SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ अव्ययानि ।... दिक् । प्राङ् देशः कालो वा. रम्यः । प्रायम्यम् । एवमागतो वासो वा। पश्चोऽपरस्य दिक्पूर्वस्य चाति ॥ ३६ ॥ अपरा दिक् पश्चात् । दक्षिणपश्चात् । (वोत्तरपदेऽर्धे* ) पश्चार्धम् । अपरार्धम् ।। __व्याप्तौ स्सात् ॥ ३७॥ । कृभ्वस्तिभ्यां कर्मकर्तृभ्यां योगे प्रागतत्तत्त्वे सादिः सात्स्यात् व्याप्ती गम्यायाम् । द्विःसकारपाठान्नास्य षत्वम् । अग्निसात्करोति काष्ठम्, भवति स्यात् वा। __ तत्राधीने ॥३८॥ सप्तम्यन्तादधीनेऽर्थे कृभ्वस्तिसंपद्योगे सात्स्यात् । (देयेऽधीने च त्रा*) राज्ञि अधीनं राजसास्करोति । देवत्राकरोति द्रव्यम् । भवति स्यात् संपद्यते वा। __ सङ्ख्यैकार्थाद्वीप्सायां शस् ॥३९॥ सङ्ख्यार्थैकार्थाभ्यां वीप्सायां द्योत्यायां शस् वा स्यात् । एकैकमेकशो वा दत्ते । माषं माषं माषशो वा देहि। तद्वति धण् ॥ ४०॥ ": द्वित्रिभ्यां प्रकारवति धण् । द्वौ प्रकारावेषां । द्वैधाः । धणवर्जनात्तस्य नाव्ययत्वम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy