । आशास्ते १० । आङ्पूर्वत्वं प्रायिकं तेन प्रशास्महे इत्यपि सिद्धम् | आसिक् उपवेशने । आस्ते १ । आसीत २ । आस्ताम् ३ । आस्त ४ । आसिष्ट ५ । दयायास्कासः । आसांचक्रे ६ | आसिषीष्ट ७ । आसिता ८ । आसिष्यते ९ । आसिष्यत १० । णिसुकि चुम्बने । उदितः स्वरादिति नुमागमे, निंस्ते १० | चक्षिक व्यक्तायां वाचि । संयोगस्येति कुलपि, आचष्टे आचक्षाते आचक्षते । आचक्षे आचक्षाथे आचड्ढे १ । आचक्षीत २ । आचष्टाम् ३ । आचष्ट आचक्षाताम् आचक्षत ४ । For Personal & Private Use Only Page #222 -------------------------------------------------------------------------- ________________ २१४ हैमलघुप्रक्रिया व्याकरणे चक्षो वाचि क्शांख्यांग् ॥ ५५ ॥ चक्षो वागर्थस्याशिति विषये कुशांगख्यांगौ स्यातां परोक्षायां नवा । अनुस्वार इइनिषेधार्थः । गकार उभयपदार्थः । आक्शासीत् आक्शासि - ष्टाम् आक्शासिषुः । जिघ्रतिवत् । आक्शास्त आक्शासाताम् आक्शासत । शास्त्यसूवक्तीत्यङि, आख्यत् आख्यम् ५ । परोक्षायां द्वित्वे व्यञ्जनस्थानादेरिति शूलपि, हस्बे कवञिति चत्वे आचक्शौ - आचकुशे । द्वितीयतुर्ययोरिति खस्य चत्वे च आचख्यौ - आचख्ये । पक्षे आचचक्षे । आक्शायात्- आक्शेयात् ६ । आक्शासीष्ट ७ । आक्शाता २ । ८ । आक्शास्यति - आक्शास्यते ९ । आक्शास्यत् १० । आख्यायात् - आख्येयात् आख्यासीष्ट ७ । आख्याता ८ । आख्यास्यति - आख्यास्यते ९ । आख्यास्यत् १० । इत्यदादिष्वात्मनेपदिनः । अदादिषू भयपदिनः । ऊर्णुगक आच्छादने । वोर्णोः ॥ ५६ ॥ ऊर्णोरद्वयुक्तस्य व्यञ्जनादौ वित्योर्वा स्यात् । ऊर्णोति - ऊर्णोति ऊर्णुतः ऊर्णुवन्ति । ऊर्णौषिकर्णोषि १ । ऊर्णुयात् २ । ऊर्णोतु ऊर्णोतु ३ । For Personal & Private Use Only Page #223 -------------------------------------------------------------------------- ________________ अदाय उभयपदिनः। २१५ न दिस्योः ॥ ५७॥ ऊर्णोतेर्दिस्योः परयोरौर्न स्यात् । और्णोत्और्गुवन् और्णोः ४। वोर्तुगः सेटि ॥ ५८॥ ऊर्णोतेः सेटि सिचि परस्मैपदे वृद्धिर्वा स्यात् । वोर्णोः ॥ ५९॥ ऊर्णोतेरिडू वा डिद्वत्स्यात् । और्णावीत् और्णवीत्-औMवीत् और्णाविष्टाम् और्णविष्टाम्- औऐविष्टाम् ५। __ स्वरादोर्द्वितीयः ॥ ६०॥ स्वरादेर्धातोद्धितीयोंश एकस्वरों द्विः स्यात् । ___अयि रः॥ ६१॥ स्वरादेर्धातोद्धितीयस्यांशस्सैकस्वरस्य संयोगादिरो द्विर्न स्यात्तुरादनन्तरेऽयि । णत्वस्यासत्त्वान्नो द्विर्भावः । गुरुनाम्यादेरित्यत्रोणुवर्जनासरोक्षाया आमभावः । ऊर्णनाव ऊर्जुनुवतुः ऊर्णनुवुः । ऊर्णनविथ ऊर्णनुविथ ६ । ऊर्णयात् ७ । ऊर्णविता-ऊर्णविता ८ । ऊर्णविष्यति-ऊर्णविष्यति ९। औMविष्यत्-और्णविष्यत् १० । ऊर्णते अणुवाते ऊर्णवतें १। औMविष्टं-और्णविष्ट ९ ।ष्टुंग्क् स्तुतौ । उत और्वितीत्यौत्वे, स्तौति । यतुरुस्तो For Personal & Private Use Only Page #224 -------------------------------------------------------------------------- ________________ २१६ हैमलघुप्रक्रियाव्याकरणे रितीदागमे, स्तवीति स्तुतः स्तुवन्ति १ । स्तुयात् २। स्तोतु-स्तवीतु-स्तुतात् ३ । अस्तौत् अस्तवीत् । स्तुस्खाश्चाटि नवा ॥६॥ • परिनिवेः परस्य स्तुस्वञ्जोरसोसिसहस्सटां च सोऽटि सति ष्वा स्यात् । पर्यष्टोत्-पर्यस्तौत् एवं न्यष्टौत्, व्यष्टौत् ४। धुम्सुस्तोरितीटि, अस्तावीत् अस्ताविष्टाम् अस्ताविषुः ५। तुष्टाव । स्क्रसृत्रित्यादिसूत्रे स्तुवर्जनान्नेट् । तुष्टोथ तुष्टुवथुः तुष्टुव । तुष्टाव-तुष्टव तुष्टुव तुष्टुम ६ । स्तूयात् ७॥ स्तोता ८ । स्तोष्यति ९ । अस्तोष्यत् १० । स्तुते १। स्तुवीत २ । स्तुताम् ३ । अस्तुत ४ । अस्तोष्ट अस्तोड्वम् ५ । तुष्टुवे तुष्टुट्वे ६ । स्तोषीष्ट ७ । स्तोता ८ । स्तोष्यते ९ । अस्तोष्यत १० । बूंग्क् व्यक्तायां वाचि। . ... ब्रूतः परादिः॥ ६३ ॥ ब्रुव उतः परो व्यञ्जनादौ विति परादिरीत् स्यात् । ब्रवीति ब्रूतः ब्रुवन्ति । - ब्रूगः पञ्चानां पञ्चाहश्च ॥ ६४ ॥ 'गः परेषां तिवादीनां पञ्चानां यथासङ्ख्यं पञ्च णवादयो वा स्युः तद्योगे बेग आहश्च । आह आहतुः आहुः। . For Personal & Private Use Only Page #225 -------------------------------------------------------------------------- ________________ अदादय उभयपदिनः । नहाहोर्धौ ॥ ६५ ॥ नहेर्ब्रस्थानाहश्च धातोर्होघुटि प्रत्यये पदान्ते च यथासङ्ख्यं धतौ स्याताम् । आत्थ आहथुः १ । ब्रूयात् २ । ब्रवीतु, अकित्त्वात् ब्रवाणि ३ । अत्रवीत् अब्रवम् ४ । अस्तिब्रुवोरिति वचादेशे, श्वयत्यसुवच इति वोचादेशे च अवोचत् ५ । उवाच ६ । ब्रूते बूत १। ब्रुव २ । तव जर । अभूत है। अवोचत ५ । ऊँचे ६ । वक्षीष्ट ७ । वक्ता ८ । वक्ष्यते ९ । अवक्ष्यत १० । द्विषक अप्रीतौ । द्वेष्टि १ । द्विष्यात् २ | द्वेष्टु द्विष्टात् द्विड्डि द्वेपाणि ३ | अद्वेट् । वा द्विषात इति पुसि, अद्विषुःअद्विषन् ४ । हशिटो नाम्युपान्त्यादिति सगागमे, अद्विक्षत् ५ । दिद्वेष ६ । द्विष्यात् ७ । द्वेष्टा ८ द्वेक्ष्यति ९ । अद्वेक्ष्यत् १० । द्विष्टे १ । द्विषीत २ । द्विष्टाम् द्वे ३ । अनि ४ । अद्विक्षत ५ ॥ अद्वि दिद्विषे ६ । द्विक्षीष्ट ७ । द्वेष्टा ८ | द्वेक्ष्यते ९ । अद्वेक्ष्यत १० । दुहींकू क्षरणे । भ्वादेर्दादेरिति etad, अश्चतुर्थादिति तस्य धत्वे, दोग्धि । ग २१५ दबादेरिति दस्य धत्वे, धोक्षि । थस्य धत्वे, दुग्धः दुग्ध । दोह्नि दुह्वः दुह्मः १ । दुह्यात् २ । दोग्धु । हेर्धित्वे, दुग्ध दोहानि ३ । अधोक अधोग ४ | अधुक्षत् ५ । दुदोह ६ । दुह्यात् ७ । दोग्धा ८ । धोक्ष्यति ९ । अधोक्ष्यत १० । दुग्धे १ । दुहीत व्यां. १९ For Personal & Private Use Only Page #226 -------------------------------------------------------------------------- ________________ २१८ . हैमलघुप्रक्रियाव्याकरणे . २। दुग्धाम् धुरध्वम् दोहै. ३ । अदुग्ध ४ । दुहलिहेति वा सक्लोपे, अदुग्ध अधुरंत अदुहृहि अधुक्षावहि ५ । दुदुहे ६ । धुक्षीष्ट ७ । दोग्धा ८। धोक्ष्यते ९ । अधोक्ष्यत १० । एवं दिहीक् लेपे देग्धीत्यादि । लिहीक् आस्वादने । लेढि । हस्य ढत्वे, तस्य धत्वे, धस्य ढत्वे, ढस्तड्ढे इति ढलोपे दीप्रै च लीड लिहन्ति । लेक्षि लीढः १ । लिह्यात् २ । लेढु-लीढात् लेहानि-३ । अलेट्- अलेहम् ४ । अलिक्षत् ५। लिलेह ६ । लिह्यात् । लेढा ८ । लेक्ष्यति ९ । अलेक्ष्यत् १० । लीढे लिक्षे लीद्वे १ । वा सकलोपे अलीढ-अलिक्षत अलिहहि-अलिक्षावहि ५ । इत्युभयपदिनोऽदादयः। इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविज... यगणिविरचितायां हैमलघुप्रक्रियायां अदादयः समाप्ताः ।.. अथ हादयः। हुंक् दानादनयोः। हवः शिति ॥१॥ हादयः शिति द्विः स्युः । जुहोति जुहुतः। अन्तो नो लुपिति नलोपे, हिणोरप्वितीति वत्वे, जुह्वति । जुहोषि १ । जुहुयात् २ । जुहोतु-जुहुतात् जुहुताम् जुह्वतु ३। हुधुटो हेधिः । जुहुधि For Personal & Private Use Only Page #227 -------------------------------------------------------------------------- ________________ . जुहोत्यादयः। ३ । अजुहोत् । झुक्तजक्षपञ्चत इत्यतः पुसि, अजुहवुः । अजुहोः अजुहवम् ४ । अहौषीत् अहौटाम् ५। भीहीभृहोस्तिव्वत् ॥ २॥ एभ्यश्चतुर्थ्यः परोक्षाया आम् वा स्यात् , स च तिव्वत् । जुहवाञ्चकार । पक्षे जुहाव जुहुवतुः जुहविथ जुहोथ ६ । हूयात् ७॥ होता ८ । होष्यति ९ । अहोष्यत् १० । ओहांक त्यागे । जहाति । ..... हाकः॥३॥ हाको व्यञ्जनादौ शित्यविति आत इर्वा स्यात्। जहितः । पक्षे। - एषामीर्व्यञ्जनेऽदः ॥ ४॥ एषामिति युक्तानां जक्षपश्चता भश्चातः शित्यविति व्यञ्जनादावीः स्यात्, दासंज्ञं वर्जयित्वा । जहीतः। श्रश्चात इत्यालुकि, जहति । जहांसि जहिथः-जहीथः जहिथ- जहीथ १। यि लुक् ॥५॥ यादौ शिति हाक आलुक् स्यात् । जह्यात् २। जहातु जहितात्-जहीतात् जहतुः । आ च हौ ॥६॥ For Personal & Private Use Only Page #228 -------------------------------------------------------------------------- ________________ २२० हैमलघुप्रक्रियाव्याकरणे ____ हाको हौ आ इश्च वा स्याताम् । जहाहि-जहिहि पक्षे जहीहि ३ । अजहात् अजहिताम्-अजहीताम् अजहुः ४ । अहासीत् ५। जहाँ जहतुः जहिथजहाथ ६ । गापास्थेत्येत्वे, हेयात् ७ । हाता ८। हास्यति ९ । अहास्यत् १० । जिभीक् भये । बिभेति १। भियो नवा ॥७॥ भियो व्यञ्जनादौ शित्यविति इर्वा स्यात् । बिभितः-बिभीतः बिभ्यति १ । बिभियात्-बिभीयात् २ । बिभेतु-बिभितात्-बिभीतात् ३। अबिभेत् अबिभिताम्-अबिभीताम् अबिभयुः४।अभैषीत् ५। भीहीत्यामि, बिभयाञ्चकार । पक्षे बिभाय बिभ्यतुः बिभयिथ-बिभेथ ६ । भीयात् ७ । भेता ८ । भेप्यति ९ । अभेष्यत् १० । ह्रींक् लजायाम् । जिहूति जिहीतः। संयोगादितीयादेशे, जिहियति । जिहीयात् २ । जिहेतु-जिहीतात् ३ । अजिहेत् अजिह्रीताम् अजिह्रयुः ४ । अद्वैषीत् ५। जिह्वयाञ्चकार जिह्राय ६ । हृीयात् ७ । हेता ८। हेष्यति ९ । अहेष्यत् १० । भृक् पालनपूरणयोः। पृभूमाहाङामिः ॥ ८॥ एषां पञ्चानां शिति द्वित्वे पूर्वस्य इः स्यात्ततो गुणे, पिपति पिपृतः पिप्रति १ । पिपृयात् २। For Personal & Private Use Only Page #229 -------------------------------------------------------------------------- ________________ जुहोत्यादयः। . २२१ पिपर्तु-पिपृतात् ३ । अपिपः अपिपृताम् अपिपरुः । अपिपः ४ । अपार्षीत् अपार्टीम् ५। पपार पप्रतुः पनुः ६ । प्रियात् ७ । पर्ता ८ । हनृत इतीडागमे, परिष्यति ९ । अपरिष्यत् १० । पृइति सेट् । दीर्घान्तोऽयमिति केचित्तत्र । ओष्ठ्यादुर् ॥९॥ धातोरोष्ठयासरस्य ऋतः कित्युर् स्यात् । भ्वादेर्नामिन इति दीपे, पिपूर्तः पिपुरति १ । पिपूर्यात् २। पिपर्तु-पिपूर्तात् ३ । अपिपः ४ । अपारीत् अपारिष्टाम् ५। पपार। ऋ शृदृप्रः॥ १०॥ एषां परोक्षायामृर्वा स्यात् । पप्रतुः पक्षे स्कृच्छ्रतोऽकि परोक्षायामिति गुणे, पपरतुः पा:-पपरुः । थवि स्क्रसृवितीटि, पपरिथ पपरिव ६ । पूर्यात् ७१ परिता-परीता ८ । परिष्यति-परीष्यति ९ । अपरिष्यत्-अपरीष्यत् १० । ऋक् गतौ । द्वित्वे तु पृभृ इति पूर्वस्य इत्वे, पूर्वस्याऽस्वे स्वरे वो. रियुवितीयादेशे, नामिन इति गुणे च इयर्ति इयतः इयूरति १ । इयूयात् २ । इयतु-इयतात् इयहि-इयृतात् इयराणि ३ । ऐयः ऐयताम् ऐयरुः। ऐयरम् ऐयव ४। For Personal & Private Use Only Page #230 -------------------------------------------------------------------------- ________________ २२२ हैमलघुप्रक्रियाव्याकरणे सवंर्तेर्वा ॥११॥ आभ्यामद्यतन्यामङ् वा स्यात् । स्वरादेरिति वृद्धौ, आरत् । पक्षे सिचि परस्मै इति वृद्धौ, आपीत् ५ । आर आरतुः । ऋवृव्येऽद इतीडागमे, आरिथ ६ । अर्यात् ७ । अर्ता ८ । अरिष्यति ९ । आरिष्यत् १० । षडेते परस्मैपदिनः । बहाव गतौ । एषामीरितीत्वे, जिहीते । नश्चे.. त्यालुकि ज़िहाते जिहते 'जिही ११ जिहीतः।। जिहीताम् ३ । अजिहीत अजिहत ४ । अहास्त ५। जहे ६ । हासीष्ट ७ । हाता ८। हास्यते ९ । अहास्यत. १० । माङ्क मानशब्दयोः । मिमीते मिमाते मिमते मिमीषे १ । मिमीत २ । मिमीताम् ३ । अमिमीत ४ । अमास्त ५ । ममे ६ । मासीष्ट ७॥ माता-यमायते । अमास्यत १०॥ द्वावामनैयदिनौ । डुदांग्क् दाने । दाधातुः शेषा इतः। द्वित्वे ह्रस्वे, ददाति । श्नश्चेत्यालुकि, दत्तः ददति । ददासि दत्थः दत्थ १ । दद्यात् २ । ददातु-दत्तात्। हौ. दः॥१२॥ . दासंज्ञस्य हौ परे एः स्यान्न च द्विः । देहिदत्तात् ३ । अददात्- अदत्ताम् अदतुः४ । अदात् अदाताम् अदुः ५ । ददौ द्रदिथ-ददाथ ६ । For Personal & Private Use Only Page #231 -------------------------------------------------------------------------- ________________ जुहोत्यादयः । २२३ देयात् ७ । दाता दास्यति ९ । अदास्यत् १० ॥ दत्ते ददाते ददते । दत्से १। ददीत २ । दत्ताम् ३। अदत्त ४ । इश्च स्थाद इतीत्वे, अदित अदिषाताम् अदिषत ५। ददे ६ । दासीष्ट ७। दाता. ८। दास्यते ९ । अदास्यत १० । डुधांग्क् धारणे च । द्वितीयतुर्ययोरिति दत्वे, दधाति। ... ... धागस्तथोश्च ।। १३ ॥ चतुर्थान्तस्य धाग आदेश्चतुर्थः स्यात्तथो स्वोश्च परयोः । धत्तः दधति । दधासि धत्थः धत्थ १ । दध्यात् २ । दधातु-धत्तात् दधतु ३ । अदधात् ४। अधात् ५। दधौ ६ । धेयात् ७ । धता ८ । धास्यति ९ । अधास्यत् १० । धत्ते दधाते दधते । धसे. दधाथे धध्वे १। दधीत २ । धत्ताम् ३। अधत्त ४ । अधित ५) दधे ६:। धासीष्ट ७ ॥ धाता ८। धास्यते ९ । अधास्थत १०। डु,रक । धारणपोषणयोः । पृभृ इंतीत्वे, बिभर्ति विभृतः बिभ्रति । बिभर्षि १। बिभृयात् २ । बिभर्तु ३॥ अबिभः अबिभरुः ४ । अभार्षीत् ५ । भीहीभृ इत्यामि, बिभरांबभूव । पक्षे बभार । स्क्रसृवृभृ इति सूत्रे भूवर्जनेनेनिषेधात्, बभर्थ बभूव ६। धियात् ७ । भर्ता ८ । भरिष्यति ९। अभरिष्यत् १० । विभृते बिभ्राते १ । विनीत २। बिभृताम् ३ । अविभृत ४ । अभृत अभृषाताम् For Personal & Private Use Only Page #232 -------------------------------------------------------------------------- ________________ २२४ । हैमलघुप्रक्रियाव्याकरणे . ५। बिभराञ्चक्रे बने ६ । भृषीष्ट ७ । भर्ता ८ । भरिष्यते ९ । अभरिष्यत १० । णिजॅकी शौचे । निजां शियेत् ॥ १४॥ निजिविजिविषां शिति द्वित्वे पूर्वस्य एत् स्यात्। नेनेति नेनिक्तः नेनिजति । नेनेक्षि १ । नेनिज्यातू २ । नेनेतुनेनिकात् नेनिग्धि। .. युक्तोपान्त्यस्य शिति खरे ॥१५॥ द्विरुक्तस्य धातोरुपान्त्यस्य नामिनः शिति स्वरादौ गुणो न । नेनिजानि ३ । अनेनेक्-ग् अनेनिजुः अनेनिजम् ४ । ऋदिछीत्यादिना वाडि, अनिजत् अनिजताम् । अनैक्षीत् अनैताम् अनैक्षुः ५ । निनेज ६ । निग्यात् ७ । नेता ८ । नेक्ष्यति ९ । अनेक्ष्यत् १० । नेनिक्के १। नेनिजीत २ । नेनिक्ताम् ३ । अनेनिक्त ४ । अनिक्त अनिक्षाताम् ५ । निनिजे ६ । निक्षीष्ट ७ । नेक्ता नेक्ष्यते ९ । अनेक्ष्यत १० । विजूंकी पृथग्भावे । वेवेक्ति १० इत्यादि निजिवत् । विकी व्याप्तौ । वेवेष्टि वेविष्टः १। वेविष्यात् २। वेवेष्टु-वेविष्टात् ३ । अवेवेद-इ ४ । लुदित्वादङ् अविषत् ५ । विवेष ६ । विष्यात् ७ । वेष्टा ८। वेक्ष्यति ९ । अवेक्ष्यत् १० । वेविष्टे १ । वेविषीत २। वेविष्टाम् ३ । अवेविष्ट ४ । हशिट इति सकि, For Personal & Private Use Only Page #233 -------------------------------------------------------------------------- ________________ दिवादयः। २२९ अविक्षत ५ । विविषे ६ । विक्षीष्ट ७ । वेष्टा ८ । वेक्ष्यते ९ । अवेक्ष्यत १० । एते षडुभयपदिनः। इति श्रीमहोपाध्यायधीकीर्तिविजयमणिशिष्योपाध्यायश्रीविनयविजय गणिविरचितायां हैमलघुप्रक्रियायां जुहोत्यादयः समाप्तान .. .... अथ दिवादयः। दिवूच क्रीडाजयेच्छापणद्युतिस्तुतिगतिषु । .. दिवादेः श्यः॥१॥ कर्तरि शिति दिवादेः श्यः स्यात् । शकार इत् । भ्वादेनोमिन इति दीर्घे, दीव्यति १ । दीव्येत् २ । दीव्यतु ३ । अदीव्यत् ४ । अदेवीत् ५। दिदेव दिदिवतुः दिदेविथ ६ । दीव्यात् ७ । देविता ८ । देविष्यति ९ । अदेविष्यत् १० । जृष् झूष च जरसि । ऋतां ङ्कितीर, जीर्यति ४ । ऋदिच्छ्वीत्यङ् वा । अजरत् अजारीत् ५। जजार । स्कृच्छृतोऽकीति गुणे, जृभ्रमेति वा एत्वे, जेरतुःजजरतुः ६ । जीर्यात् ७ । जरिता- जरीता ८ । जरिष्यति-जरीष्यति ९ । शोंच तक्षणे । ओतः श्ये ॥२॥ . धातोरोतः श्ये लुक् । श्यति १ । श्येत् २ । श्यतु ३ । अश्यत् ४ । आ सन्ध्यक्षरस्येत्यात्वे, For Personal & Private Use Only Page #234 -------------------------------------------------------------------------- ________________ ३२६ हैमलघुप्रक्रियाव्याकरणे दधे घाशेति वा सिज्लुपि-अशात् , अशासीत् ५। शशौ ६ । शायात् ७ । शाता ८ । एवं दो छोंच छेदने । षोंच अन्तकर्मणि । द्यतीत्यादि । नृतैच् नर्तने । नृत्यति ४ । ननत ६ । नृत्यात् ७। नर्तिता ८। कृतचूतनृतच्छृदितदोऽसिचः सादेर्वा ॥३॥ एभ्यः पञ्चभ्यः परस्याऽसिचः सादेरशित आ. दिरिड् वा स्यात् । नर्तिष्यति-नर्त्यति ९ । कुथ्च पूतीभावे । कुश्यति ४ । अकोथीत् ५। चुकोथ - ६. कोथिता ७ । व्यच ताडने। ज्याव्यधः किति ॥४॥.. --- अनयोः सस्वरान्तस्था विति परे वृत्स्यात् । विध्यति ।। अव्यात्सीत् अव्याद्धाम् अव्यात्सुः ५॥ ज्याव्येव्यधीति पूर्वस्य इत्वे, विव्याध। वृति द्वित्वे च विविधतुः विव्यधिथ विव्यद्ध ६ । विध्यात् ७। व्यद्धा ८ । व्यत्स्यति ९ । अव्यत्स्यत् १० । पिवूच् उतौ । सीव्यति ४ । असेवीत् ५ । सिषेक ६ । ष्ठिवू क्षिवू च निरसने । निष्ठीव्यति तिष्ठेव-टिष्ठेव । त्रसैच भये । भ्रासम्लासेति वा श्ये त्रस्यतिअसति ४ । अत्रासीत-अत्रसीत् ५ । तत्रास । भ्रमेति वा एत्वे, सतु-तत्रसतुः ६॥ पुषच पुष्टौ। For Personal & Private Use Only Page #235 -------------------------------------------------------------------------- ________________ दिवादयः । २२७ पुष्यति ४ । दिद्युतादिपुष्यादेरित्यङि, अपुषत् - ५ । पुपोष ६ । पुष्यात् ७ । पोष्टा ८ । पोक्ष्यति ९ । शुषंच शोषणे । दुषच् वैकृत्ये । ञितृषंचू पिपासायाम् । तुषं हषंच तुष्टौ । रुषंच रोषे इत्यादि पुष्यादयः सप्तषष्टिः । क्लिदौच आर्द्रभावे । क्लिद्यति १० । ञिमिदांच स्नेहने । मिदः श्ये ॥ ५ ॥ । मिदेरुपान्त्यस्य श्ये गुणः स्यात् । मेद्यति ४ । अमिदत् ५ । क्षुधंच बुभुक्षायाम् । क्षुध्यति १० । शुधंच शौचे । शुद्ध्यति १० । क्रुधंच कोपे । क्रुध्यति १० । तृपौच प्रीतौ । तृप्यति ४ । स्पृशः मृशेति सिज् विकल्पे, स्पृशादिसृपो वेत्यद्विकल्पे त्र इति जाते वृद्धौ च अत्राप्सीत् । पक्षे अताप्सीत् । पक्षे औद्रित्वादिटि, अतपत् । पक्षेऽङि अतृपत् ५ । ततर्प ६ । तृप्यात् ७ । त्रता - तर्षा तर्पिता ८ त्रप्स्यति तप्यति - तर्पिष्यति ९ । हपौच हर्षमोहनयोः । दृप्यति १० । लुभच गा । लुभ्यति १० । क्षुभच् संचलने । क्षुभ्यति १० । नशौच अदर्शने । नशः शः ॥ ६ ॥ अदुरुपसर्गान्तस्थाद्रादेः परस्य शान्तस्य नशेर्णत्वं स्यात् । प्रणश्यति । शान्तस्येति किम् । प्रनष्टइत्यादी शस्य षत्वे न भवति । '' For Personal & Private Use Only Page #236 -------------------------------------------------------------------------- ________________ हैमलघुप्रक्रियाव्याकरणे नशेर्ने श्वाऽङि ॥ ७ ॥ नशेरङि नेश् वा स्यात् । अनेशत् अनशत् ५ । ननाश ६ | नश्यात् ७ । नशो धुटि ॥ ८ ॥ २२८ नशः स्वरात्परो नोन्तः स्यात् धुडादौ । नंष्टा । -पक्षे इटि नशिता ८ । नंक्ष्यति नशिष्यति ९ । श्लिषंच आलिङ्गने । श्लिष्यति ४ । श्लिषः ॥ ९ ॥ श्लिषोऽनिटोsनद्यतन्यां सक् स्यात् न त्वजीवाश्लेषे । आश्लिक्षत् ४ । अजीवाश्लेषे तु आश्लि व्यज्जतु काष्ठम् ५ । शिश्लेष ६ । श्लिष्यात् ७ । श्लेष्टा ८ | असूच क्षेपणे । अस्यति ४ । शास्त्यसू इत्यङि, श्वयत्यसू इत्यास्थादेशे, आस्थत् ५ । आस ६ । अस्यात् ७ । असिता ८ । शमू दमू च उपशमे २ । तमूच काङ्क्षायाम् ३ । श्रमूच खेदतप्रसोः ४ । भ्रमूच् अनवस्थाने ५ । क्षमौच् सहने ६ । मदैच् हर्षे ७ । इति शमसप्तकम् । शमसप्तकस्य ॥ १० ॥ : दीर्घः स्यात् । शाम्यति ४ । अशमत् ५ । शमिता ७ । क्षाम्यति । औदित्त्वात् क्षमिताक्षन्ता | क्षमिष्यति क्षंस्यति । मुहौच् वैचित्ये । मुह्यति । इडिकल्पे मुहस्नुहस्तिहो वेति घत्व For Personal & Private Use Only Page #237 -------------------------------------------------------------------------- ________________ दिवादयः। ढत्वाभ्यां च मोढा-मोग्धा-मोहिता । मोक्ष्यति-मोहिष्यति । द्रुहौच जिघांसायाम् । प्रोक्ष्यति-द्रोहिप्यति । ष्णिहौच प्रीतौ । स्नेग्धा स्नेढा-स्नेहिता । १. इति परस्मैपदिनः । पदिंच गतौ । पद्यते ।। जिच्तेपदस्तलुक् च ॥११॥ पद्यतेरद्यतन्यास्ते परे जिच् स्यात्तलुक् च । अपादि अपत्साताम् अपत्सत ५ । पेदे ६ । पसीष्ट ७ । पत्ता ८। पत्स्यते ९ । अपत्स्यत १० । युधिंच सम्प्रहारे । युध्यते ४ । सिजाशिषोरत्र कित्त्वात् । अयुद्ध ५ । युयुधे ६ । युत्सीष्ट ७ । योद्धा ८ । योत्स्यते ९ । बुधिं मनिंच ज्ञाने । बुध्यते । अबुद्ध ४। अबोधि ५ । बुबुधे ६ । भुसीष्ट ७ । बोद्धा ८ । भोत्स्यते ९ । जनैचि प्रादुर्भावे। जा ज्ञाजनोऽत्यादौ ॥ १२॥ . ___ ज्ञाजनोः शिति जा स्यान्नत्वनन्तरेऽत्यादौ । जायते ४। जिचि न जनवधः ॥१३॥ अनयोः कृति णिति जौ च वृद्धिन स्यात् । अजनि अजनिष्ट ५ । गमहनजनेत्युपान्त्यलुकि, जज्ञे ६ । जनिषीष्ट ७ । दीपैचि दीप्तौ । दीप्यते व्या. २० . - . For Personal & Private Use Only Page #238 -------------------------------------------------------------------------- ________________ २३० हैमलघुप्रक्रियाव्याकरणे ४। दीपजनबुधीति जिविकल्पे, अदीपि अदीपिष्ट ५ । दिदीपे ६ । दीपिषीष्ट ७ । - इत्यात्मनेपदिनः। .. णहीच बन्धने । नयति ४ । नहाहोर्धतौ । अनात्सीत् ५ । ननाह ६ । नह्यात् ७ । नद्धा ८ । नत्स्यति । नाते ४ । अनद्ध । अनत्साताम् ५। नेहे ६ । नत्सीष्ट । नत्खते। . . इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनय'विजयगणिविरचितायां हैमलघुप्रक्रियायां दिवादयः समाप्ताः। अथ खादयः। डुंगट् अभिषवे। खादेः श्रुः॥१॥ - स्वादः कविहिते शिति श्रुः स्यात् । उश्नोरिति गुणे, सुनोति सुनुतः सुन्वन्ति । . वम्यविति वा ॥२॥ __ असंयोगात्परस्य प्रत्ययस्य उतो लुग् वा स्यात् अविति वादौ मादौ च परे । सुन्वा-सुनुवः सुन्म:सुनुमः १ । सुनुयात् । सुनोतु-सुनुतात् । असंयोगादेरिति हेर्लुक्, सुनु-सुनुतात् सुनवानि ३ । असुनोत् ४। धूगसुस्तोरितीटि, असावीत् ५। For Personal & Private Use Only Page #239 -------------------------------------------------------------------------- ________________ स्वादयः । २ सुषाव ६ । सूयात् ७ । सोता ८ । सोष्यति ९ । सुनुते सुन्वाते सुन्वते । सुन्वहे सुनुवहे १ । सुन्वीत २ । सुनुताम् सुनवै ३ । असोष्ट ५ । सुषुवे ६ । सोषीष्ट ७ सोष्यते ९ । असोष्यत १० । . असुनुत ४ । । सोता ८ । उपसर्गात्सुगूसुवसोस्तुस्तुभोऽव्यप्यद्वित्वे ॥ ३ ॥ अद्वित्वे सति सुनोतिसुवतिस्यतिस्तौतिस्तोभतीनां सकारस्योपसर्गस्थान्नाम्यादेः परस्य सस्य षः स्यात् अव्यपि । अभिषुणोति । शिनान्तरेऽपि, निःषुणोति । अय्यपि, अभ्यषुणोत् । चिंटू चयने । चिनोति ४ । अचैषीत् ५ । चेः किव ॥ ४ ॥ सन्परोक्षयोर्द्वित्वे सति पूर्वात्यरस्य 'चेः किव स्यात् । चिकाय चिचाय चिक्यतुः चिच्यतुः ६ । चीयात् ७ । चेता ८ । चिनुते ४ । अचेष्ट अचेदुम् ५ । चिक्ये चिच्ये चिच्याते ६ । चेषीष्ट चषीद्वम् ७ । धूगूट् कम्पने । धूनोति ४ । धूगूसुस्ती, अधावीत् ५ । दुधाव ६ । धूनुते ४ । धूगौदित इतीडिकल्पे, अधोष्ट- अधविष्ट ५ । दुधुवे ६ । धोषीष्ट धविषीष्ट ७ । धोता- धविता ८ । धोष्यते धविष्यते ९ । स्तृगूद्र आच्छादने । स्तृ For Personal & Private Use Only Page #240 -------------------------------------------------------------------------- ________________ २३२ हैमलघुप्रक्रियाव्याकरणे णोति ४ । अस्तात् ५। संयोगाहदर्तेरिति गुणे, तस्तरतुः तस्तथं ६ । स्तात् ७ । स्ततो ८ । स्तरिष्यति ९। स्तृणुते ४। . संयोगादृतः ॥ ५॥ संयोगासरो य ऋस्ततः परयोरात्मनेपदे सिजाशिषोसदिरिडा स्यात् । अस्तरिष्ट अस्तृत ५। तस्तरे ६ । स्तरिपीष्ट ७.कृष्ट वरणे । वृणोति ४ । अवारीत् ५ । ववार ववरिथ ववव ६ । बि. यात् ७ । वृतो नवेति वा दीर्घे, वरिता-वरीता ८ । वरिष्यति-वरीष्यति ९ । वृणुते ४। इसिजाशिषोरात्मने ॥६॥ वृभ्यामृदन्तेभ्यश्च परयोरात्मनेपदे सिजाशिपोरादिरिड्डा स्यात् । अवरिष्ट अवीष्ट अवृत ५। वत्रे ६.वृषीष्ट-परिषीष्ट । इत्युभयपदिनः। . हिंद गतिवृद्ध्योः। हिनोति ४ । अदुरुपसर्गेति णत्वे, प्रहिणोति । अहैषीत् ५ । अहिहनो होघ इति, जिघाय ६ । हीयात् ७ । हेता ८१ हेप्यति ९.झुंद श्रवणे । श्रौतीत्यादिना, शृणोति ४। अनौषीत् ५। शुश्राव शुश्रोथ ६ । शक्लंटू शकौ । शक्नोति शक्तः । भ्रूनोरित्युवादेशे, शक्नुवन्ति । योगार्हेश्च लोपाभावः । शक्नुवः । शक्नुहि ४॥ For Personal & Private Use Only Page #241 -------------------------------------------------------------------------- ________________ तुदादयः। लूदित्वाद, अशकत् ५। शशाक ६ । एवं आद् व्याप्तौ । आमोति। इति परस्मैपदिनः । ___ अशौटि व्याप्तौ । अश्नुते । अश्रुवीत ४ । आशिष्ट-आष्ट ५। ऋदाद्यशाविति नुगि, आनशे ६ । अशिषीष्ट-अक्षीष्ट ७ । अशिता-अष्टा ८। अशिष्यति-अक्ष्यति ९ । आशिष्यव आक्ष्यत् १०॥ इत्यात्मनेपदिनः। . इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयवि. जयगणिविरचितायां हैमलघुप्रक्रियायां खादयो धातवः पूर्णाः। . अथ तुदादयः। तुदीत् व्यथने। तुदादेः शः॥१॥ - एभ्यः कर्तृविहिते शिति शः स्यात् । तुदति १। तुदेत् २ । तुदतु ३ । अतुदत् ४ । अतौसीत्.५ । तुतोद ६ । तुद्यात् तुद्यास्ताम् । तोत्ता तोत्तारौ सतोत्स्यति । अतोत्स्यत् १०॥ तुदते १। तुदेत २। तुदताम् ३ । अतुदत ४॥ अतुत्त अतुत्सांताम् ५ । तुतुदे ६ । तुत्सीष्ट ७॥ भ्रस्जीत् पाके । For Personal & Private Use Only Page #242 -------------------------------------------------------------------------- ________________ २२ हैमलघुप्रक्रियाव्याकरणे में ग्रहवश्चभ्रस्जप्रच्छः ॥२॥ एषा सस्वरान्तस्था विति वृत्स्यात् । सस्य शषौ इति सस्य शत्वे, तृतीयस्तृतीयश्चतुर्थे इति शस्य जत्वे, भृजति ४। भृजो भर्जः ॥३॥ भूजतेरशिति भर्ज वा स्यात् । अभाक्षीत् । संयोगस्यादाविति स्लुकि, अभ्राक्षीत् ५ । बभर्जबभ्रज बभर्जतुः बभ्रजतुः । संयोगात्परोक्षायाः कित्त्वाभावः । बभर्जिथ-बभर्छ-बभ्रजिथ-बभ्रष्ठ ६ । भृज्ज्यात् ७ । भा-भ्रष्टा ८ । भमंति-भ्रक्ष्यति ९। भृजते ४ । अभष्र्ट-अभ्रष्ट ५ । बभर्जे-बभ्रजे ६ । भीष्ट-भ्रक्षीष्ट ७ । क्षिपीत् प्रेरणे । क्षिपति ४। अझैप्सीत् ५। क्षेता ८ । क्षेप्यति ९ । क्षिपते ४ । अक्षिप्त ५ । प्रत्यभ्यतः क्षिपः परस्मैपदमेव । दिशीत् अतिसर्जने दाने इत्यर्थः । दिशति ४। अदिक्षत् ५। देष्टा ७ । दिशते ४।अदिक्षत ५। दिक्षीष्ट ७ । कृषीत् विलेखने । कृषति कृषते ४ । स्पृशमशेति वा सिजि, स्पृशादि सपो वेत्यादागमे, अकाशीत-अकार्षीत्-अकृक्षत् ५। ऋष्टा-कष्टा ८॥ अकृष्ट ५ । कृषीष्ट । क्रक्ष्यते-कक्ष्यते ९ । मुचुंती मोक्षणे १ । षिचीत् क्षरणे २ । विदंती लाभे ३। लघृती छेदने ४ । लिपीत् उपदेहे ५ । कृतैत् For Personal & Private Use Only Page #243 -------------------------------------------------------------------------- ________________ .. तुदादयः। २९ छेदने ६ । खिदत् परिघाते ७ । पिशत् अवयवे । इत्यष्टौ मुचादयो ज्ञेयाः। मुश्चादितृफडफगुंफशुभोम्भः शेः ॥४॥ एषां शे परे स्वरान्नोऽन्तः स्यात् । मुञ्चति । अमुश्चत् ४ । सृदित्त्वाद, अमुचत् ५। मोक्का ८। मुञ्चते ४ । अमुक्त ५ । सिञ्चति । हालिपसिच इत्यडि, असिचद-पक्षियते ४ावात्मने, असिचत-' असिक ५। विन्दति ४ । अविदत् ५। वेत्ता ८।। अवित्त १० वेत्स्यते ९। लुम्पति ४ । अलुपत् ५। लुम्पते ४ । अलुप्त ५ । लिम्पति ४ । अलिपत् ५। अलिपत- अलिप्त ५। इत्युभयपदिनः। .. :: कृतैत् छेदने । मुचादित्वान्नोऽन्ते, कृन्तति ४॥ अकर्तीत् ५। चकत ६ । कृत्यात् ७ । कर्तिता ८॥ कर्तिष्यति ९ । अकतिष्यत् १०। मंत् प्राणत्यागे। .. म्रियतेरद्यतन्याशिषि च ॥५॥ अद्यतन्याशिषि च म्रियतेरात्मनेपदं स्यात् । अद्यतन्यामाशिषि शिद्विषये च । नान्यत्र ऋतोरिः, इति रित्वे, इयादेशे, वियते ४ । अमृत ५। ममार ६। मृषीष्ट मृषीयास्ताम् ७ । मो मारी ८॥ मरिष्यति ९ । अमरिष्यत् १० । कृत् विक्षेपे । गृत् निगरणे । ऋतां तितीर, गिरति । For Personal & Private Use Only Page #244 -------------------------------------------------------------------------- ________________ ३३६ हैमलघुप्रक्रियाव्याकरणे नवा खरे॥६॥ गिरते रस्य लो वा स्यात् स्वरे परे । गिलति ४। अगारीत् ५ । जगार ६ । गीर्यात् । गरिता-गरीता ८॥ (अवात् गिर आत्मनेपदम् ) अवगिरते (संपूर्वाप्रतिज्ञार्थाद्वा स्याद्) वादं संगिरते-संमिरति । ओख्रश्चौत् छेदने । वृश्चति ४ । वेदत्वात् अपश्चात् । सकारापदिर शकारस्यापि, अनाक्षीत् ५ । वज्रश्च वव्रश्चिय वनष्ठ ६३ वृश्यात् ७।ब्रष्टाब्रश्चिता प्रच्छंत् ज्ञीप्सायाम् । ग्रहबश्चेति वृत्, पृच्छति ४। अनुनासिके च छ्वः शूट् ॥ ७ ॥ ___ अनुनासिकादौ को धुडादौ च प्रत्यये धातो: छोः शूटौ स्याताम् । अप्राक्षीत् ५। पप्रच्छ ६ । पृच्छयात् ७।प्रष्टा प्रक्ष्यति ९ । ( ऑड्पूर्वोत्पृच्छतेरात्मनेपदम् * ) आपृच्छते । सृजत् विसर्गे। सृजति ४ । अः सृजिदृशोऽकिति अनाक्षीत् ५। ससर्ज । सृजिदृशीति वेटि सस्रष्ठ-ससर्जिथ ६। सृज्यात् ७। स्रष्टा ८ । टुमस्जोत् शुद्धौ । मजति ४। मस्जेः सः॥८॥ मस्जे: स्वरासरस्व सस्य स्थाने धुटि परे नोऽन्तः स्यात् । अमाक्षीत् अमालाम् ५। ममज ममजिथ-ममक्य ६। मज्यातू:७। मक्का ८। मड् For Personal & Private Use Only Page #245 -------------------------------------------------------------------------- ________________ रुधादयः । २३७ क्ष्यति ९ । दन्त् प्रेरणे । नुदति १० । पाणिनीयास्त्वेनमुभयपदिनं पठन्ति । नुनुदे । स्पृशंत् संस्पर्शे । स्पृशति ४ । अस्प्राक्षीत्-अस्साक्षीत्-अस्पृक्षत् ५। स्प्रष्टा- स्पष्ट ८ । स्प्रक्ष्यति -स्पक्ष्र्क्ष्यति ९। विशंत् प्रवेशने | अविक्षत् ५ । वेष्टा ८ । वेक्ष्यति ९ । निपूर्वाद्विश आत्मनेपदं भवति । निविशते । एवं मृशंत् आमर्शने । इषत्र इच्छायाम् । समिषद्यमश्छः । इच्छति ४। ऐषीत् ऐषिष्टाम् ५ । इयेष ६ । इति परस्मैपदिनः । ओविजैति भयचलनयोः । प्रायोऽयमुत्पूर्वः । उद्विजते ४ । (विजेरिङिद्वत्स्यात् ) उद्विजिता ८- । ओलस्जैति व्रीडे । लज्जते ४ । अलजिष्ट ५ । ललज्जे ६ । लज्जिषीष्ट ७ । जुषैति प्रीतिसेवनयोः । जुषते १० इत्यात्मनेपदिनः । इति महोपाध्यायश्री कीर्तिविजयगणिशिष्योपाध्यायश्री विनय विजयगणिविरचितायां हैमलघु प्रक्रियायां तुदादयः समाप्ताः । अथ रुधादयः । रुपी आवरणे । रुधां स्वराच्छूनो नलुक् च ॥ १ ॥ रुधादीनां स्वरात्परः कर्त्रर्थे शिति श्नः स्यात्तद्योगे प्रकृतेर्नलुक च । रुणद्धि । अविति शिवि For Personal & Private Use Only Page #246 -------------------------------------------------------------------------- ________________ २३८ हैमलघुप्रक्रियाव्याकरणे नास्त्यो गित्यकारलुकि, रुन्द्धः रुन्धन्ति । रुणसि रुन्द्धः रुन्द्ध । रुणध्मि रुन्धवः रुन्धमः १ । रुन्ध्यात् २॥ रुणडु रुन्द्धि-रुन्द्धात रुणधानि ३। अरुणत् २ अरुन्धन् ४ । ऋदित्त्वाद्वाङि, अरुधत्अरौत्सीत् ५। रुरोध ६ । रन्ध्यात् ७ । रोद्धा ८। रोत्स्थति ९॥ अरोत्स्यत् १० । रुन्द्धे रुन्धते १। रु. "न्धात २। रुन्द्रा रुन्द्र ४ । अरुद्ध ५। रुरुधे ६ । रुत्सीष्ट ७ .. युजूंपी योगे । युनक्ति युतः १ अयुनक् २।४।अयुजत् अयोक्षीत् ५। युयोज ५।योक्ता ८। युङ्क्ते४।अयुक्त ५। युयुजे ६। युक्षीष्ट ७। योका ८ । भिडेपी विदारणे । भिनत्ति भिन्तः ४ । अभिदत् अभैत्सीत् ५। भिन्ते ४ । अभित्त ५। छिट्टंपी द्वैधीकरणे। इत्युभयपदिनः। मओ आमदने । भनक्ति भङ्गः १। अभनक् २।अमनजम् ४ । अभावीत् ५। बभञ्ज ६।भज्यात् ७। भङ्गा । भङ्ग-यति ९ । भुजंप पालनाभ्यवहारयोः। भुनक्ति १। दिवि अभुनक्४। अभौक्षीत् ५ । बुभोज ६ । भुज्यात् । भुनजोऽत्राणे ॥२॥ पालनादन्यार्थाद् भुनक्के कर्तर्यात्मनेपदं स्यात्। भुते ४ । अभुक्तं ५। बुभुजे ६। मुक्षीष्ट ७। अञ्जौष For Personal & Private Use Only Page #247 -------------------------------------------------------------------------- ________________ . रुधादयः। २३९ व्यक्तिम्रक्षणकान्तिगतिषु । अनक्ति अङ्कः १। अजुयात् २॥ अनक्तु अग्धि -अङ्गात् ३। आनक् २॥४॥ सिचोऽओः॥३॥ अञ्जः सिच आदिरिट् स्यात् । आञ्जीत् ५। आनञ्ज ६ । अज्यात् ५। औदित्त्वात् अङ्काअञ्जिता ८ । शिष्टंप विशेषणे । शिनष्टि शिष्टः शिंषन्ति १। शिंप्यात *शिना शिन् पहि इति स्थिते । हेधिः, घुटस्तृतीयेति षस्य डः, तवर्गश्चवगेंति धेर्दिः । नां धुड् इति नस्य णः। धुटो धुटि खे वा ॥४॥ व्यञ्जनात्परस्य धुटो धुटि स्वे परे लुग्वा स्यात् । इति लोपे, शिण्ढि शिनषाणि ३। अशिनद्-ड्र ४॥ अशिषत् ५। शिशेष ६ । शिष्यात् ७। शेष्टा ८ । शेक्ष्यति ९ । हिसु तृहप हिंसायाम् । उदितः स्वरादिति नागमे, तल्लोपेच, हिनस्ति हिस्सा हिंसन्ति १॥ हिंस्यात् २। हिनस्तु हिन्द्धि ३ । व्यञ्जनादेः संश्च दः । अहिनद्-त् ४ । अहिंसीत् ५। जिहिंस ६। हिंस्यात् ७ । हिंसिता ८॥ - तृहः भादीत् ॥५॥ . - तृहः नासर ईत् स्याब्यञ्जनादौ विति । तृणेढि तृणूढः । शिड्रहेऽनुस्वार इति तुंहन्ति । तृणेक्षि तृणेमि १ । तुंह्यात् २। तृणेदु । हौ तृण्ढि तृण For Personal & Private Use Only Page #248 -------------------------------------------------------------------------- ________________ हैमलघुप्रक्रियाव्याकरणे हानि ३ । अतृणेट् अतृण्ढाम् अहम् ४ । अत् ५ । ततई ६ । तुह्यात् ७ । तर्हिता ८ । इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्री विनयविजयगणिविरचितायां मलघुप्रक्रियायां रुधादयः समाप्ताः ॥ अथ तनादयः । - तनूयी विस्तारे । कृतनादेरुः । उश्नोः । तनोति तनुतः तन्वः-तनुवः ४ । अतानीत्-अतनीत् ५ । ततान ६ । तन्यात् ७| तनिता ८ | तनुते तन्वहे - तनुवहे ४ । तन्भ्यो वा तथासिन्णोश्च ॥ १ ॥ तनादिभ्यः परस्य सिचस्ते यासि च लुप् वा स्यातद्योगे न्णोश्च लुप् न चेटू । अतत अनिष्ट अतः निषाताम् अतनिषत । अतथाः अतनिष्ठाः ५ । तेने ६ । तनिषीष्ट ७ । षणूयी दाने । सनोति ४ । असानीत् - असनीत् ५ । ससान ६ । सनुते ४ । सनस्तत्रावा ॥ २ ॥ सनो नलुपि सत्या वा स्यात् । असात असत असनिष्ट असाथाः असथाः असनिष्ठाः ५ । सेने ६ | क्षनूग क्षिनूयी हिंसायाम् । क्षणोति ४ । न श्विजागृशसेति वृद्धिनिषेधे, अक्षणीत् ५ । चक्षाण ६ । क्षण्यात् ७१ क्षणिता ८ | क्षणुते ४ । अक्षत अक्षणिष्ट For Personal & Private Use Only Page #249 -------------------------------------------------------------------------- ________________ क्र्यादयः । २४६ अक्षथाः- अक्षणिष्ठाः ५ । चक्षणे ६ । क्षणिषीष्ट ७ । क्षणिष्यते ९ । अक्षणिष्यत १० । एवं क्षिणोतेरपि । क्षिणोति क्षिणुते ४ | अक्षेणीत् अक्षेणिष्ट ५ । चिक्षेण चिक्षिणे ६ | इत्युभयपदिनः । वनूयि याचने । मनूयि बोधने । आत्मनेपदिनौ । वनुते १० । मनुते २०१ Mang इति महोपाध्यायश्री कीर्तिविजगगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां हैमलघुप्रक्रियायां तनादयः समाप्ताः । अथ त्र्यादय: 4 डुक्रीग्श द्रव्यविनिमये । ऋयादेः ॥ १ ॥ क्र्यादीनां कर्तृविहिते चिवि भ्राः स्यात् । क्रीणाति । एषामीर्व्यञ्जनेऽद इतीत्वे, क्रीणीतः ।श्रश्चात इत्यालोपे क्रीणन्ति १ । क्रीणीयात् २ | क्रीणातु - क्रीणीतात् क्रीणीहि ३ । अक्रीणात् ४ । अक्रेपीत् ५। चित्राय चिक्रियतुः चित्रयिथ - चिक्रेथ ६ क्रीयात् ७ । क्रेता ८ | क्रेष्यति ९ । अक्रेष्यत् १० । क्रीणीते क्रीणाते क्रीणते ४ । अष्ट ५ । चिक्रिये ६ । क्रेषीष्ट ७ । ( परिव्यवात्क्रिय आत्मनेपदमेव * ) एवं प्रींग्श तृष्टिकान्त्योः । प्रीणाति १० । प्रीणीते व्या. २१ For Personal & Private Use Only Page #250 -------------------------------------------------------------------------- ________________ २४३ . हैमलघुप्रक्रियाव्याकरणे १०। मांश हिंसायाम् । अदुरुपसर्गेति णत्वे, प्रमीणाति ४॥ मिग्मीगोऽखलचलि ॥२॥ अनयोर्यपि खलू अच् अल्वर्जेऽकिति च विषये आः स्यात् । अमासीत् ५। ममौ मिम्यतुः ममिथ ममाथ ६ मीयात् ७। माता प्रमीणीते ४॥ अमास्त ५। मिन्ये । मासीष्ट ७ । ग्रही उपादाने । ग्रहनश्चेति वृति, गृह्णाति १ । गृह्णीयात् २। गृह्णातु ३। व्यञ्जनाच्छ्नाहेरानः ॥३॥ व्यञ्जनात्सरस्य श्नायुक्तस्य हेरानः स्यात् । गृहाण ३ । अगृह्णात् ४। गृहङ्गोऽपरोक्षायां दीर्घः ॥ ४॥ ग्रहेकों विहित इट् तस्य दीर्घः स्यात् नतु परोक्षायाम् । नश्वीति वृद्धिनिषेधे दीर्घस्य स्थानिवभावात् इट ईतीति सिचो लुक् । अग्रहीत् अग्रहीष्टाम् अग्रहीषुः ५ । जग्राह जगृहतुः जगृहुः । जग्रहिथ ६ । गृह्यात् गृह्यास्ताम् गृह्यासुः ७ाग्रहीता ग्रहीतारौ । प्रहीष्यति ९ । अग्रहीष्यत् १० । गृहीते १। गृहीत २। गृहीताम् ३ । अगृह्णीत ४। अग्रहीष्ट । हान्तस्थेति वा ढत्वे अग्रहीदम् अग्रही - - For Personal & Private Use Only Page #251 -------------------------------------------------------------------------- ________________ यादयः । २४३ ध्वम् ५। जगृहे जगृहिट्वे-ध्वे ६ । प्रहीषीष्ट ग्रहीपीद्वम्-ध्वम् । पूरश पवने। • प्वादेहखः॥५॥ ___ वादेः शित्यत्यादौ इस्वः स्यात् । पुनाति ४। अपावीत् ५। पुपाव ६। पूयात् ७। पविता ८। पुनीते ४। अपविष्ट ५। पुपुवे ६। पविषीष्ट । पविप्यते ९। अपविष्यत १० । एवं लूग्श छेदने । लुनाति १० । लुनीते १०॥धूम्श कम्पने । धुनाति १० धुनीते १० । स्तृग्श आच्छादने । प्वादित्वात् हस्वे, स्तृणाति ४ । अस्तारीत् ५। तस्तार ६ । स्तीर्यात् ७ । स्तरिता-स्तरीता शस्तृणीते ४ । इसिजाशिषोरिति वेटि, वृतो नवेति वा दीर्घे, अस्तरिष्ट-अस्तरीष्ट । ऋवर्णादिति सिचः कित्वे, अस्तीर्ट ५ । वृश वरणे । वृणाति ४ । अवारीत् ५। ववार ६। वूर्योत् ७। वरिता परीता। वृणीते ४। अवरिष्ट-अवरीष्ट अवूष्ट ५ । स्कृच्छृतोऽकि इति गुणे, ववरे ६ । वरिषीष्ट-वूर्षीष्ट ७ ॥ . इत्युभयपदिनः। ज्यांश वयोहानौ । ज्याव्यधः कितीति वृति । दीर्घमवोन्त्यम् ॥६॥ वेगवर्जस्व वृदन्त्यं दीर्घ स्यादिति दीर्षे, प्वादे रिति ह्रस्वे च, जिनाति ४ । अज्यासीत् ५। ज्या .. .. For Personal & Private Use Only Page #252 -------------------------------------------------------------------------- ________________ हैमलघुप्रक्रियाव्याकरणे व्याधिवचेरिति पूर्वस्य इत्वे, जिज्यौ ६ । जीयात् ७ । ज्याता ८ । ज्यास्यति ९ । बन्धंश् बन्धने । बध्नाति बधान ४ । अभान्त्सीत् ५ । बबन्ध ६ । बध्यात् ७ । बन्द्धा ८ । भन्त्स्यति ९ । अशशु भोजने । अश्नाति अशान ४ । आशीत् ५ । आश ६ । अश्यात् ७ । अशिता ८ । मुषश् स्तेये । मुष्णाति मुषाण ४ । अमोषीत् ५। मुमोच ६ । मुष्यात् ७ । मोषिता ८ । एवं पुषश पुष्टौ । पुष्णाति १० । इत्यादि । ज्ञांश अवबोधने । जाज्ञाजनोऽत्यादौ । जानाति ४ । अज्ञासीत् ५ । जज्ञौ ६ । ज्ञायात्- ज्ञेयात् ७ । ज्ञाता ८ । ज्ञास्यति ९ । अज्ञास्यत् १० । ज्ञोऽकर्मकत्वे आत्मनेपदम् । जानीते | २४४ इति परस्मैपदिनः । । इति महोपाध्यायश्रीकीर्त्तिविजयगणिशिष्योपाध्यायश्री विनयविजयगणिविरचितायां हैंमलघुप्रक्रियायां त्र्यादयः समाप्ताः । अथ स्वार्थिकप्रत्ययान्ताः । गुपौधूपविच्छिपणिपनेरायः ॥ १ ॥ एभ्यः पञ्चभ्यः स्वार्थे आयः प्रत्ययो भवति । गोपायति ४। धूपायति ४ । पणायति ४ । पनायति ४ । (कमेर्णिङ् * ) कामयते ४ । (ऋतेङयः * ) ऋतीयते ४ । For Personal & Private Use Only Page #253 -------------------------------------------------------------------------- ________________ .. चुरादयः। २४५ अशवि ते वा ॥२॥ गुपादिभ्यः सप्तभ्योऽशविषये आयादयो वा स्युः । अगोपायीत् । औदित्त्वादिड्डा । अगोपीत् । व्यञ्जनानामनिटीति वृद्धौ, अगौप्सीत् । गोपायामास । जुगोप ६ । गोपाय्यात्-गुप्यात् ७ । गोपायिता-गोपिता-गोता ८ । आतीवीए । नयाभावे आर्तीत् ५। ऋतीयांच नित । ऋतीयिषीष्ट। ऋत्यात् ७ । ऋतीयिता-अर्त्तिता ८ । ऋतीयिष्यतेअतिष्यति । (धातोः कण्डादेर्यक् *) कण्डूयति ४ । अकण्डूयीत् ५। कण्डूयामास ६ । कण्डूयिता ७॥ एवं कण्डूयते ४ । अकण्डूयिष्ट ५। इति खार्थिकप्रत्ययान्ताः। अथ चुराया। चुरण स्तेये। चुरादिभ्यो णिच् ॥१॥ एभ्यः स्वार्थे णिच् स्यात् । वर्तमाना तिव । कर्तर्यनन्यः शव गुणेऽयादेशे, लघोरुपान्त्यस्येति पूर्वस्य गुणे, चोरयति १ । चोरयेत् २। चोरयतुचोरयतात् ३। अचोरयत् ४ । णिश्रीत्यादिना डे। उपान्त्यस्यासमानलोपिशास्वृदितो डे ॥२॥ For Personal & Private Use Only Page #254 -------------------------------------------------------------------------- ________________ २४६ . हैमलघुप्रक्रियाव्याकरणे समानलोपिशास्वृदिदर्जस्य धातोरुपान्त्यस्य डपरे णौ इस्वः स्यात् । तत आद्योंश एकस्वर इति द्वित्वे चुचुरि इति द्वित्वे । .. लघोर्दीर्घोऽखरादेः॥३॥ नास्ति समानलोपो यस्मिंस्तस्मिन् ङपरे णौ असरार्धातोडिक पूर्वस्य लयोनि धात्वक्षरे परे दीर्घः स्यात् । । . णेरनिटि ॥४॥ अनिव्वशिति प्रत्यये गेलृक् स्यात् । अचूचुरत् अचूचुरताम् अचूचुरन् ५। धातोरनेकस्वरादाम्। चोरयामास ६। चोर्यात् ७ । चोरयिता । चोरयिष्यति ९। अचोरयिष्यत् १० । पूजण पूजायाम् । पूजयति ४३ अमजत् ५ । चितण संवे. दने। चेतयति ४ । अचिचेतत् ५। चितुण स्मृ. त्याम् । उदितः स्वरान्नोऽन्तः । चिन्तयति ४ । अचिचिन्तत् ५ । कृतण संशब्दने । कृतः कीर्तिः ॥५॥ बरखणः कीर्तिः इत्यादेशः स्यात् । कीर्तयति ।। ऋडवर्णस्य ॥६॥ उपान्त्यस्य ऋवर्णस्य उपरे णौ वा ऋस्यात् । - १ . . Jain Education international For Personal & Private Use Only Page #255 -------------------------------------------------------------------------- ________________ . णिमन्तप्रकिया। २४७ अचीकृतत्-अचिकीर्त्तत् ५ । गणण सक्याने । गणयति ४।। ईच गणः ॥७॥ गणेर्डपरे णौ द्वित्वे पूर्वस्य ईरश्च स्याताम् । अजीगणत् अजगणत् । कथण वाक्यप्रबन्धे । कथयति । अत इत्यकारोब मानलोपित्वान्न सन्वद्भावः। अचकथत् ५। युजादेर्नवा ॥ ८॥ एभ्यो णिज् वा स्यात् । युजण संपर्चने । योजयति योजति १० । सहण मर्षणे । साहयति सहति १०। इति श्रीमहोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां हैमलघुप्रक्रियायां चुरादयः समाप्ताः। Mak अथ णिगन्तप्रक्रिया। प्रयोक्तृव्यापारे णिम् ॥१॥ कुर्वन्तं यः प्रयुते तद्व्यापारे वाच्ये धातोर्णिगू वा स्यात् । गकार उभयपदार्थः । णकारो वृद्यर्थः। भवन्तं प्रयुते ।नामिनोऽकलिहलेरिति वृद्धौ, भा. वयति ४ । भवन्तं प्रायुक्त । णिश्रीति डागमे, उपान्त्यस्याऽसमानलोपीति इस्खे, णौ यत् कृतं कार्य For Personal & Private Use Only Page #256 -------------------------------------------------------------------------- ________________ २४८ हैमलघुप्रक्रियाव्याकरणे . तत्सर्व स्थानिवद्भवतीति न्यायात्, भू इति द्वित्वे हस्वत्वे भुभवि इति स्थिते। असमानलोपे सन्वल्लघुनि ॥२॥ नास्ति समानलोपो यत्र तस्मिन् ङपरे णौ द्विवे पूर्वस्य लपनि धात्वक्षरे परे सनीव कार्य स्यात् । यथा अवर्णान्तजातखापवर्गे परे सनि पूर्वस्य ओरिः स्यात् । यथा च सनि पूर्वस्यात इ. स्यात्तथात्रापि । ततो लघोर्दीर्घोऽस्वरादेरिति दीर्थे, णेरनिटीति णिलोपे, अबीभवत् ५। -- आमन्ताल्वाय्येत्नावय् ॥ ३॥ . एषु पञ्चसु रय् स्यात् । भावयामास ६ । भाव्यात् ७ाभावयितााभावयते । अबीभवत५। पाचयति पीपचत् ५। पाचयते ४। अपीपचत ५। कारयति ४। अचीकरत् ५। कारयते ।। अचीकरत ५। रावयति ४ । अरीरवत् ५। लावयति ४। अलीलवत् ५। पावयति ४। अपीपवत् ५। शासयति ४ । अशशासत् ५। ढोकृड् गतौ । दौकमानं प्रयुक्ते ढोकयति ४ । अडुढौकत् ५। शास्वृदितोवर्जनात् इंस्वनिषेधः । राजयति ४ । अर. राजत् ५। सरन्तं प्रयुक्ते। घटादेहूंखो दीर्घस्तु वा मिणम्परे ॥ ४ ॥ For Personal & Private Use Only Page #257 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया। २४९ घटादीनां णौ ह्रस्वः स्यात् अिणम्परे तु णौ वा दीर्घः । स्मरयति । स्मृदृत्वरप्रथम्रदस्तृस्पशेरः॥५॥ एषा ङपरे णौ द्वित्वे पूर्वस्यात् । असस्मरत् । वा वेष्टचेष्टः ॥ ६॥ वेष्टि वेष्टने ।ष्टि चेष्टायाम् । अनयोर्डप्ररे णौ पूर्वस्याद्वा स्यात् । वेष्टमानं चेष्टमानं प्रायुत अववेष्टत्-अविवेष्टत् । अचचेष्टत्-अचिचेष्टत् । भ्राजभासभाषदीपपीडजीवमीलकण- . रणवणभणश्रणहेठलुटलुपलपानवा ॥७॥ एषां सप्तदशानां डपरे णावुपान्त्यस्य इस्वो वा स्यात् । इस्वे च पूर्वस्य सन्वद्भावो लघोर्दीर्घश्च । अबिभ्रजत्-अवधाजत् । अवमिसत्अक्भासत् । अदीदिपत्-अदिदीपत् । वर्तमान प्रायुत अवीवृतत् । ऋदृवर्णस्येति ऋत्वे गुणाभावः। पक्षे लघोरूपान्त्यस्येति गुणे, अववर्तत् । स्वापयति । . खपेर्यक्रे च ॥८॥ स्वपेर्यडि २ किति च सस्वरान्तस्था रवृत् स्यात् । ततो द्वित्वे लघोरुपान्त्यस्येति गुणे ह्रस्वत्वे दीचे च असूषुपत्। For Personal & Private Use Only Page #258 -------------------------------------------------------------------------- ________________ ....FAM २५० हैमलघुप्रक्रियाव्याकरणे . अतिरीठलीहीकूयिक्ष्माय्यातां पुः ॥९॥ एषामादन्तानां च णौ पुरन्तः स्यात् । अर्पयति । स्वरादेर्द्वितीय इति द्वित्वे, आर्पिपत् । रेपयति। क्रूयैङ् शब्दादनयोः।क्ष्मायैङ् विधूनने । वोः प्वऽरव्यञ्जने लुक् ॥ १० ॥ पौ वर्जव्यञ्जनादौ च बोलक् स्यात् । कोपयति । मापयति । दापयति । अदीदपत्। णौ क्रीजीङः ॥ ११॥ एषां त्रयाणां णौ आत् स्यात् । क्रापयति जापयति अध्यापयति । णौ सन्डे वा ॥ १२॥ सन्परे उपरे च णौ इडो गा वा स्यात् । अध्यजीगपत-अध्यापिपत् । चिस्फुरोर्नवा ॥ १३॥ चिस्फुरोणौँ स्वरस्याद्वा स्यात् । चापयति-चाययति । स्फारयति-स्फोरयति । वियः प्रजने ॥१४॥ - गर्भाधाने वियो णावाद्वा स्यात् । पुरोवातो गा: प्रवापयति २। जिघ्रतेरिः॥ १५॥ For Personal & Private Use Only Page #259 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया | अस्य ङपरे णौ इर्वा स्यात् । अजिम्रिपत्-अजिघ्रपत् । ( तिष्ठतेरिर्नित्यम् * ) अतिष्ठिपत् । सिध्यतेरज्ञाने ॥ १६ ॥ अज्ञानार्थस्य सिध्यतेर्णौ स्वरस्यात्स्यात् । अन्नं साधयति । सिध्यति तत्त्वं निश्चिनोति तं प्रयुङ्क्ते सेधयति तपः साधुम् । 1 २५१ णावज्ञाने गमुः ॥ १७ ॥ अज्ञानार्थयोरिणिकोर्गमुः स्यात् । गमयति ग्रामम् । अधिगमयति प्रियम् । ज्ञाने तु प्रत्याययति । रुहः पः ॥ १८ ॥ रुहेण पो वा स्यात् । रोपयति- रोहयति वा तरुम् । ( लियो नोऽन्तः स्नेहद्रवे वा ) घृतं विलीनयति विलाययति वा । लीली नोर्वा ॥ १९ ॥ अनयोर्यपि खलवर्जे क्विति च आद्वा स्यात् । लोलः ॥ २० ॥ लारूपस्य णौ स्नेहद्रवे गम्ये लोऽन्तो वा स्यात् । घृतं विलालयति विलापयति वा । स्नेहद्रव इति किम् । जटाभिरालापयते । पातेः ॥ २१ ॥ For Personal & Private Use Only Page #260 -------------------------------------------------------------------------- ________________ २५२ हैमलघुप्रक्रियाव्याकरणे णौ लोऽन्तः स्यात् । पालयति (धूगूपीगोर्न) धूनयति । प्रीणयति। वो विधूनने जः ॥ २२॥ ___वा इत्यस्य विधूननेऽर्थे जोऽन्तः स्यात् । पक्षे णोपवाजयति। पाशाछासावेव्याहो या ॥ २३ ॥ एषां सप्तानां णौ योऽन्तः स्यात् । पाययति । .पिबः पीप्य् ॥ २४॥ ण्यन्तस्य पिबते. परे पीप्य् स्यान्न च द्विः। अपीप्यत्। शाययति। अवच्छाययति । अवसाययति। वाययति । व्याययति । हाययति । णौ ङसनि ॥ २५॥ हेगा सस्वरान्तस्थाङ्परे सम्परे च णौ विषये वृत् स्यात् । भ्राजभासेत्यादिना वोपान्त्यस्य हस्खे । अजूहवत्-अजुहावत् । (श्वेवळ वृत् *) अशुशवत्-अशिश्वयत् । (स्फायः स्फाव् णौ *) स्फावयति । शदिरगतौ शात् । पुष्पाणि शातयति । गतौ तु गाः शादयति। ञ्णिति घात् ॥ २६ ॥ हन्तेणिति घातू स्यात् । घातयति । For Personal & Private Use Only Page #261 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया। अदुषो णौ ॥ २७॥ दुषेरुपान्त्यस्य णौ ऊत् स्यात् । दूषयति। चित्ते वा ॥ २८ ॥ चित्तकर्तृकस्य दुषेरूद्वा स्यात् । चित्तं दोषयति दूषयति वा मैत्रः । गोहः स्वरे इत्यूत्वे, गृहयति । घटादेर्हस्वे दीर्घस्तु वा भिणमारे णौ वर्तते। घटयति । अपाटि-अघटि । घार्ट २ । घटं २। व्यथयति । अव्याथि अव्यथि। व्याथं २ व्यथं २। ___ कगेवनूजनैजृषकस्रजः ॥ २९ ॥ एषां षण्णां णौ ह्रस्वो भवति । त्रिणम्परे तु णौ वा दीर्घः । कगयति । जनयति (णौ मृगरमणे रञ्जनों लुक् *) रजयति मृगान् । अराजि-अरजि । - अमोऽकम्यमिचमः ॥३०॥ कम्यमिचमिवर्जस्यामन्तस्यं णी हस्वः स्यात्, जिणम्परे तुः णौ वा दीर्घः । रमयति । मारणतोषणनिशाने ज्ञश्च ॥३१॥ एष्वर्थेषु ज्ञो णौ ह्रस्वः स्यात् । संज्ञपयति पशुम् । विज्ञपयति गुरुम् । प्रज्ञपयति शस्त्रम् । ज्वलह्वलह्मलग्लानावनूवमनमोऽ नुपंसर्गस्य वा ॥ ३२॥ एषामष्टानामनुपसर्गाणां णौ ह्रस्वो वा स्यात् । व्या. २२ . For Personal & Private Use Only Page #262 -------------------------------------------------------------------------- ________________ २५४ हैमलघु प्रक्रियाव्याकरणे ज्वलयति ज्वालयति । अनुपसर्गस्येति किम् । प्रज्वलयति । णिजन्तादपि णिगू । चोरयन्तं प्रयुङ्क्ते चोरयति । णिलुपि स्वरादेशत्वात्स्थानिवद्भावेनोपान्त्यत्वाभावान्न ह्रस्वः । अचुचोरत् । अणिक्कर्मणिक्कर्तृकाण्णिगोऽस्मृतौ ॥ ३३ ॥ अणिमवस्थायां कर्म तदेव णिगवस्थायां कर्त्ता यस्य तस्माण्णिगन्तादस्मृत्यर्थात् कर्तर्यात्मनेपदमेव स्यात् । आरोहयते हस्ती हस्तिपकम् । अणिगि प्राणिकर्तृकानाप्याण्णिगः ॥ ३४ ॥ अणिगवस्थायां यः प्राणिकर्तृको कर्मकश्च धातुस्तस्माण्णिगन्तात्परस्मैपदमेव स्यात् । आसयति चैत्रम् । चल्याहारार्थेड्नुभयुधद्रुस्नुनशजनः ॥३५॥ चल्याहारार्थेभ्य इङादिभ्योऽष्टाभ्यश्च णिगन्तेभ्यः परस्मैपदमेव स्यात् । चलयति । घटादित्वात् ह्रस्वः इत्यादि । इति महोपाध्यायश्री कीर्त्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां हैमलघुप्रक्रियायां णिगन्तप्रक्रिया समाप्ता । ang For Personal & Private Use Only Page #263 -------------------------------------------------------------------------- ________________ . . . सम्प्रक्रिया। २५६ अथ सन्प्रक्रिया। तुमर्हादिच्छायां सन्नतत्सनः ॥१॥ यो धातुरिषः कर्म इषिणैव च समानकर्तृकः स तुमर्हस्तस्मादिच्छायामर्थे सन् वा स्यात् । न त्विच्छासन्नन्तात् । पठितुमिच्छति सागमे इडागमे च । सन्यस्थ॥२Nसन्नन्तस्य यडन्तस्य चाध एकस्वरोंऽशो द्विः स्यात् । सन्यस्य ॥३॥ - द्वित्वे पूर्वस्यातः सनि परे इः स्यात् । नाम्य. न्तस्थेति षत्वे, पिपठिषति ४ । अपिपठिषीत् ५। पिपठिषांचकार । पिपठिष्यात्।पिपठिषिता ८। पिपठिषिष्यति ९१ अपिपठिषिष्यत् १० । स्वरादोईतीयः इति द्वित्वे, अटितुमिच्छति जाहिटिषति । घस्ट सनद्यतनी घअचलि । अत्तुमिच्छति जिंधत्सति । अजिघत्सीत् । ग्रहगुहश्च सनः ॥४॥ आभ्यामुवर्णान्ताच्च विहितस्य सन आदिरिट्र न स्यात् । रुदविदमुषग्रहखपप्रच्छः सन् च ॥५॥ एभ्यः क्त्वा सन् च विद्वत्स्यात् । कित्त्वाब्रह For Personal & Private Use Only Page #264 -------------------------------------------------------------------------- ________________ २५६ हैमलघुप्रक्रियाव्याकरणे ब्रश्चेति स्वृति होधुट्पदान्ते इति हस्य ढत्वे गडदबादेरिति घत्वे जिघृक्षति । उपान्त्ये ॥६॥ . नामिन्युपान्त्ये सति धातोः सन्ननिट् किद्धस्यात् । जुघुक्षति बिभित्सति । नामिनोऽनिट् ॥७॥ . नाम्यन्तस्य धातोरनिट् सन् किद्वत्स्यात् । बुभूषति। रुरुदिषति विविदिषति । मुमुषिषति । स्वपेर्य के चेति वृत् , स्वापयितुमिच्छति सुषुप्सति । खपो णावुः ॥ ८॥ - स्वपेणौँ सति द्वित्वे पूर्वस्य उः स्यात् । सुष्वा. पयिषति। ___ स्वरहन्गमोः सनि धुटि ॥९॥ स्वरान्ताय हनगमोश्च धुडादौ सनि दीर्घः स्यात् । जेर्गिः सन्परोक्षयोः । जिगीषति । (चेः किर्वा * ) चिचीपति चिकीषति । स्तोतुमिच्छति तुष्टूपति । कृगो दीर्घे सति इर् । चिकीर्षति । हन्तुमिच्छति सनि द्वित्वे अ. हिहनेति घत्वे दीर्घ च, जिघांसति । सनीङश्च ॥ १०॥ इङ इणिकोश्चाज्ञाने सनि गमुः स्यात् । अज्ञान इति इण एव विशेषणं नान्ययोरसंभवात् । For Personal & Private Use Only Page #265 -------------------------------------------------------------------------- ________________ सन्प्रक्रिया । ... २५७ प्राग्वत् सनः ॥११॥ . सनः पूर्वो यो धातुस्तस्मादिव सन्नन्तात् कर्तर्यात्मनेपदं स्यात् । गमोऽनात्मने इतीडू निषेधः । इङ् अधिजिगांसते विद्याम् । इण जिगमिषति. ग्रामम् । इंक मातुरधिजिगमिषति । ज्ञाने त्विणः प्रतियियिषति । णौ सन्डेवेति वा इडगे गादेशे, अधिजिगापयिषति अध्यापिपयिषति । वौ व्यञ्जनादेः सन्वाऽवः ॥ १२॥ वौ उदित्युपान्त्ये सति व्यञ्जनादेर्धातोः परः क्त्वाः सन च सेटौ किदवा स्याताम नत स्व. न्तात् । दिद्युतिषते-दिद्योतिषते । लिलिखिपति-लिलेखिषति । अव इति किम् । दिदेविषति । वृद्ध्यः स्यसनोरित्यात्मनेपदविकल्पे, न वृद्भ्य इति परस्मैपदे, इनिषेधे च, विवृत्सति-विवर्तिषते। कृतवृतनृतेतीविकल्पे निनृत्सति निनतिपति । इवृधभ्रस्जदम्भश्रियूर्णभरज्ञपिसनित- . • निपतिवृद्दरिद्रः सनः ॥ १३॥... इवन्तादृधादिभ्य ऋदन्तेभ्यो दरिद्रश्च सन आदिरिड् वा स्यात् । दिव् अनुनासिके च छु: शूट । दुबूषति-दिदेविषति । ऋध ईत् ॥ १४ ॥ ऋधः सादौ सनि ईत्स्यात् न चास्य द्विः। For Personal & Private Use Only Page #266 -------------------------------------------------------------------------- ________________ २५८ हैमलघुप्रक्रियाव्याकरणे . इसति अदिधिषति । बिभर्जिषति-विभ्रक्षति । भर्जादेशे, विभक्षति-बिभर्जिपति । .. ..., दम्भो धिपधीप् ॥ १५॥ . दम्भः सि सनि धिषधीपौ स्याताम् । न च द्विः। धिप्सति-धीप्सति । दिदम्भिषति । शिश्रीषति-शिश्रविति । यु सौनो धातुः । युयूषति। __ओर्जान्तस्थापवर्गेऽवणे ॥ १६॥ • द्वित्वे पूर्वस्य उतोऽवर्णान्ते जान्तस्थापवर्गे परे सनि इः स्यात् । यियविषति । श्रुस्नुपलच्योर्वा ॥ १७ ॥ शिश्रावयिषति शुश्रावयिषति । प्रोणुनूषति प्रोणुनविषति । भृगः स्वरहनेति दीः ओष्ठ्यादुर् । बुभूषति-विभरिषति । ज्ञप्यापी ज्ञीपीप न च द्विः॥१८॥ • ज्ञपेरापेश्च सि सनि यथासंख्यं ज्ञीपीपौ स्याताम् । जीप्सति जिज्ञपयिषति । - सनि ॥ १९॥. सनेधुंडादौ सन्याः स्यात् । सिपासति । सिसनिषति। णिस्तोरेवाऽखदखिदसहः षणि ॥२०॥ स्वदादिवर्जानां ण्यन्तानां स्तोरेव च सकारस्य For Personal & Private Use Only Page #267 -------------------------------------------------------------------------- ________________ सम्प्रक्रिया। नाम्यादेः परस्य षत्वभूते सनि परे पोभवति, नान्येषामिति षत्वं न भवति । __ तनो वा ॥ २१ ॥ तनो धुडादौ सनि दीपों वा स्यात् । तितांसति-तितंसति-तितनिषति । रभलभशकपतपदामिः ॥ २० ॥ एषां स्वरस्य सि सनि इः स्यान्न च द्विः । पित्सति पिपतिषति । प्रावुर्षति प्राविवरिषति २। वुव्र्षते विवरिषति २ । तितीर्षति तितरीषति २ । दिदरिद्रासति दिदरिद्रिषति । ऋमिपूङञ्जशोकृगृदृधृप्रच्छः ॥ २३ ॥ एभ्यों दशभ्यः परस्य सन आदिरिट् स्यात् । अरिरिषति। सिस्मयिषते । पिपविमति अजिजिषति अशिशिषते।चिकरीषति २।जिजगरीपतिी मादिदरिषते । आदिधरिषते । उद्दिधीधुरिति तु भ्वादिकस्य रूपम् । रुदविदेति सनः कित्त्वे, पिपृच्छिपति। आप्तुमिच्छति ईप्सति। आरिप्सते। लिप्सति । शको जिज्ञासायाम् ॥ २४ ॥ शकः सन्नन्तादस्मिन्नर्थे आत्मनेपदं स्यात् । विद्यां शिक्षते । अन्यत्र शिक्षति । स्थातुमिच्छति तिष्ठासति ।. .. .. . . . For Personal & Private Use Only Page #268 -------------------------------------------------------------------------- ________________ हैमलघुप्रक्रियाव्याकरणे मिमीमादामित्स्वरस्य ॥ २५ ॥ एषां दासंज्ञानां च सि सनि इत्स्यान्न च द्विः । मित्सति - मित्सते । दित्सति २ । धित्सति । २६० राधेर्वधे ॥ २६ ॥ सि सनि स्वरस्य इः स्यात् । प्रतिरित्सति । अन्यत्र आरिरात्सति गुरून् । दीङः ॥ २७ ॥ 1 सनि वा आत्स्यात् । दिदासते - दिदीषते । अव्याप्यस्य मुचेर्मोग वा न च द्विः । मोक्षति-मुमुक्षति | सकर्मणस्तु मुमुक्षति वत्सम् । गुप्तिजोर्गहक्षान्तौ सन् ॥ २८ ॥ गुपो गर्हायां तिजः क्षान्तौ च वर्तमानात्स्वार्थे सन् स्यात् । जुगुप्सते तितिक्षते । कितः संशयप्रतीकारे ॥ २९ ॥ संशयप्रतीकारार्थात्कितः स्वार्थे सन् स्यात् । विचिकित्सति चिकित्सति । शान्दान्मान्बधान्निशानार्जव विचारवैरूप्ये दीर्घश्वेतः ॥ ३० ॥ एभ्यश्चतुभ्र्यो निशानाद्यर्थेभ्यः स्वार्थे सन् For Personal & Private Use Only Page #269 -------------------------------------------------------------------------- ________________ - यक्रिया । २१ स्यात् । दीर्घश्च द्वित्वे पूर्वस्येतः । शीशांसति २। दीदांसति २ । मिमांसते । बीभत्सते । .. इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविज... ... यगणिविरचितायां हैमलघुप्रक्रियायां सन्प्रक्रिया समाप्ता । अथ यप्रक्रिया। व्यअनादेरेकखरादृशाभीक्ष्ण्ये यङ् वा ॥१॥ अमुख्यक्रियाणामधिश्रयणादीनां क्रियान्तराव्यवधानेन साकल्येन संपत्तिः फलातिरेको वा भृशत्वम् , मुख्यक्रियायाः पाकादेः क्रियान्तराव्यवधानेनावृत्तिराभीक्ष्ण्यम् , तद्विशिष्टार्थवृत्तेर्व्यञ्जनादेरेकस्वराद्धातोर्य वा स्यात् । डकार आत्मनेपदार्थः । सन्यङश्चेति द्वित्वे आगुणावन्यादेः॥२॥ यडन्तस्य द्वित्वे पूर्वस्य न्याद्यागमवर्जस्य आगुणौ स्याताम् । भृशं पुनः पुनर्वा पचतीति पापच्यते ४। अतः ॥३॥ अकारान्ताद्धातोर्विहितेऽशिति प्रत्यये तस्यैव धातो गन्तादेशः स्यात् । For Personal & Private Use Only Page #270 -------------------------------------------------------------------------- ________________ २२. हैमलधुप्रक्रियाव्याकरणे योऽशिति ॥ ४॥ . धातोय॑ञ्जनासरस्य योऽशिति प्रत्यये लुक् स्यात् । अपापचिष्ट ५। पापचांचक्रे ६ । पापचि. षीष्ट ७ । पापचिता ८। पापचिष्यते ९ । अपापचिष्यत १०। अत्यतिमूत्रिमूत्रिमध्यशूर्णोः ॥५॥ एभ्यः सप्तभ्यो भृशाभीण्य यया स्यात् । स्वरादेर्द्वितीय इति व्यस्य द्वित्वे, व्यञ्जनस्यानादे गिति पूर्वस्य युलुकि, आत्वे च, अटाट्यते । क्ययडनशीर्ये इति गुणे अयिर इत्यत्र यवर्जनाये परे रो द्वित्वं स्यादेव । अरार्यते । सोसून्यते । मो. मूत्र्यते । सोसूच्यते । अशाश्यते । प्रोनूयते । दीर्घश्चीति दीर्थे, तोष्ट्रयते ।. . प्रत्ाास्कृटिले ॥६॥ • व्यञ्जनादेरेकस्वराद्गत्यर्थात् कुटिल एवार्थे वर्तमानाद्धातोयङ् स्यात् । मुरतोऽनुनासिकस्य ॥ ७॥ आसरो योऽनुनासिकस्तदन्तस्य बढि द्वित्वे पूर्वस्य मुरन्तः स्यात् । चङ्गम्यते । तौमुमोरित्यनुस्वारः। गृलपसदचरजपजभदशदहो गर्खे ॥८॥ . For Personal & Private Use Only Page #271 -------------------------------------------------------------------------- ________________ यअक्रिया। २६३ गार्थेभ्य एभ्योऽष्टाभ्यो यङ् स्यात् । ऋतां कितीतीरादेशे (ग्रो यङि रोल् स्यात् ) निजेगिल्यते, लोलुप्यते, सासद्यते। चरफलाम् ॥९॥ एषां यङि द्वित्वे पूर्वस्य मुरन्तः स्यात् । ति चोपान्त्यातोऽनोदुः ॥ १० ॥ चरफलां यडि तादौ च प्रत्यये उपान्त्यस्यात ः स्यात् , अनोदिति तस्य गुणो न स्यात् । चञ्चूयेते, पम्फुल्यते । जपजभदशदहभञ्जपशः ॥ ११ ॥ एषां षण्णां यङि द्वित्वे पूर्वस्य मुरन्तः स्यात् । जञ्जप्यते । जञ्जभ्यते । दंदश्यते । दंदह्यते । बंभज्यते।पंपश्यते। (सिचो यडि षत्वं न स्यात्*) सेसिच्यते। न गृणाशुभरुचः॥ १२ ॥ एभ्यस्त्रिभ्यो यङ् न स्यात् । निन्धं गृणाति । भृशं शोभते । भृशं रोचते । ईय॑ञ्जनेऽयपि ॥ १३॥ गापास्थासादामाहाकां यपूवर्जकृित्यशिति व्यअनादावीः स्यात् । जेगीयते पेपीयते इत्यादि । (घ्राध्मोर्यडि ईः स्यात्*) जेघीयते देध्मीयते । तू तेतीर्यते । (हनो नीर्वधे*) जेन्नीयते । वधे इति किम् । गतौ जङ्गम्यते। For Personal & Private Use Only Page #272 -------------------------------------------------------------------------- ________________ २६४ हैमलघुप्रक्रियाव्याकरणे. किति यि शय् ॥ १४॥ शीडः विति यादौ शय् स्यात् । शाशय्यते । ऋतो रीः॥१५॥ चियड्यक्येषु परेषु ऋदन्तस्य ऋतोरीः स्यात्। चेक्रीयते । ऋत्मतां ॥१६॥ ऋमतां यङन्तानां द्वित्वे पूर्वस्य रीरन्तः स्वात्। (नृतेर्यडि नो ण् न स्यात्*) नरीनृत्यते परीपृ. च्छयते । क्ययडगशीर्ये इति गुणे ततो द्वित्वे सास्मर्यते । वा परोक्षायडीति वृद्विकल्पे शोशूयते शेश्वीयते। वञ्चत्रंसध्वंसशकसपतपदस्क न्दोऽन्तो नीः ॥ १७॥ एषामष्टानां यडि द्वित्वे पूर्वस्य नीरन्तः स्यात्। नो व्यञ्जनस्येति नलुपि, वनीवच्यते सनीलस्यते इत्यादि । (व्येस्यमोर्यडि स्वृत् स्यात्*) वेवीयते सेसिम्यते । (चायः कीर्यडि* ) चेकीयते । वशेरयडीति वृनिषेधात्, वावश्यते । बोभूयते ४ । अबोभूयिष्ट ५ बोभूयांचक्रे । इति यडन्तप्रक्रिया। For Personal & Private Use Only Page #273 -------------------------------------------------------------------------- ________________ यङ्लुगन्तप्रक्रिया | अथ यङ्लुगन्तप्रक्रिया । बहुलं लुप् ॥ १ ॥ यङो लुप् बहुलं स्यात् । क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः कचिद्विभाषा क्वचिदन्यदेव | विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥ १ ॥ यङ्लुगन्तं परस्मैपदेऽदादिवद्बोध्यम् । यतुरुस्तोरिति वा ईडागमे बोभवीति - बोभोति बोभूतः बोभुवति बोभोषि, इत्यादि १ । बोभूयात् २ बोभवीतु- बोभोतु बोभूतात् । ङित्त्वेन वित्त्वस्य बाध-नान्न गुणः, बोभूहि ३ बोभूतात् ३ । अबोभवीत्अबोभोत् अबोभूताम् । अबोभवुः ४ । पिबैतिदेति सिज्लुपि । 1 " तिवा शवानुबन्धेन निर्दिष्टं यद्गणेन च । एकस्वरनिमित्तं च पञ्चैतानि न यङ्लुपि” . इति । भवतेः सिजलुपीति गुणनिषेधाभावे अबोभोत् अबोभोताम् अबोभूवन् ५ । बोभवाञ्चकार ६ । बोभूयात् बोभूयास्ताम् ७ । न वृद्धिश्वाविति डिल्लोपे ॥ २ ॥ अविति प्रत्यये यः कितो ङितश्च लोपस्तस्मिन् सति गुणो वृद्धिश्च न स्यात् । बेभिदिता मरीमृ व्या. २३ २६५ For Personal & Private Use Only Page #274 -------------------------------------------------------------------------- ________________ २६६ हैमलघुप्रक्रियाव्याकरणे जिता । जङ्गमीति जङ्गन्ति । यमिरमिनमिगमीति म्लुपि जङ्गतः । गमहनेत्युपान्त्यलुकि जङ्मति । * मोनो म्वोश्च ॥३॥ मन्तस्य धातोरन्तस्य पदान्तस्थस्य म्वोश्च परयोनः स्यात् । जङ्गन्मि जङ्गन्वः जङ्गन्मः । चलनीति चाकुन्तीत्यादि। ___ आः खनिसनिजनः ॥ ४॥ एषां धुडादौ क्वित्याः स्यात्। चलातः चश्नति। रिरौ च लुपि ॥५॥ - ऋमतां यडो लुपि द्वित्वे पूर्वस्य रिरौ रीश्चान्तः स्यात् । चरिकरीति चर्करीति चरीकरीति ३ । चरिकर्ति-चर्कर्ति-चरीकर्ति ६ । चरिकृतः-चकृत:चरीकृतः चरिक्रति ३ । ४ । अचरिकरीत् ३।५। चरिकरामास३।।चरिक्रियात् ३।७। चरिकरिता नरिनत्ति ३ नरीनृतीति ३। वरिवर्ति वरीवर्ति ३ । अवरिवृतीत् ३ । जरिगृधीति ३ । जरिगृद्धि ३। अजरिघ अजरिगृद्धाम् । रुत्वं लुगूदीघौं। अजर्घाः। जाग्रहीति-जाग्राढि जागृढः जागृहति । जाग्रहीषि-जाघ्रक्षि जाग्रहिता । पापच्छीति। अनुनासिके चेति शत्वे पाप्रष्टि पापृष्टः पापृच्छति पाप्रश्मि पापृष्ठः। - इति यङ्लुगन्तप्रक्रिया। For Personal & Private Use Only Page #275 -------------------------------------------------------------------------- ________________ नामधातुप्रक्रिया । अथ नामधातुप्रक्रिया। काम्यक्यणिज्युतान्तानि विपक्य डन्तानि यानि च ॥ तानि नामानि धातुत्वं यान्ति ते नामधातवः ॥१॥ द्वितीयायाः काम्यः॥१॥ द्वितीयान्तादिच्छायो काम्यो वा स्यात् । इदमिच्छति इदंकाम्यति ४। ऐदंकाम्यीत् ५। इदंकाम्यांचकार ६ । इदकाम्यात् ७। इदकाम्यिता ८ । इदंकाम्यिष्यति ९ । ऐदंकाम्यिष्यत् १०।। अमाव्ययात् क्यन् च ॥२॥ मान्ताव्ययवर्जाद्वितीयान्तादिच्छायां क्यन् कीम्यश्च वा स्यात् । -.. अवर्णान्तस्य क्यनि ईः स्यात् । पुत्रमिति पुत्रीयति ४ । अपुत्रीयीत् अपुत्रीयिष्टाम् ५। पुत्रीयामास ६ । पुत्रीयिता ८ । पुत्रीयिष्यति ९। • आधाराच्चोपमानादाचारे ॥४॥ मान्ताव्ययवर्जादुपमानाद्वितीयान्तादाधाराच्च नाम्न आचारे क्यन् वा स्यात् । पुत्रमिषाचरति पुत्रीयति छात्रम् । प्रासादे इवाचरति प्रासादीयति कुट्याम् । .... For Personal & Private Use Only Page #276 -------------------------------------------------------------------------- ________________ . १६४ हैमलघुप्रक्रियाव्याकरणे कर्तुः विप् गल्भक्लीबहोडातु ङित् ॥ ५॥ कर्तरुपमानादाचारेऽर्थे क्विप् वा स्यात् गल्भादिभ्यस्तु स एव डिन्त् । अश्व इवाचरति अश्वति प्रगल्भते क्लीबते होडते। क्यङ्॥६॥ कर्तुरुपमानादाचारे क्यङ् वा स्यात् । दीर्घवीति दीर्घे, हंसायते ४ । अहंसायिष्ट ५। हंसायांचक्रे ६। हंसायिषीष्ट ७।(सो वा लुक् च क्यडिन्) पयायते पयस्यते । (ओजोप्सरसो नित्यं स्लुक्*) ओजायते अप्सरायते । ऋतो री, मात्रीयते । क्यङ्मानिपित्तद्धिते इति पुंवद्भावे श्येनीवाचर. तीति श्येतायते काकः। नं क्ये ॥७॥ नान्तं नाम क्ये परे पदं न स्यात् । राजीयति राजायते । व्यक्ये इत्यवादेशे गव्यति गव्यते। डाच लोहितादिभ्यः षित् ॥ ८॥ . एभ्यः कर्तृभ्यश्चवर्थे षित् क्यङ् स्यात् । .. क्यक्षो नवा ॥९॥ -क्यासन्तादात्मनेपदं वा स्यात् । पटपटायति, पटपटायते । लोहितायति, लोहितायते इत्यादि । तपसः क्यन् ॥१०॥ For Personal & Private Use Only Page #277 -------------------------------------------------------------------------- ________________ नामधातुप्रक्रिया। . २६९ अस्मात्कर्मणः कृतावर्थे क्यन् वा स्यात् । तपः करोति तपस्यति। नमोवरिवश्चित्रोऽर्चासेवाश्चर्ये ॥ ११॥ एभ्यः कर्मभ्यो यथासंख्यमर्चादिष्वर्थेषु क्यन् वा स्यात् । नमस्यति । वरिवस्यति । चित्रीयते । क्षुत्तुड्ग शनायोदन्यधनायम् ॥१२॥ एवर्थेषु यथासंयमशनायादयः क्यन्नन्ता निपात्यन्ते ॥ अशनायति । उदन्यति । धनायति । वृषाश्वान्मैथुने स्सोऽन्तः॥ १३ ॥ . आभ्यां मैथुनार्थाभ्यां क्यनि स्सोऽन्तः स्यात् । वृषस्यति गौः । अश्वस्यति वडवा । अस् च लौल्ये ॥१४॥ __ भोगेच्छातिरेको लौल्यं तत्र गम्ये क्यनि परे नाम्नः स्सोऽभूचान्तः स्यात् । हिसकारपाठानास्य पत्वम् । दधिस्यति दध्यस्यति । 'णिज्बहुलं नाम्नः कृगादिषु ॥१५॥ कृगादीनां धातूनामर्थे नानो णिज् बहुलं स्यात् । त्रन्त्यस्वरादेरित्यन्त्यस्वरादिलुकि, मुण्डं करोति मुण्डयति छात्रम् । पटुमाचष्टे पटयति । वृक्षं रोपयलि वृक्षयति । कृतं गृह्णाति कृतयति । सत्यार्थवेदस्याः ॥ १६॥ . Heric For Personal & Private Use Only Page #278 -------------------------------------------------------------------------- ________________ _हैमलघुप्रक्रियाव्याकरणे : एषां णिच्सनियोगे आः स्यात् । सत्यापति अर्थापयति । वेदापयति। प्रियस्थिरेत्यादिना प्राधा देशे, शियमाचष्टे प्रापयति इत्यादि । स्थूलदूरेत्या दिना, स्थूलमाचष्टे स्थवयति। इति नामधातुप्रक्रिया ।। ... -LEM अथ भावकमणोः प्रक्रिया। तत्साप्यानाप्यारकर्मभावे कृत्यक्त खलाश्च ॥१॥ तदात्मनेपदं कृत्यक्तखलाश्च प्रत्ययाः सकर्मकाद्धातोः कर्मणि अकर्मकादविवक्षितकर्मकाच्च भावे स्युः। सिति ॥२॥ सर्वस्माद्धातो वकर्मविहित शिति क्यः स्यात्। अत्र कर्मणि प्रत्ययविधानेनोक्तत्वात्कर्मणि प्रथमा। कर्मापेक्षाण्यर्थवचनानि च। नीहवहिकृषोण्यन्तादुहिमच्छिचिरुधिशास्वर्थाः। पचियाचिदंडिकृगृहमथिजिप्रमुखा द्विकर्माणः ॥१॥ For Personal & Private Use Only Page #279 -------------------------------------------------------------------------- ________________ भावकर्मणोः प्रक्रिया। गौणे कर्मणि दुह्यादेः प्रधाने नीकृष्वहाम् । . बुद्धिभक्ष्यार्थयोः शब्दकर्मणां च निजेच्छया । । प्रयोज्यकर्मण्यन्येषां ण्यन्तानामुक्तता मता। . पठ्यते ग्रन्थः शिष्येण, पठ्येते ग्रन्थौ, पठ्यन्ते ग्रन्थाः । पठ्यसे त्वं पठ्ये अहं ।। भावकर्मणोः ॥३॥ ' सर्वस्माद्धातोर्माणमविहिज्यवन्याते बिच Simla पठिषाता an ५। पेठे ६ । पठिषीष्ट ७ । पठिता ८ । पठिष्यते ९। अपठिष्यत १० । ऋतो रिः शक्याशीर्थे । क्रियते १। क्रियेत २। क्रियताम् ३ । अक्रियत ४॥ अकारि। ....... . . खरग्रहहहन्भ्यः स्यसिजाशीः। ___श्वस्तन्यां निड् वा ॥ ४॥ स्वरान्ताबहादेश्च स्यसिजाशीश्वस्तनी लिई वा स्यात् । नामिनोऽकलिहलेरिति वृद्धौ । अकारि अकारिषाताम्-अकृषाताम् अकारिषत-अकृषत ५। चक्रे ६ । कारिषीष्ट-कृषीष्ट ७ । कारिता-कर्ता ८॥ कारिष्यतेकरिष्यते ९ । अकारिष्यत-अकरिष्यत् १० । ईय॑ञ्जने यपि दीयते । : आत ऐः कृऔ॥ ५॥... ... आदन्तस्य धातोणिति कृति लौ च मे --. . . . . - . .. . For Personal & Private Use Only Page #280 -------------------------------------------------------------------------- ________________ २७२ हैमलघुप्रक्रियाव्याकरणे स्यात् । अदायि अदायिषाताम् । पक्षे इश्व खादः। अदिषाताम् ५। ददे ६ । दायिषीष्ट-दासीष्ट ७ । दायिता-दाता ८ । दायिष्यते-दास्यते ९ । गृह्यते ४। अग्राहि अग्राहिषाताम्-अग्रहीषाताम् अग्राहिवम्अ. ग्राहिध्वम्-अग्रहीद्वम् २ । जगृहे ६ । ग्राहिषीष्टग्रहीषीष्ट माहिषीदम्-अहिषीदम् ,२।७।ग्राहिता-ग्रहीता ग्राहियते महीयते । अदर्शि अदर्शिषाताम्अहक्षाताम् ५। ददृशे ६। दर्शिषीष्ट-दृक्षीष्ट ७॥दर्शिता-द्रष्टा ८ दर्शिष्यते-द्रक्ष्यते । जिणवि घन् । अघानि अघानिषाताम् । अद्यतन्यां वा त्वात्मने इति वा वधादेशे, अवधि अवधिषाताम्-अहसाताम् ५। जन्ने ६ । घानिषीष्ट । हनो वध आशिष्यो । वधिषीष्ट ७ घानिता-हन्ता ८ घानिष्यते-हनिप्यते ९। ये नवा ॥६॥ खनिसनिजनां ये कित्या वा स्यात् । खायतेखन्यते । सायते-सन्यते । जायते-जन्यते। तनः क्ये आ वा स्यात् , तायते-तन्यते । अमोऽकम्यमीति वा दीर्घे, अशामि-अशमि अशामिषाताम्-अशमिषाताम् । ण्यन्तत्वाभावे.। मोऽकमियमिरमिनमिगमिवम्याचमः ॥७॥ कम्यादिवर्जमान्तस्य धातोणिति कृति औ च For Personal & Private Use Only Page #281 -------------------------------------------------------------------------- ________________ AMRAP AL भावकर्मणोः प्रक्रिया। २७३ वृद्धिर्न स्यात् । अशमीति निषेधे अकामि । (विश्रमेर्वा*) व्यश्रामि-व्यश्रमि। .. मिणमोर्वा ॥ ८॥ लभः स्वरान्नोन्तो वा स्यात् नौ रुणमि च । अलाभि-अलम्भि । भञ्जनौं वा लोपः स्यात् । अभाजि-अभञ्जि । भावो धात्वर्थस्तस्यैकत्वादात्मनेपदैकवचनम् । चैत्रेण भूयते १०॥ लज्जासत्तास्थितिजागरणं वृद्धिक्षयभयजीवितमरणम् । शयनक्रीडारुचिदीत्यर्था धातव एते कर्मविमुक्ताः ॥१॥ अविवक्षितकर्मकोऽप्यकर्मक एव । पच्यते १० । अकर्मकोप्युपसर्गवशात् सकर्मतामेति । अनुभूयते सुखं साधुना । अन्वभावि अन्वभविषाताम्-अन्वभाविषाताम् ५। एकधातौ कर्मक्रिययैकाऽकर्मक्रिये ॥९॥ एकस्मिन्धातौ कर्मस्थक्रियया पूर्वदृष्टया एका अभिन्ना संप्रत्यकर्मिका क्रिया यस्य तस्मिन्कर्तरि कर्मकर्तृरूपे धातोर्जिक्यात्मनेपदानि स्युः। उक्तं च। यत्र कर्मैव कर्तृत्वं याति कर्ता तु नोच्यते । जिक्यात्मनेपदं धातोरुक्तिः सा कर्मकर्तरि २। For Personal & Private Use Only Page #282 -------------------------------------------------------------------------- ________________ १७४ हैमलघुप्रक्रियाव्याकरणे -- अकारि । स्वरदुहो वा त्रिच्-अकृत क्रियते करिष्यते वा कटः स्वयमेव । पंचिदुहेः अपाचि फे च्यते पक्ष्यते वा ओदनः स्वयमेव । अदोहि दुग्धे अदुग्ध गौः स्वयमेवेत्यादि । क्वचित् जिक्यौ न स्याताम् । अलमकृत अलंकुरुते कन्या स्वयमेव । इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचिताया हैमलयप्रक्रियायामाख्यातप्रक्रिया समाप्ता। - इति द्वितीया वृत्तिः संपूर्णा ॥ .. . " अथ कृदन्तप्रक्रिया निरूप्यते ॥ आतुमोऽत्यादिकृत् बहुलम् ॥ १॥ इत्यादि । कर्तरि ॥२॥ कृपयपियोति विना कर्तरि स्यात् । ... ___णकतृचौ ॥३॥ धातोरेतौ स्याताम् । करोतीति कारकः कर्ता । सेटां-स्ताद्यशित इतीडागमे एधिता । धूगौदित इति वेटि गोप्ता गोपिता । सैहिवहेरिति सोढा वोढा । णितीत्युपान्त्यवृद्धौ पाचकः । - अच् ॥ ४॥. ___ धातोरच् स्यात् । करः हरः। For Personal & Private Use Only Page #283 -------------------------------------------------------------------------- ________________ कृदन्तप्रक्रिया। लिहादिभ्यः ॥ ५॥ एभ्योऽच् स्यात् । लेहः शेषः। ब्रुवः ॥६॥ ब्रूगोऽचि ब्रुवः स्यात् । ब्राह्मणब्रुवः । नन्द्यादिभ्योऽनः ॥७॥ नन्दनः सहनः। ... ग्रहादिभ्यो णिन् ॥ ८॥ .. गृह्णातीति ग्राही । तिष्ठतीति स्थायी । 'नाम्युपान्त्यप्रीकृगृज्ञः कः ॥९॥ नाम्युपान्त्येभ्यः प्रयादिभ्यश्चतुर्थ्यश्च कः स्यात् । क्षिपः प्रियः किरः गिरः ज्ञः। घ्राध्मापाट्धेदृशः शः ॥१०॥ एभ्यः शः स्यात् । शकारः शित्कार्यार्थः। जिघ्रः उद्धमः पिबः उद्धयः उत्पश्यः। साहिसातिवेद्युदेजिधारिपारिचेते रनुपसर्गात् ॥ ११ ॥ । एभ्योऽनुपसर्गेभ्यो ण्यन्तेभ्यः शः स्यात् । साहयः सातयः वेदयः उदेजयः धारयः पारयः चेतयः। नृत्खनञ्जः शिल्पिन्यकट् ॥ १२॥ एभ्यः शिल्पिनि कर्तर्यकटू स्यात् । नर्तकः खनका रजकः । ..... T HERS . .. For Personal & Private Use Only Page #284 -------------------------------------------------------------------------- ________________ हैमलघुप्रक्रियाव्याकरणे गस्थकः टनणू च ॥ १३ ॥ गः शिल्पिनि कर्तर्येतौ स्याताम् । गाथकः । आत ऐः कृञौ, गायनी । २७६ तिकृतौ नानि ॥ १४ ॥ आशीर्विषये संज्ञायां गम्यायां तिकृतश्च सर्वे प्रत्ययाः स्युः । अहन्पञ्चमस्य किङ्किति ॥ १५ ॥ हन्वर्जपञ्चमान्तस्य कौ धुडादौ किति च दीर्घः स्यात् । शम्यादित्याशास्यमानः शान्तिः । क्वचित्तिकि न दीर्घः । रन्तिः । वर्धतामित्याशास्यमानो वर्धमानः । कर्मणोऽण् ॥ १६ ॥ कर्मणः पराद्धातोरण स्यात् । कुम्भं करोतीति कुम्भकारः । आतोडोऽह्वावामः ॥ १७ ॥ कर्मणः परादनुपसर्गात् ह्वावामावर्जादादन्ताद्धातोर्डः स्यात् । गोदः । अह्वावाम इति किम् । स्वर्गह्रायः तन्तुवायः धान्यमायः । आशिषि हनः ॥ १८ ॥ कर्मणः पराद्धन्तेराशिषि गम्यायां डः स्यात् । शत्रुहः । For Personal & Private Use Only } Page #285 -------------------------------------------------------------------------- ________________ 12 - कृदन्तप्रक्रिया । २७७ क्लेशादिभ्योऽपात् ॥ १९॥ क्लेशादेः कर्मणः परादपपूर्वाद्धन्तेर्डः स्यात् । क्लेशापहः तमोपहा । ___ अचित्ते टक् ॥२०॥ कर्मणः पराद्धन्तेरचित्तवति कर्तरि टक् स्यात् । वातघ्नं तैलम् । अधिक इति किम् । पापघातो यतिः । ब्रह्मादिभ्यः ॥२१॥ एभ्यः कर्मभ्यः पराद्धन्तेष्टक् स्यात् । ब्रह्मनः गोघ्नः पापी । राजघः निपातोऽयम्। कुक्ष्यात्मोदराद्धृगः खिः ॥ २२॥ __ एभ्यः कर्मभ्यः पराद्भगः खिः स्यात् । ख इत्। खित्यनव्ययाऽरुषोर्मोऽन्तो दुखश्च ॥ २३ ॥ स्वरान्तस्यानव्ययस्यारुषश्च खित्प्रत्ययान्ते उत्तरपदे मोऽन्तो यथासंभवं ह्रस्वश्च स्यात् । कुक्षि म्भरिः, आत्मम्भरिः,, उदरम्मरिः। ___अर्होऽच् ॥ २४॥ कर्मणः परादर्हेरच् स्यात् । पूजाहः साधुः, पूजाहो साध्वी। धनुर्दण्डत्सरुलाङ्गलाङ्कुशर्टियष्टिश. तितोमरघटाद्रहः ॥२५॥ व्या. २४ । For Personal & Private Use Only Page #286 -------------------------------------------------------------------------- ________________ . . . २७८ हैमलघुप्रक्रियाव्याकरणे एभ्यो दशभ्यः कर्मभ्यः पराब्रहेरच् स्यात् । धनुर्ग्रहः। आयुधादिभ्यो धृगोऽदण्डादेः ॥ २६ ॥ दण्डादिवर्जादायुधादेः पराद्धृगोऽच् स्यात् । धनुर्धरः। भूधरः। अदण्डादेरिति किम् । दण्डधारः। हगोवयोऽनुद्यमे ॥ २७ ॥ . कर्मणः पराद्धगो वयस्यनुद्यमे गम्येऽच् स्यात् । अस्थिहरः श्वा । उद्यम उत्क्षेपणमाकाशस्थस्य वा धारणं तदभावे-मनोहरा सक् । उद्यमे तु भारहारः । (आङः शीले*) पुष्पाहरः (दृतिनाथापशाविः* ) दृतिहरिः श्वा । नाथहरिः सिंहः । रजःफलेमलाद्रहः ॥२८॥ एभ्यः कर्मभ्यः पराग्रहेरिः स्यात् । रजोग्रहिः, फलेग्राहि मलाहिः। देववातादापः ॥ २९ ॥ आभ्यामाप इ: स्यात् । देवापिः वातापिः । शकृत्स्तम्बादत्सवीही कृगः ॥३०॥ आभ्यां कर्मभ्यामनयोः कोंः कृग इ. स्यात् । शकृत्करिः वत्सः, स्तम्बकरिीहिः । ( किंयत्तरहोर:* ) किंकरः यत्करः तत्करः बहुकरः । सङ्ख्याऽहर्दिवाविभानिशाप्रभाभा For Personal & Private Use Only Page #287 -------------------------------------------------------------------------- ________________ .. कृदन्तप्रक्रिया। २७९ श्चित्रकाद्यन्तानन्तकारबाहरुधनु र्नान्दीलिपिलिविबलिभक्तिक्षेत्रजबाक्षपाक्षणदारजनिदोषादिनदिव. साहः ॥३१॥ एभ्योऽष्टाविंशतः परात् कृगष्टः स्यात् । सं. ख्याकर इत्यादि ... क्षेमप्रियमद्रमद्रात् खाऽण् ॥३२॥ एभ्यश्चतुर्व्यः परात्कृगः खाऽणौ स्याताम् । क्षेमंकरः क्षेमकारः। मेघर्तिभयाऽभयात्खः ॥ ३३ ॥ - एभ्यश्चतुर्व्यः परात्कृगः खः स्यात् । मेर्घकरः ऋतिकरः भयंकरः अभयंकरः । (प्रियवशाद्वदः खः*) प्रियंवदः वशंवदा । द्विपंतपपरंतपौ निपातौ। (परिमाणार्थमितनलालपा सक) प्रस्थंपचः मितंपचः नखंपचः । (कूलाभ्रकरीपात्कषः ख:* ) कूलंकषा अभ्रंकषा करीषंकषा। सर्वात्सहश्च ॥३४॥ सर्वपूर्वात्सहेकषेश्च खः स्यात् । सर्वसहः सर्वकषः। मन्याणिन् ॥ ३५॥ कर्मणः परान्मन्यतेर्णिन् स्यात् । पण्डितमानी बन्धोः । For Personal & Private Use Only Page #288 -------------------------------------------------------------------------- ________________ U १० हैमलघुप्रक्रियाव्याकरणे कर्तुः खश् ॥ ३६॥ प्रत्ययार्थात्कर्तुः कर्मणः परान्मन्यतेः खश् स्यात्। आत्मानं पण्डितं मन्यते इति पण्डितंमन्यः। एजेः ॥ ३७॥ कर्मणः परादेजेः खश् स्यात् । जनमेजयः। शुनीस्तनमुञ्जकूलास्यपुष्पातू वे ॥३८॥ एभ्यः परात् वे खश स्यात् । शुनीन्धयः । __ नाडीघटीखरीमुष्टिनासिका वाताद् ध्मश्च ॥ ३९॥ एभ्यः षड्भ्यो ध्मः द्वेश्च खश् स्यात् । नाडीधमः । नाडीधयः । (पाणिकरात ध्मः खशूर) पाणिंधमः । (वहाऽभ्रालिहा*) बहलिहा अभ्रलिहः । (बविश्वास्तिलानुदा) बहुंतुदः । (ललाटबातशर्धात्तपाजहाक:*) ललाटंतपः । (असूर्योग्राद् दृशः* ) असूर्यपश्या राजदाराः । (कूलादुद्रुजोद्वहा*) कूलमुदुजो गजः । कूलमुद्रहा नदी । इरंमदः निपातोऽयम् । नमपलितप्रियान्धस्थूलसुभगाढ्यतदन्ताच्च्यर्थेऽच्वेर्भुवः खिष्णु खुको ॥४०॥ For Personal & Private Use Only Page #289 -------------------------------------------------------------------------- ________________ कृदन्तप्रक्रिया। नग्नादिम्यः सप्तभ्यस्तदन्तेभ्यश्चाव्यन्तेभ्यश्चव्यर्थवृत्तिभ्यः पराद्भुवः खिष्णुखुको स्याताम् । अनग्नो नग्नो भवतीति नग्नंभविष्णुः नग्नंभावुकः । तदन्ते सुनग्नंभविष्णुः सुनग्नंभावुकः इत्यादि । कृगः खनट् करणे ॥४१॥ नग्नादिसप्तकादच्च्यन्ताच्चव्यर्थवृत्तेः परात् कृगः करणे खनट् स्यात् । अनमो नमः क्रियतेऽनेनेति नग्नकरणं द्यूतम् । सुनग्नकरणम् । नान्नो गमः खड्डौ च विहायसंस्तु . विहः ॥ ४२ ॥ नाम्नः पराद्गमेः खड्डुखाः स्युः विहायसो विहश्च । तुरंगः विहंगः । तुरगः विहंगः । तुरंगमः विहंगमः। . शोकापनुदतुन्दपरिजस्तम्बरमकऐजपं प्रियालसहस्तिसूचके ॥४॥ एते चत्वार एषु चतुर्वर्थेषु निपात्याः। दुहेर्छघः ॥४४॥ नाम्नः पराड्दुहेर्डेघः स्यात् । कामदुधा । ____भजो विण ॥४५॥ नाम्नः परागजो विण् स्यात् । अर्द्ध भजतीति अर्द्धभाक् । For Personal & Private Use Only Page #290 -------------------------------------------------------------------------- ________________ - .. -... राराध्याय एव टक्सको क्विा च स्युः। अन्यत्यदादेराः ॥ ५१॥ अन्यस्य त्यदादेश्च दृगादावुत्तरपदे आः स्यात् । - - __वनि पञ्चमस्य आङ् स्यात् । विजायते इति विजावा । क्वनिए सुधीवा । विच् शुभंयाः। विप् ॥ ८॥ नाम्नः पराद्धातोर्यथालक्ष्यं क्विप् स्यात् । संसध्वंसेत्यादिना दत्वे, उखासत् । प्रशाम्यतीति मो नो म्बोश्चेति नत्वे, प्रशान् । दिद्युद्ददृज्जगज्जुहूवाताधीश्रीशतसूज्वायतस्तूकटप्रूपरिव्राज्राजा दयः किफ ॥४९॥ एते किंवन्ता निपात्याः । तत्त्वप्राट् तत्त्वप्राशौ। त्यदाद्यन्यसमानादुपमानाद्याप्ये दृशष्टक्सको च ॥५०॥ एभ्य उपमानेभ्यो व्याप्येभ्यः परादृशेाप्य एव टक्सको विप् च स्युः। अन्यत्यदादेराः ॥ ५१॥ अन्यस्य त्यदादेश्च दृगादावुत्तरपदे आः स्यात् । For Personal & Private Use Only Page #291 -------------------------------------------------------------------------- ________________ कृदन्तप्रक्रिया | स्य इव दृश्यते इति त्यादृशः त्यादृशी । त्यादृक्षः त्यादृक्षी । त्यादृक् । एवमन्यादृशः । ईदृक् । दृग्दृदृक्षे ॥ ५२ ॥ समानस्य सः स्यात् । सदृक् - ६ सदृशः ६ दृशः ६ कीदृशः ६ । इदं किमी की ॥ ५३ ॥ हगादावुत्तरपदे श्वकिमी ईत्कीरूपी स्याताम् । ईदृ ३ की ३ । कर्तुर्णिन् ॥ ५४ ॥ कर्त्रर्थादुपमानात्सराद्धातोर्णिन् स्यात् । उष्ट्र cpr क्रोशी । अजातेः शीले ॥ ५५ ॥ 1 अजातिवाचिनो नाम्नः पराद्धातोः शीलेऽर्थे वर्तमानाण्णिन् स्यात् । उष्मभोजी । अजातेरिति किम् । शालीन् भोक्ता । (साघोरतथा ) साधुकारी । ब्रह्मभ्रूणवृत्रात्कि ॥ ५६ ॥ एभ्यस्त्रिभ्यः कर्मभ्यः पराद्भूतार्थाद्धन्तेः क्विपू स्यात् । ब्रह्म हतवान् ब्रह्महा । कृगः सुपुण्यपापकर्ममन्त्रपदात् ॥ ५७ ॥ सोः पुण्यादेः कर्मणश्च पराद्भूतार्थात्कृगः क्विपू स्यात् । For Personal & Private Use Only Page #292 -------------------------------------------------------------------------- ________________ Janha ६४४ हैमलघुप्रक्रियाव्याकरणे हृखस्य तः पित्कृति ॥ ५८॥ इस्वान्तस्य धातोः पिति कृति तोऽन्तः स्यात् । सुष्टु कृतवान् सुकृत् । दृशः कनिप् ॥ ५९॥ व्याप्यापराभूतार्थादृशः क्वनिपू स्यात् । बहुदृश्वा। _णखराघोपामो रथ ॥६॥ एतदन्ताद्विहितो यो वन् तदन्तास्त्रियां डीः स्यात् तद्योगे नस्य रश्च । बहुदृश्वरी। सहराजभ्यां कृगयुधेः॥ ६१॥ आभ्यां कर्मभ्यां पराभूतार्थात्कृगः कनिप् स्पात् । सहकृत्वा सहयुध्वा । राजकृत्वा राजयुध्वा। अनोर्जनेर्डः ॥२॥ __कर्मणः परादनुपूर्वाजने तऽथ वर्तमानात् ड. स्वात् । आत्मानुजः। सप्तम्याः ॥ ६३॥ सप्तम्यन्तापराभूतेऽर्थे वर्तमानाजनेर्डः स्यात् । उपसरजः मन्दुरजः अप्सु जातं अब्जम् (पञ्चम्यास्तथा*) बुद्धिजः। (क्वचित् यथालक्ष्य जनेर्डः स्वीत) । अनुजः किसः। . क्तक्तवतू ॥ ६४॥ भूतार्थाद्धातोरेतौ स्याताम् । तत्र तत्साप्याना I COM . For Personal & Private Use Only Page #293 -------------------------------------------------------------------------- ________________ कृदन्तप्रक्रिया। २८५ प्यात्कर्मभावे कृत्यक्तखलाश्चेति वचनात् क्तः कर्मणि भावे च । क्रियते स्म कृतः कटश्चैत्रेण । स्थितं चैत्रेण । क्तवतुश्च कर्तरि । करोति स्म कृतवान् कटं चैत्रः। स्थितवांश्चैत्रः। श्लिषशीस्थासवसजनरुहजृ भजेः क्तः ॥६५॥ एभ्यो नवभ्यः कर्तरि को वा स्यात् । आश्लिष्टः कान्तां चैत्रः। आश्लिष्टा कान्ता चैत्रेण । अतिश. यितो गुरु शिष्यः । अतिशयितो गुरुः शिष्येण । उपस्थितो गुरुं शिष्यः । उपस्थितो गुरुः शिष्येण । उपासितो गुरुं सः । उपासितो गुरुस्तेन । अनूपितो गुरुं सः । अनूषितो गुरुस्तेन । अनुजातः तं सः। अनुजातः स तेन । आरूढोऽश्वं सः। आरूढोऽश्वस्तेन । अनुजीर्णस्तं सः। अनुजीर्ण: स तेन । विभक्ताः स्खं ते । विभक व र आरम्भे ॥६६॥ आरम्भार्थाद्धातोः कर्तरि को वा स्यात् । प्रकृताः कटं ते । प्रकृतः कटस्तैः। गत्यर्थाऽकर्मकपिबभुजेः॥ ६७॥ एभ्यः कर्तरि तो वा स्यात् । गतोऽसौ ग्राम। गतो ग्रामस्तैः । आसितोऽसौ आसितं तैः । पीताः पयस्ते पीतं पयस्तैः । इदं भुक्तास्ते । इदं भुक्तं तैः । For Personal & Private Use Only Page #294 -------------------------------------------------------------------------- ________________ २८६ हैमलघुप्रक्रियाव्याकरणे ज्ञानेच्छार्चार्थत्रीच्छील्यादिभ्यः क्तः ॥६॥ एभ्यः सदर्थेभ्यः कः स्यात् । राज्ञां ज्ञातः इष्टः पूजितः भिन्नः शीलितो रक्षितः। ऋल्वादेरेषां तो नोऽप्रः ॥ ६९ ॥ .. पृवर्जात् ऋदन्तात् ल्वादिभ्यश्च परेषां तिक्तक्तवतूनां तो ना खात् । तीर्णः तीर्णवान् । लूनः लूनवान् । अप इति किम् । पूर्तः पूर्तवान् । रदादमूछेमदः क्तयोर्दस्य च ॥ ७०॥ मूर्छमदवर्जाद्रदन्तात्परयोः क्तयोस्तस्य तद्योगे धातोर्दस्य च नः स्यात् । पूर्णः पूर्णवान् । भिन्नः भिन्नवान् । सूयत्याद्योदितः ॥७१॥ सूयत्यादिभ्यो नवभ्यः ओदियश्च परयोः क्तयोस्तो न खात् । सूनः सूनवान् । दूनः दूनवान् । लग्नः लग्नवान् । - व्यञ्जनान्तस्थातोऽख्याध्यः ॥७२॥ व्यञ्जनात्सरा याऽन्तस्था तदन्तस्य ख्याध्यावर्जस्य क्तयोस्तो नः स्यात् । स्त्यानः स्त्यानवान् । द्राणः २१ ग्लानः २ । अख्याध्य इति किम् । ख्यातः ध्यातः। क्षेः क्षी चाऽध्यार्थे ॥७३॥ For Personal & Private Use Only Page #295 -------------------------------------------------------------------------- ________________ कृदन्तप्रक्रिया | -२८७ क्षेस्तो नस्तद्योगे क्षेः क्षीश्च नतु घ्यार्थे । क्षीणः क्षीणवान् । अध्यार्थे इति किम् । भावकर्मके क्षितमस्य । ऋह्रीघ्राधात्रोन्दनुदविन्तेर्वा ॥७४॥ एभ्योऽष्टाभ्यः क्तयोस्तोन्वा स्यात् । ऋणं ऋतम् । हीणः हीणवान् । ह्रीतः हीतवान् । क्षैशुषिपचो मकवम् ॥ ७५ ॥ एभ्यस्त्रिभ्यः कयोर्यथासङ्ख्यं मकवाः स्युः । क्षामः क्षामवान् । शुष्कः शुष्कवान् । पक्कः पक्कवान् । (निर्वाणमवाते* ) निपातोऽयम् । निर्वाणो मुनिः । वाते तु कर्तरि । निर्वातो वातः । एवं क्षीवादयो निपाता ज्ञेयाः । क्षुधवसस्तेषाम् ॥ ७६ ॥ क्तवतुक्त्वामिट् स्यात् । क्षु आभ्यां परेषां धितः २ । उषितः २ । लुभ्यञ्चेर्विमोहाचें ॥ ७७ ॥ आभ्यां यथासङ्ख्यं विमोहन पूजार्थाभ्यां चक्तवतुक्त्वामिट् स्यात् । विलुभितः २ । अञ्चितः २ । ऋवर्णभ्यूर्णगः कितः ॥ ७८ ॥ ऋवर्णान्तादेकस्वराद्धातोः श्रेरुर्णोश्च कित इट् न स्यात् । वृतः, श्रितः, ऊर्णुतः । एकस्वरादिति किम् । जागरितः । For Personal & Private Use Only Page #296 -------------------------------------------------------------------------- ________________ हैमलंघुप्रक्रियाव्याकरणे उवर्णात् ॥ ७९ ॥ उवर्णान्तादेकस्वराद्धातोर्विहितस्य किंत इट् न भवति । युतः २ । भूतः २ । पूक्लिंशिभ्यो नवा ॥ ८० ॥ पूक्लिशिभ्यां च क्तवतुक्त्वामिट् वा स्यात् । पूतः २ पवितः २ । क्लिष्टः २ क्लिशितः २ । डीय व्यैदितः क्तयोः ॥ t n ટેટ दिवादिकस्य डीयतेः श्वेरैदिन्यश्च धातुभ्यः परयोः क्तक्तवत्वोरिट् न स्यात् । त्रस्तः २ । डीनः २ । श्वितः २ | लग्नः २ । वेटोऽपतः ॥ ८२ ॥ पतिवर्जनात्क्वचिद्विकल्पेटो धातोरेकस्वरात्परयोः क्तयोरिट् न स्यात् । नशौच नाशे, नष्टः २ । अपत इति किंम् । पतितः । न डीशीङ ङधृषिक्षिदिखिदिमिदः ८३ एभ्यः सप्तभ्यः परौ सेटौ तौ किन्न स्याताम् । डयितः २ । शयितः २ । पवितः २ । डीङ् भूवादिकः । उति शवर्हाद्भयः क्तौ भावारम्भे ॥ ८४ ॥ उत्युपान्त्ये सति शवर्हिभ्योऽदादिभ्यश्च परौ भावारम्भे क्तक्तवतू सेटौ वा किद्वत्स्याताम् । रुदितं रोदितमेभिः । प्रद्युतितः २ प्रद्योतितः २ । प्ररु For Personal & Private Use Only Page #297 -------------------------------------------------------------------------- ________________ कृदन्तप्रक्रिया। २८९ दितः २ प्ररोदितः २ । शवोझ्यः इति किम् । प्रगुंधितः इत्यादि। आदितः ॥ ८५॥ आदितो धातोः परयोः क्योरिट् न स्यात् । मिन्नः २। ...... नवाऽनयोः ॥८६॥ भावारम्भयोः के तु वा । मिन्नं मेदितम् ।। श्वसजपवमरुषत्वरसंघुषाखनामः॥ ८७ ॥ एषामष्टानां क्योरिड्डा स्यात् । श्वस्तः २ श्व. सितः २ । जप्तः २ जपितः २। अहन्पश्चमस्येति दीपे, वान्तः २ वमितः २ । रुष्टः, २ रुषितः २। तूर्णः २ त्वरितः २ । संघुष्टः २ संघुषितः २ । आस्वान्तः २ आस्वनितः २ । अभ्यान्तः । अभ्यमितः २। . . ....... आः खनिसनिजनः ॥ ८८ ॥ खातः २ । सातः २ । जातः २।। णौ दान्तशान्तपूर्णदस्तस्पष्टच्छन्न ज्ञप्तम् ॥ ८९॥ एते णौ कान्ता वा निपात्यन्ते । दान्तः २ दमितः २ । शान्तः २ शमितः २। पूर्णः २ पू. १. गुधच परिवेष्टने इति धातो रूपम् । व्या. २५ . For Personal & Private Use Only Page #298 -------------------------------------------------------------------------- ________________ १९० हैमलघुप्रक्रियाव्याकरणे : रितः २ । दस्त: २ दासितः २ । स्पष्टः २ स्प. शितः २ । छन्नः २ छादितः २ । ज्ञप्तः २ ज्ञा. पितः । सेटूक्तयोः॥ ९०॥ सेट्क्तयोः परयोर्णेलुक् स्यात् । कारितः २ । गणितः गणितवान् । (स्फायः स्फी वा*) स्फीतः २ स्फात:२ क्तयोरनुपसर्गस्य ॥ ९१॥ अनुपसर्गस्य प्यायः क्तयोः पीः स्यात् । पीनम् २ पीनवन्मुखम् । अनुपसर्गस्येति किम् ।प्रप्यानो मेघः। प्रादागस्त्त आरम्भे ते ॥ ९२ ॥ आरम्भार्थस्य प्रपूर्वस्य दागः के परे त् वा स्यात् । प्रदातुमारब्धः प्रत्तः। पक्षे दत् आदेशः। प्रदत्तः। निविखन्ववात् ॥ ९३॥ एभ्यो दागः क्ते त्तो वा स्यात् । दस्ति ॥ ९४ ॥ दो यस्तादिरादेशस्तस्मिन् परे नाम्यन्तस्योपसर्गस्य दीर्घः स्यात् । नीत्तं २ निदत्तम् २। वीत्तं विदत्तम् । सूतं सुदत्तम् । अनूत्तं अनुदत्तम् । अवत्तं अवदत्तम् । खरादुपसर्गादस्तिकित्यधः ॥ ९५ ॥ For Personal & Private Use Only ___ Page #299 -------------------------------------------------------------------------- ________________ कृदन्तप्रक्रिया | २९१ स्वरान्तादुपसर्गात्रस्य धावर्जस्य दासंज्ञकस्य तादौ किति त् नित्यं स्यात् । प्रत्तः । दत् ॥ ९६ ॥ अधो दासंज्ञस्य तादौ किति दत् स्यात् । दत्तः । दोसोमास्थ इः ॥ ९७ ॥ एषां तादौ किति इः स्यात् । निर्दितः २ । सितः २ । मितः २ । स्थितः २ । छाशोर्वा ॥ ९८ ॥ छा शा इत्येतयोस्तादौ किति प्रत्यये इः स्यात् । अवच्छितः अवच्छातः । निशितः निशातः । धागः ॥ ९९ ॥ तादौ किति हिः स्यात् । विहितः २ । पिहितः २ । वाऽवाप्योस्तनिकी भाग होर्वपी ॥ १०० ॥ अवस्योपसर्गस्य तनिक्रीणात्योः परयोरपिशब्दस्य धाग्नहोः परयोर्यथासङ्ख्यं वपी इत्यादेशौ वा स्याताम् । अवतंसः वतंसः । अवक्रयः वक्रयः । अपिधानं पिधानम् । अपिनद्धं पिनद्धम् । यपि चाsदो जग्धः ॥ १०१ ॥ 6 तादौ किति यपि चादो जग्ध् स्यात् । जग्धः । यजादिवचेरिति वृति, इष्टं उष्टं ऊढं उक्तं उषितं आहूतः ऊतः सुप्तः । For Personal & Private Use Only Page #300 -------------------------------------------------------------------------- ________________ २९२ हैमलघुप्रक्रियाव्याकरणे तत्र कसुकानौ तद्वत् ॥ १०२ ॥ . परोक्षायां विषये धातोः कसुकानौ स्यातां तौ च परोक्षावत् । चकृवान् चक्राणः। घसेकखरातः कसोः॥ १०३ ॥ घसेरेकस्वरादादन्ताच्च धातोः परस्य कसोरिद स्यात् । जक्षिवान् । आदिवान् । ययिवान् । पेचिवान् । पेचानः। -गमहनविद्लुविशदृशो वा ॥ १०४॥ . एषां पञ्चानां कसोरिड्वा स्यात् । जग्मिवान् । जगन्वान् । जनिवान् जघन्वान् । विविदिवान् विविद्वान् । विविशिवान् विविश्वान् । ददृशिवान् ददृश्वान् । शत्रानशावेष्यति तु सस्यौ ॥ १०५॥ । वर्तमाने धातोः शत्रानशौ स्याताम् । भविष्यस्काले तु तो सस्यौ । यान् । शयानः । यास्यन् । अतो म आने ॥ १०६ ॥ धातोर्विहिते आनेऽतो मोऽन्तः स्यात् । शयिप्यमाणः । आसीनः । निपातोऽयम् ।। अवर्णान्तादश्नोऽन्तो वाऽतुरीङयोः ॥१०७॥ , श्रावर्जादवपरस्य अतुरीडयोः परयोरन्त वा स्यात् । तुदती तुदन्ती । भाती भान्ती । (श्याच्छवश्च नित्यं* ) दीव्यन्ती । पचन्ती । For Personal & Private Use Only Page #301 -------------------------------------------------------------------------- ________________ कृदन्तप्रक्रिया | तौ माड्याक्रोशेषु ॥ १०८ ॥ : माङयुपपदे आक्रोशे गम्ये तौ शत्रानशौ स्याताम् । मापचन् जाल्मो ज्ञास्यति । मापचमानः । ( वा वेत्तेः क्वसुर्वर्तमाने* ) तत्त्वं विद्वान् विदन् । वयः शक्तिशीले ॥ १०९ ॥ एषु गम्येषु सत्यर्थे वर्तमानाद्धातोः - शानः स्यात् । वयः कतीह शिखण्डं वहमानाः । शक्तिः कतीह स्त्रियं गच्छमानाः । शीलं कतीह परान् निन्दमानाः । २.९३ धारीङोऽकृच्छ्रेऽतृश् ॥ ११० ॥ सुखसाध्येऽर्थे वर्तमानयोरनयोरतृशू स्यात् । धारयन्नाचारागमम् । अधीयंस्तत्त्वार्थम् । तृन् शीलधर्मसाधुषु ॥ १११ ॥ शीलादिषु सदर्थाद्धातोस्तृन स्यात् । कर्ता कटं । शीलादिसदर्थोऽधिकारसमाप्तिं यावदनुवर्तते । : भ्राज्यलंकुगुनिराकृग्भूसहिरुचितृ तिवृधिचरिप्रजनापत्रपइष्णुः ॥ ११२ ॥ एभ्य एकादशभ्य इष्णुः स्यात् । भ्राजते इत्येवंशीलो भ्राजिष्णुः । अलंकरिष्णुः । निराकरिष्णुः । भविष्णुः । सहिष्णुः । रोचिष्णुः । वर्तिष्णुः । वर्धिष्णुः । चरिष्णुः । प्रजनिष्णुः । अपत्रपिष्णुः । For Personal & Private Use Only Page #302 -------------------------------------------------------------------------- ________________ .यडन्ताभ्यामाभ्यामनः स्यात् । दन्द्रमणः । चमणः। यजिजपिदंशिवदादूकः ॥ १७ ॥ ___पक्ष्णुः । परिमाणुः । क्षेष्णुः। (बसिगृधिधषिक्षिपः *) त्रस्नुः । ननुः । धृष्णुः । क्षिमुः। ... सन्भिक्षाशंसेरुः ॥ ११४ ॥ सन्नन्ताद्भिक्षाशंसिभ्यां च उः स्यात् । लिप्सुः । भिक्षुः। आशंसुः । (शृवन्देरारुः* ) विशरारुः। . न्दारुः। (शीश्रद्धानिद्रातन्द्रादयिपतिगृहिस्पृहे. रालुः*) शयालुः । आमन्ताल्वाय्येत्ययादेशे, पतयालुः । स्पृहयालुः। डौ सासहिवावहिचावलिपापतिसविचविधिजज्ञिनेमि ॥ ११५ ॥ एते ड्यन्ता निपाताः । (शृकमगमहनवृषभूस्थ उकण*) (लषपतपदस्तथा*) शारुका कामुकः । अभिलाषुकः। द्रमकमो यङः ॥ ११६ ॥ .यडन्ताभ्यामाभ्यामनः स्यात् । दन्द्रमणः । चङ्गमणः। यजिजपिदंशिवदादूकः ॥ ११७ ॥ For Personal & Private Use Only Page #303 -------------------------------------------------------------------------- ________________ - कृदन्तप्रक्रिया। २९५ यडन्तेभ्यः एभ्यश्चतुर्थ्यः ऊकः स्यात् । यायजुकः । जञ्जपूकः । दन्दशूकः । वावदूकः। जागुः ॥ ११८॥ तस्मादुक: स्यात् । जागरुका । (शमष्टकाधुजादिभ्यश्च घिनण् वक्तव्यः *) क्तेऽनिटश्चजोः कगौ घिति ॥११९॥ केऽविटो धातोश्चजोर्धिति प्रत्यये परे कगौ स्याताम् । शमी। योगी।भोगी। ते इति किम् । अWः। वृद्भिक्षिलुण्टिजल्पिकुट्टाढाकः ॥१२०॥ सष्टम् । वराकः । भिक्षाकः। सृघस्यदो मरक् ॥ १२१ ॥ समरः। घस्मरः । अझरः। भलिभासिमिदो घुरः॥ १२२ ॥ भङ्गुरम् । भासुरम् । मेदुरम् । .. वेत्तिच्छिदभिदः कित् घुरः ॥ १२३ ॥ विदुरः। छिदुरः । भिदुरः। .. भियोरुरुकलुकम् ॥ १२४॥ भीरुः । भीरुकः। भीलुकः। - सूजीणनशष्टुरप् ॥ १२५ ॥ एभ्यः किंत ट्वरप् स्यात् । प्रसृत्वरः । जित्वरः। . इत्वरः । नश्वरः । गत्वरः निपातोऽयम् । For Personal & Private Use Only Page #304 -------------------------------------------------------------------------- ________________ हैमलघुप्रक्रियाव्याकरणे स्म्यजसहिंसदीपकम्पकमनमो रः ॥ १२६ ॥ एभ्यः सप्तभ्यो रः स्यात् । स्मेरः । अजस्रं । हिंस्रः । दीप्रः । कम्प्रः । कखः । नम्रः । तृषि षिखपो नजिङ् ॥ १२७ ॥ एभ्यो नजिङ् प्रत्ययः स्यात् । तृष्णक् । धृष्णक् । स्वमकू | २९६: - स्थेशभासपिसकसो वरः ॥ १२८ ॥ स्पष्टम् । स्थावरः । ईश्वरः । भास्वरः । पेस्वरः । विकस्वरः । शंखयंविप्रावदुः ॥ १२९ ॥ एभ्यः पराद्भुवो डुः स्यात् । शम्भुः । सम्भुः । स्वयम्भुः । विभुः । प्रभुः । इति शीलार्थाधिकारैः उणादयः ॥ १३० ॥ सदर्थाद्धातोरुणादयो बहुलं स्युः । कारुः । वायुः । क्रियायां क्रियार्थायां तुम्णकच् भविष्यन्ती ॥ १३१ ॥ यस्माद्धातोस्तुमादिविधिस्तद्वाच्या क्रियाऽर्थः प्रयोजनं यस्यास्तस्यां क्रियायामुपपदे वर्त्यदर्थाद्धातोस्तुमादयः स्युः । कर्तुम् कारकः करिष्यामीति याति । For Personal & Private Use Only Page #305 -------------------------------------------------------------------------- ________________ कृदन्तप्रक्रिया। तुमश्च मनः कामे ॥ १३२॥ । तुमसमोर्मनसि कामे च परे म्लुप् स्यात् । भो. तुमना गन्तुकामः। क्त्वातुमम् भावे ॥ १३३॥ - एते धात्वर्थमात्रे स्युः। शकधृषज्ञारभलभसहाईलाघटास्तिस मार्थे च तुम् ॥ १३४ ॥ शक्याद्यर्थेषु इच्छार्थेषु च धातुषु समर्थार्थेषु च नामसूपपदेषु कर्मभूताद्धातोस्तुम् स्यात् । श. नोति पारयति वा भोक्तुम् । इच्छति पठितुम् । समर्थो ग्रहीतुम् । कालवेलासमये तुम्वावसरे ॥ १३५॥ एषु निषूपपदेष्ववसरे गम्ये धातोस्तुम्वा स्यात् । कालो भोक्तुम् । वेला भोक्तुंम् । समयो भोक्तुम् । पक्षे कालो भोजनस्य । पदरुजविशस्पृशो घनू ॥ १३६ ॥ एभ्यश्चतुभ्यो घञ्। पद्यतेऽपादि पेदे वा पादः । एवं रोगः, वेशः, स्पर्शः। .... भावाऽकोंः ॥ १३७॥ भावे कर्तृवर्जिते च कारके धातोर्घञ् स्यात् । पाकः । त्यागः । दायः। आयः। भावः। For Personal & Private Use Only Page #306 -------------------------------------------------------------------------- ________________ २९८ हैमलधुप्रक्रियाव्याकरणे भूश्यदोऽल् ॥ १३८ ॥ - एभ्यः सोपसर्गेभ्यो भावाऽकोरलू स्यात् । प्रभवः । संश्रयः । विघसः। युवर्णवृदृवशरणगमृद्रहः ॥ १३९ ॥ . इवोवर्णान्तेभ्यो ब्रादेरृदन्तेभ्यो ग्रहश्च भावाकारलू स्यात् । वयः। क्रयः। रवः । लवः । वरः। आदरः । वर्षादयः क्लीबेऽलन्ता निपाताः । संमदप्रमदौ हर्षे निपातावित्यादि । निघादयोऽप्येवम् । मूर्तिनिचिताऽभ्रे घनः ॥ १४०॥ मूर्तिः काठिन्यम् निचितं निरन्तरम् अभ्रा मेघाः एष्वर्थेषु हन्तेरल घनादेशश्च । दधिघनाः केशाः। घनो मेघः। वेरशब्दे प्रथने ॥ १४१ ॥ वे परात् स्तुणातेरशब्दविषये विस्तीर्णत्वे घञ् स्यात् । विस्तारः पटस्य । शब्दे तु विस्तरः।। ___ द्वितोऽथुः ॥ १४२ ॥ द्वितो धातोर्भावाकोरथुः स्यात् । वेपथुः । वमथुः। डितस्त्रिमा तत्कृतम् ॥ १४३॥ डितो धातो वाकत्रोंस्त्रिमक् तेन कृतमित्यर्थे । पाकेन कृतं पत्रिमम् । कृत्रिमम् । दागस्तादेशे, परीत्रिमम् । MA For Personal & Private Use Only Page #307 -------------------------------------------------------------------------- ________________ कृदन्तप्रक्रिया। २९९ यजिखपिरक्षियतिप्रच्छो नः ॥ १४४ ॥ एभ्यो भावाकोंर्नः स्यात् । यज्ञः । स्वमः । रक्ष्णः। यत्तः। प्रश्नः। उपसर्गादः किः ॥ १४५॥ सोपसर्गादासंज्ञात्किः स्यात् । आदिः। निधिः । ___ व्याप्यादाधारे ॥ १४६ ॥ व्याप्यपूर्वाहासंज्ञादाधारे किः स्यात् । जलधिः । अन्तर्षिः। स्त्रियां क्तिः॥