SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ हैमलघुप्रक्रियाव्याकरणे विभक्तिथमन्ततसाद्याभाः ॥ ४१ ॥ विभक्त्यन्ताभास्थमवसानतसादिप्रत्ययान्ताभाश्वाव्ययानि स्युः । चिराय चिरात् । । भवतु । अस्तु । कुतः । कथम् । ६८ वत्तस्याम् ॥ ४२ ॥ एतदन्तमव्ययम् । स्यादेरि ॥ ४३ ॥ स्याद्यन्तादिवार्थे क्रियासादृश्ये वत्स्यात् । अश्व इव अश्ववत् । मैत्रवद्याति चैत्रः । देवमिव देववत्पश्यन्ति मुनिम् । षष्ठीसप्तम्यन्तयोः सादृश्ये वत् । चैत्रस्येव चैत्रवन्मैत्रस्य मुखम् । मुक्ताविव मुक्तिवच्छान्तौ सुखम् । तसिः ॥ ४४ ॥ टान्तात्तुल्यदिश्ये तसिः स्यात् । सुदाम्नैकदिक् सुदामतो मेघः । आम् वक्ष्यते । क्वातुमम् ॥ ४५ ॥ एतद्न्तमव्ययम् । कृत्वा । कर्तुं । यावज्जीवम् । प्रत्ययाश्चैते वक्ष्यन्ते । गतिः ॥ ४६ ॥ गतिसंज्ञमव्ययं स्यात् । ऊर्यायनुकरणच्विडाचश्च गतिः ॥ ४७ ॥ For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy