________________
हैम लघु प्रक्रिया व्याकरणे
तद्युक्ते हेतौ ॥ ३८ ॥ कर्मसंबन्धाद्धेतौ सप्तमी स्यात् । चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरीं हन्ति सीनि पुष्कलको हतः ॥ ५ ॥ ( असाधुसाधुनिपुणयोगेऽपि सप्तमी* ) असाधुमैत्रो मातरि । प्रत्यादियोगे तु न साधुमैत्रो मातरं प्रति ।
८६
यद्भावो भावलक्षणम् ॥ ३९ ॥ भावः क्रिया । यस्य भावेनान्यो भावो लक्ष्यते ततः सप्तमी स्यात् । गोषु दुह्यमानासु गतः । षष्ठी वाऽनादरे ॥ ४० ॥
अनादरे गम्ये भावलक्षणा षष्ठी वा, पक्षे ससमी । रुदतो लोकस्य रुदति लोके वा प्रत्रजितः । सप्तमी चाविभागे निर्धारणे ॥ ४१ ॥ समुदायादेकदेशस्य जातिगुणक्रियादिभिरविभागे पृथक्करणेऽप्येवम् | क्षत्रियो नृणां नृषु वा शूरः । कृष्णा गवां गोषु वा बहुक्षीरा ।
इति सप्तमी । शेषे ॥ ४२ ॥ कर्मादिभ्योऽन्यस्तदविवक्षारूपः स्वस्वामिभा
वादिः संबन्धः शेषस्तत्र षष्ठी स्यात् । राज्ञः पुरुषः । उपगोरपत्यम् । माषाणामश्नीयात् ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org