१४७॥ भावाकोंः स्त्रियां तिः स्यात् । कृतिः । ऋल्वादेरिति नत्वे लूनिः । यपि चेति जग्धादेशे जग्धिः । सातिहेतियूतिजूतिज्ञप्तिकीर्ति ॥ १४८॥ एते भावाकोः स्त्रियां निपात्याः। (गापाधात्वोरीत्वं भावे *)। गीतिः पीतिः। स्थो वा*)। स्थितिः आस्था । आस्यटिव्रज्यजः क्यप् ॥ १४९॥ एभ्यो भावे स्त्रियां क्यप् स्यात् । आस्या । अव्या । व्रज्या । इज्या। कृगः श च वा ॥ १५० ॥ कृगो भावाकोंः शः क्यम् च वा स्याताम् । क्रिया कृत्या कृतिः। - -FM For Personal & Private Use Only Page #308 -------------------------------------------------------------------------- ________________ ३०० ↑ हैमलघुप्रक्रिया व्याकरणे मृगयेच्छायाःच्ञातृष्णाकृपाभाश्रतर्द्धा ॥ १५१ ॥ एते स्त्रियां निपात्याः । परेः सृचरेर्यः ॥ १५२ ॥ आभ्यां परिपूर्वाभ्यां यः स्यात् । परिसर्या प रिचर्या । वाऽटाट्यात् ॥ १५३ ॥ अटेर्यङन्ताद्वा यः । अटाव्या अटाटा | (जागुरश्च ) जागर्या जागरा । ( शंसिप्रत्ययात् * ) आशंसा । गोपाया । चिकीर्षा । ( केटो गुरोर्व्यञ्जनादः स्यात्* ) ईहा ऊहा । षितोऽङ् ॥ १५४ ॥ विद्भ्यो धातुभ्यो भावाकर्त्रीः स्त्रियामङ् स्यात् । पचा । भिदादयः ॥ १५५ ॥ एते भावाकर्त्रीः स्त्रियामङन्ता निपात्याः भिदा । छिदा । कुत्संपदादिभ्यः क्विप् ॥ १५६ ॥ क्रुधू । संपद् ( भ्यादिभ्यो वा ) भीः भीतिः । नञो निः शापे ॥ १५७ ॥ पूर्वाद्धातोः शापे गम्ये भावाकत्रः स्त्रियामनिः स्यात् । अजननिस्ते भूयात् । . For Personal & Private Use Only Page #309 -------------------------------------------------------------------------- ________________ कृदन्तप्रक्रिया । ३०१ .. ग्लाहाज्यः ॥ ९५८॥ एभ्यो निः स्यात् । ग्लानिः । हानिः । ज्यानिः । पर्यायार्हणोत्पत्तौ च णकः ॥ १५९ ॥ सष्टम् । भवत आसिका। इक्षुमक्षिका । ... ... ... भावे ॥ १६० ।।. धात्वनिर्देश लिया धाताणका सात् । शायिका। ___ इति भावे स्त्रीप्रत्ययाः। ..... क्लीबे कः॥ १६१ ॥ नपुंसके भावे कः स्यात् । तव हसितम् । अनट् क्लीबे ॥ १६२॥ भावेऽर्थे धातोरनद् स्वात् । गमनम् ।.. ... करणाधारे ॥ १६६। अनयोरर्थयोर्धातोरनट् स्यात् । एषणी सक्तुधानी । (रम्यादिभ्यः कर्तरि अनट) रमणी । कचिदनप्रत्ययसंबन्धिनो नकारस्य यथायोग णत्वं वक्तव्यम् । प्रेक्षणम् प्रेङ्गणम् । पुन्नानि घः ॥ १६४॥ . धातोः करणाधारयोर्घः स्यात् पुंसि । दन्तच्छदः । एकोपसर्गस्य च घे इति इस्वः। आकरः। व्या. २६. For Personal & Private Use Only Page #310 -------------------------------------------------------------------------- ________________ ३०२ हैमलघुप्रक्रियाव्याकरणे ( व्यञ्जनादुद्घञ्* ) घस्यापवादः । लेखः । रागः । ( अवात्तस्तृभ्याम* ) अवतारः अवस्तारः । ( उदङ्कस्तोये ) ( आनायो जाले ) । गोचरसंचरवहव्रजव्यजखलापणनिगमबकभगकषाकषनिकषम् ॥ १६५ ॥ न्यायावायाध्यायोद्यावसंहारावहाराधा रदारजारम् ॥ १६६ ॥ एते घञन्ता निपात्याः । इकिस्तिवू स्वरूपार्थे ॥ १६७ ॥ T धातोः स्वरूपेऽर्थे च वाच्ये एते स्युः । भञ्जिः क्रुधिः वेत्तिः भुजि क्रियते पचतिः परिवृत्तः । दुःखीषतः कृच्छ्राकृच्छ्रार्थात्खल् ॥ १६८ ॥ कृच्छ्रार्थाद्दुरोऽकृच्छ्रार्थाभ्यां स्वीषद्भ्यां च पराद्धातोः खल् स्यात् । दुःशयं त्वया । दुःकरः कटः । सुशयं सुकरः । ईषच्छयं ईषत्करः । शासियुधिदृशिधृषिमृषातोऽनः ॥ १६९ ॥ कृच्छ्राकृच्छ्रार्थदुःस्वीषत्पूर्वेभ्य एभ्य आदन्ताच्च धातोरनः स्यात् । दुःशासनः सुशासनः ईषच्छासनः ३ । दुर्योधनः ३ । दुर्दर्शनः ३ । दुर्धर्षणः ३ । दुर्मर्षणः ३ दुरुत्थानम् ३ । For Personal & Private Use Only Page #311 -------------------------------------------------------------------------- ________________ कुंदन्तप्रक्रिया | प्राक्काले ॥ १७० ॥ परकालेन धात्वर्थेन तुल्यकर्तृके प्राक्कालेऽर्थे वर्तमानाद्धातोः संबन्धे क्त्वा वा स्यात् । आसित्वा भुङ्क्ते । हाको हिः क्त्विः । हित्वा । उवर्णादितीडूनिषेधे भूत्वा । ईर्व्यञ्जनेऽयपीति । पीत्वा गीत्वा । यपि तु निपाय । नृत्रश्चः क्त्वः ॥ १७१ ॥ आभ्यां परस्य क्त्व इट् स्यात् । जरित्वा २ त्रश्चित्वा । ऊदितो वा इटू, दान्त्वा दमित्वा । क्षुधवस्तेषामितीटि, क्षुधित्वा उषित्वा । लुभ्यश्चेरिति, लुभित्वा अञ्चित्वा । पूक्ङ्किशिभ्यो नवेटि वेटू, पूत्वा पवित्वा । क्लिष्टा क्लिशित्वा । : क्त्वा धातोः ॥ १७२ ॥ धातोः क्त्वा सेट् किन्न स्यात् । देवित्वा । ३० ३ स्कन्दस्यन्दः ॥ १७३ ॥ आभ्यां क्त्वा किन्न स्यात् । स्कंत्त्वा स्यत्त्वा । क्षुधक्लिशकुषगुधमृडमृदवदवसः ॥ १७४ ॥ एषामष्टानां सेटू क्त्वा कित्स्यात् । क्षुधवस इतीदि क्षुधित्वा उदित्वा उषित्वा । रुदविदेति क्त्वः कित्त्वे, रुदित्वा मुषित्वा गृहीत्वा सुहवा For Personal & Private Use Only Page #312 -------------------------------------------------------------------------- ________________ ३०४ हैमलघुप्रक्रिया व्याकरणे , पृष्ट्वा । वौव्यञ्जनादेरिति वा कित्त्वे, द्युतित्वा बोतित्वा । जनशोन्युपान्त्ये तादिः क्त्वा ॥ १७५ ॥ जन्तान्नशेश्च न्युपान्त्ये सति तदा कि द्वद्वा स्यात् । रक्त्वा रङ्क्त्वा । नष्ट्वा नष्ट्वा । ऋतृषमृषकृशवञ्चलुञ्चथफः सेट् ॥ १७६ ॥ यथासंभवं न्युपान्त्ये. सत्येभ्यः सेटू क्त्वा किद्वद्वा स्वात् । ऋतित्वा अर्तित्वा तृषित्वा तर्षित्वा भूषित्वा मर्षित्वा कृशित्वा कर्शित्वा वचित्वा कचित्वा लुचित्वा लुञ्चित्वा श्लथित्वा श्लन्थित्वा ग्रथित्वा ग्रन्थित्वा गुफित्वा गुम्फित्वा । अनञः क्त्वो यप् ॥ ९७७ ॥ . कर्णात्पूर्वपदावरं यदुत्तरपदं तदवयवस्य क्त्वो यपू स्यात् । प्रकृत्य प्रदाय । अनत्र इति किम् | अकृत्वा । 'लघोर्यपि ॥ १७८ ॥ लघोः परस्य णेर्यप्यय् स्यात् । प्रशमय्य । वाऽऽप्रोः १७९ ॥ आनोतेः परस्य णर्यप्यग्वा स्यात् । प्राक्क For Personal & Private Use Only Page #313 -------------------------------------------------------------------------- ________________ कृदन्तप्रक्रिया | 薄四物 प्राप्य । (मेङो वा मित् यपि ) अपमित्य अपमाय । ( क्षेः क्षी* ) प्रक्षीय । ( यपि वादो अन्धू* ) प्रजग्ध्य । यपि ॥ १८० ॥ यम्यादीनां यपि लुक् स्यात् । प्रहत्य | वामः ॥ २८२॥ यम्यादीनाममन्तानां यपि वा लुकू । प्रयत्य प्रयम्य । निमील्यादिमेङस्तुल्यकर्तृके ॥ १८२ ॥ तुल्यो धात्वर्थान्तरेण कर्ता यस्य तद्वृसिम्बो निमील्यादिभ्यो मेङश्च धातोः संबन्धे क्त्वा वा स्यात् । अक्षिणी निमील्य हसति । मुखं व्यादाय स्वपिति । अपमित्य याचते । अपमातुं प्रतिदांतुं याचते इत्यर्थः । निषेधेऽलखल्वोः क्त्वा ॥ १८३ ॥ निषेधार्थयोरलंखल्वोरुपपदयोर्धातोः स्यात् । अलंकृत्वा खलुकृत्वा । परावरे ॥ १८४ ॥ अस्मिन् गम्ये क्त्वा वा स्यात् । अतीत्य अमाव नहीं गिरिः । क्ला For Personal & Private Use Only Page #314 -------------------------------------------------------------------------- ________________ हैमलघुप्रक्रियाव्याकरणे रुणम् चाभीक्ष्णये ॥ १८५ ॥ आभीक्ष्ण्ये परकालेन तुल्यकर्तृके प्राक्कालेऽर्थे धातोः ख्णम् क्त्वा च स्यात् । भोजं भोजं याति । भुक्त्वा भुक्त्वा व्रजति । घटादेरिति वा दीर्घे, घाटं २ घटं २ । आभीक्ष्ण्यव्यक्तये द्विर्वचनम् । ३०६ अन्यथैवंकथमित्थमः कुगोऽनर्थकात् ॥ १८६ ॥ एभ्यश्चतुर्भ्यः परात्तुल्यकर्तृकात् कृगोऽनर्थकाद्धातोः संबन्धे रूणम् वा स्यात् । अन्यथाकारं एवंकारं कथङ्कारं इत्थंकारं भुङ्क्ते । स्वाद्वर्थाददीर्घात् ॥ १८७ ॥ स्वाद्वर्थाददीर्घान्तात् व्याप्यात्परस्मात्तुल्यकर्तृकात्कृगो धातोः संबन्धे ख्णम् वा स्यात् । स्वादुङ्कारं मृष्टङ्कारं भुङ्क्ते । पक्षे स्वादुं कृत्वा ( विद्द - गूभ्यः कात्सूर्ये णम*) अतिथिवेदं भोजयति । कन्यादर्श वरयति । व्याप्याच्चेवात् ॥ १८८ ॥ व्याप्यात्कर्तुःश्चोपमानात्पराद्धातोस्तस्यैव संबन्धे णम्वा स्यात् । सुवर्णनिधायं निहितः । काकनाशं नष्टः । एवं यावज्जीवमधीते । शुष्कपेषं पिनष्टि । / For Personal & Private Use Only Page #315 -------------------------------------------------------------------------- ________________ कृदन्तप्रक्रिया। ३०० जीवग्राहं गृह्णाति इत्यादयोऽपि यथायोगं णम्प्रत्ययान्ता ज्ञेयाः। इति क्त्वादिप्रत्ययाधिकारः। अथ भावकर्मणोः पञ्च कृत्यप्रत्ययाः। ऋवर्णव्यञ्जनाद् ध्यण ॥ १८ ॥ वर्णान्ताव्यजनान्ताच धातोय॑ण स्यात् । कार्यम् । वचोऽशब्दनानि ॥ १९०॥ अशब्दसंज्ञायां वचेय॑णि को न स्यात् । वाच्यम् । शब्दसंज्ञायां तु वाक्यम् । निप्रायुजः शक्ये ॥ १९१ ॥ आभ्यां युजः शक्ये गम्ये घ्यणि गो न स्यात् । नियोज्यः प्रयोज्यः। शक्य इति किम् । नियोग्यः । भुजो भक्ष्ये ॥ १९२ ॥ - भक्ष्येऽर्थे भुजो घ्यणि गो न स्यात् । भोज्यं पयः। अभक्ष्ये तु भोग्या भूः। त्यज्यजप्रवचः॥ १९३ ॥ एषां ध्यणिं कगौ न स्याताम् । त्याज्यं याज्यं प्रवाच्यः । ... . For Personal & Private Use Only Page #316 -------------------------------------------------------------------------- ________________ हैम लघु प्रक्रियान्याकरणे उवर्णादावश्यके ॥ १९४ ॥ अवश्यंभावे द्योत्ये वर्णान्ताद्धातोर्येण स्यात् । ३०८ कृत्येऽवश्यमो लुक् ॥ १९५ ॥ कृत्यान्ते उत्तरपदेऽवश्यमो लुक् स्यात् । अवश्यलाच्यम् ( ध्यणावश्यके चनोः कगौ न स्याताम् । अवश्ययाच्यं अवश्थरत्य तव्यानीयौ ॥ ९९६ ॥ धातोरेतौ स्तः । कर्तव्यः करणीयः कटः । य एच्चातः ॥ १९७ ॥ स्वरान्ताद्धातोर्यः स्यात् आत एव । चेयं देयम् । सक्तिकिचकियतिशसिसहियजिभजिपवर्गात् ॥ १९८ ॥ एभ्योऽष्टाभ्य: पवर्गान्ताच्च यः स्यात् 1 शक्यं गम्यम् । यममदग्रदोऽनुपसर्गात् ॥ १९९ ॥ एभ्योऽनुपसर्गेभ्यो यः स्यात् । यम्यं मद्यं गद्यम् । क्षय्यजय्यौ शक्तौ ॥ २०० ॥ For Personal & Private Use Only Page #317 -------------------------------------------------------------------------- ________________ कृदन्तप्रक्रिया। ३०९ शकौ गम्यायामेतौ निपात्यो । क्षय्यो व्याधिः। जय्यः शत्रुः । (क्रय्यः क्रयार्थे* ) क्रयाय प्रसारितः क्रय्योऽर्थः। नानो वदः क्यप् च ॥ २०१॥ अनुपसान्नानः. पराद्धदेः क्यप्यौ स्याताम् । ब्रहोछम् ब्रावधान हत्याभूयं भावे ॥ २०२ ॥ अनुपसर्गानाम्नः परावेतौ भावे क्यबन्तौ निपात्यौ । ब्रह्महत्या देवभूयंगतः। अग्निचित्याखेयमृषोये ॥ २०३ ॥ एते निपात्याः। कुप्वभियोध्ययसिध्यसियाम्ययु--- - ग्याज्यसूर्य नाम्नि । २०४॥ एते क्यबन्ता संज्ञायां निपात्याः। दृगस्तुजुषेति शासः ॥ २०५॥ एभ्यः क्यप् । आवृत्यः आइत्यः स्तुत्यः जुष्यः। एतीति इणिकोर्ग्रहणम् । इत्यः अधीत्यः शासः शिष्यः । आशासेस्तु आशास्यम् । For Personal & Private Use Only ___ Page #318 -------------------------------------------------------------------------- ________________ हैम लघुप्रक्रियाव्याकरणे ऋदुपान्त्यादकृपि चृदृचः ॥ २०६ ॥ कृप्यादिवर्जाद्ददुपान्त्यात्क्यप् स्यात् । वृत्यम् । कृप्यादिवर्जनात् कल्प्यम् । कृवृषिमृजिशंसिगुहिदुहिजपो वा ॥ २०७ ॥ एभ्यः सप्तभ्यः क्यप् वा स्यात् । कृत्यं कार्य वृष्यं वये मृज्यं मार्ग्य शत्वं शंस्यं गुह्यं गोह्यं दुह्यं दोह्यं जप्यं जाप्यम् । शक्ताऽर्हे कृत्याश्च ॥ २०८ ॥ शक्ते च कर्तरि गम्ये धातोः कृत्याः सप्तमी च स्युः । भवता खलु भारो वाह्यः । भवान् हि शक्तः । भवता खलु कन्या वाह्या । भवानेव तदर्हति । ३१० व्याप्ये घुरकेलिमकृष्टपच्यम् ॥ २०९ ॥ घुरकेलिमौ प्रत्ययौ कृष्टपच्यशब्दश्च व्याप्ये कर्तरि स्युः । स्वयं भयते इति भङ्गुरं काष्ठम् । पचेलिमा माषाः । कृष्टपच्याः शालयः । इति श्रीमहोपाध्यायश्री कीर्त्तिविजयगणि शिष्योपाध्यायश्री विनयविजयगणिविरचितायां हैमलघुप्रक्रियायां तृतीया वृत्तिः समाप्ता । संपूर्णा चेयं प्रक्रिया | For Personal & Private Use Only Page #319 -------------------------------------------------------------------------- ________________ प्रशस्तिः । प्रशस्तिः । स्फूर्जद्रूपार्थनिधेर्हेम व्याकरणरत्नकोशस्य । अर्गलभिद्रचनेयं कनीयसी कुञ्चिकाद्रियताम् ॥१२॥ श्रीहीरविजयसूरेः पट्टे श्रीविजयसेनसूरीशाः । तेषां पट्टे संप्रति विजयन्ते विजयदेवसूरीन्द्राः ॥ २ ॥ श्रीविजयसिंहसूरिजयाजयवति गुरौ गते स्वर्गे । श्रीविजयप्रभसूरिर्युवराजोराजतेऽधुनाविजयी ॥३॥ खेदमुनीन्दुमितेऽब्दे विक्रमतो राजधन्यपुरनगरे । श्रीहीरविजयसूरेः प्रभावतो गुरुगुरोर्विपुलात् ॥ ४ ॥ श्रीकीर्त्तिविजयवाचकशिष्योपाध्यायविनयविजयेन । हैमव्याकरणस्य प्रथितेयं प्रक्रिया जीयात् ॥ ५ ॥ युग्मम् समाप्तम् । For Personal & Private Use Only Page #320 -------------------------------------------------------------------------- ________________ एतत्संसत्प्रकाशितलभ्यसंस्कृतग्रन्थनामानि . 1 श्रीपरिशिष्टपर्व (स्थविरावलिचरित) 2 द्वात्रिंशद्वात्रिंशिका सटीका... ... 3 प्रशमरतिः सटीका... ... ... . :: :: - 8-0 . 0 5 विजयचन्द्रकेवलिचरितम् प्राकृतपयक्क .. ... 6 योगबिन्दुः सटीक:.., ... ... ... ... ... 0-12-0 " श्रीवासुपूज्यवरितं फ्यवर श्रीवर्षमानसूरिकतम् 8 शान्तिनाथचरितं गद्यबद्धम् ... ... ... 9 श्रीपार्श्वनाथचरितं , ... ... ... ... 10 पञ्चाशकः सटीकः ... ... ... ... ... 11 प्रमेयरत्नकोषः (मूलम्) ... ... ... ... 12 श्रीज्ञानसारः (अष्टक) सटीकः (पं० गं० वि० कृतः) 13 श्रीशान्तसुधारसः सटीकः . . .. ... 0-12-0 14 श्रीअध्यात्मसारः सटीका , 15 पउमचरियं प्राकृतपद्यबद्धं (प्राचीनं) ... ... 2- 816 श्रीउपदेशप्रासादः प्रथमभागः (स्तम्भषट्रं) ... 1-8-0 17 श्रीसूक्ष्मार्थविचारसारोद्धारः (सार्धशतक) सटीकः 1-0-0 18 श्रीउपदेशमाला योगशास्त्रं च (मूलं) ... ... 0- 8-0 19 श्रीजम्बूद्वीपसंग्रहणी सटीका ... ... ... - 4-0 :: 11 : 23 م 12-0 " ... 2- ... श्रीजैनधर्मप्रसारक सभा भावनगर. For Personal & Private Use Only