________________
१६६
हैमलघुप्रक्रियाव्याकरणे
अगमिष्यताम् अगमिष्यन् । अगमिष्यः. अगमिष्यतम् अगमिष्यत । अगमिष्यम् अगमिष्याव अगमिष्याम १० । क्रमू पादविक्षेपे । भ्रासभ्लासभ्रमक्रमक्लमत्रसित्रुटिलषियसिसंयसेर्वा ॥ ९२ ॥
एभ्यो दशभ्यः कर्तृविहिते शिति श्यो वा स्यात् । क्रमो दीर्घः परस्मै ॥ ९३ ॥
क्रमः परस्मैपदे शिति दीर्घः स्यात् । क्राम्यतिक्रामति । क्राम्येत्क्रामेत् ४ ।
क्रमः ॥ ९४ ॥
क्रमः परस्य स्ताद्यशित इट् स्यान्नत्वात्मनेपदे । न विजाशसक्षणयेदितः ॥ ९५ ॥ एषां हृयन्तानामेदितां च परस्मैपदे सेटि सिचि वृद्धिर्न स्यात् । अक्रमीत् अक्रमिष्टाम् ५ ।
कङश्चञ् ॥ ९६ ॥
द्वित्वे पूर्वयोः कङोश्चञौ स्याताम् । चक्राम चक्रमिथ चक्रन्थ ६ । क्रम्यात् ७ । क्रमिता ८ । क्रमिष्यति ९ । अक्रमिष्यत् १० । झुं प्रेक्षणे । पश्यति ४ ।
ऋदिच्छ्रिस्तम्भूस्तूम्भूम्रुचूम्लुचूषुचूग्लुचूग्लुञ्चूजो वा ॥ ९७ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org