________________
भ्वादयः परस्मैपदिनः ।
१६५
सिज्लोपे । अनिन्दीत् अनिन्दिष्टाम् अनिन्दिषुः । अनिन्दिष्म ५ । निनिन्द ६ । निन्द्यात् ७ । निन्दिता ८ । एवं टुनदु समृद्धौं ९ । नन्दतीत्यादि १० । णमं प्रहृत्वे । नमति ४ । अदुरुपसर्गान्तरोणहिनुमीनानेः ॥ ८८ ॥
दुर्वर्जोपसर्गस्थादन्तः शब्दस्थाच रादेः परस्यैषां नो णू स्यात् । णेति गोपदेशा धातवः । प्रणमति । यमिरमीति सागमे । शिद्ध हेऽनुस्वार इत्यनुस्वारे । अनंसीत् अनंसिष्टाम् अनंसिषुः ५ । ननाम नेमतुः नेमुः । नेमिथ - ननन्थ ६ । नम्यात् ७ । नन्ता ८ | नंस्यति ९ । अनंस्यत् १० । गम्लं गतौ ।
गमिषद्यमः च्छः ॥ ८९ ॥
एषां शिति च्छः स्यात् । गच्छति ४ । लुदित्वादङागमे । अगमत् अगमताम् अगमन् ५ । जगाम ।
गमहनजनखनघसः खरेऽनङि क्लिति लुक् ॥ ९० ॥ एषामुपान्त्यस्यावर्जे स्वरादौ किति परे लुक् स्यात् । जग्मतुः जग्मुः ६ । गम्यात् ७ । गन्ता ८ । गमोऽनात्मने ॥ ९९ ॥
गमः परस्य स्यादेरिट् स्यात् नत्वात्मनेपदे । गमिष्यति गमिष्यतः गमिष्यन्ति ९ । अगमिष्यत्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org