SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १६४ हैमलघुप्रक्रियाव्याकरणे एषां चतुर्णामङि परे यथासङ्ख्यं श्वादयः स्युः । इति पठादेशे । अपतत् अपतताम् अपतन् ५ । पपात ६ । अनादेशादेरेकव्यञ्जनमध्येऽतः ॥ ८५ ॥ अवित्परोक्षासेट्र्थवोः परयोर्योऽनादेशादिर्घातुस्तत्संबन्धिनोऽकारस्यासंयुक्त व्यञ्जनमध्यगतस्य एः स्वान्न तु द्विः । प्रात स्वये स्वरविधेरिति कृतमपि द्वित्वं निवर्तते इत्यर्थः । पेततुः पेतुः । पेतिथ ६ । पत्यात् ७ । पतिता ८ । गद व्यक्तायां वाचि । गदति प्रणिगदति ४ । व्यञ्जनादेवपान्त्यस्यातः ॥ ८६ ॥ व्यञ्जनादेर्धातोरुपान्त्यस्यातः सेटि सिचि परस्मैपदे वृद्धिर्वा स्यात् । अग्रादीव-अगदीत् अगादिष्टाम्- अपविष्टाम् अगादिषुः - अगदिषुः ५ । जगाद ६ । गद्यात् ७ । गदिता ८ । गदिष्यति ९ । अगदिष्यत् १० । अर्द गतियाचनयोः । अर्दति ४ । आर्दीत् ५ । आनर्द ६ । अर्थात् ७ । अर्दिता ८ । अर्दिष्यति ९ । आर्दिष्यत् १० । णिदु कुत्सायाम् । पाठे धात्वादेर्णो नः । उदितः खरान्नोऽन्तः ॥ ८७ ॥ उदितो धातोः स्वरात्परो नोऽन्तः स्यात् । म्नां धुइर्गेन्त्योऽपदान्ते । निन्दति ४ । इट ईतीति Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy