SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ कारकप्रक्रिया । कर्मणि कृतः कर्तरि च ॥ ४३ ॥ कृदन्तस्य कर्तृकर्मणोः षष्ठी स्यात् । अपां स्रष्टा । भवत आसिका । ( क्वचिद्वा* ) विचित्रा सूत्राणां कृतिराचार्यस्याचार्येण वा । ८७ कृत्यस्य वा ॥ ४४ ॥ ध्यणतव्यानीययक्यपः कृत्याः । एषां कर्तरि षष्ठी वा स्यात् । त्वया तव कार्य कर्तव्यं करणीयं देयं कृत्यम् । रिरिष्टात्स्तादस्तादसतसाता ॥ ४५ ॥ एभिः सप्तभिर्योगे षष्ठी स्यात् । गृहस्योपरि उपरिष्टात् परस्तात् पुरस्तात् पुरः दक्षिणत उत्तराद्वा । तृन्नुदन्ताव्ययक्वस्वानातृशूशतृङिणकच् खलर्थस्य ॥ ४६ ॥ एषां दशानां कृतां कर्मकर्त्रीः षष्ठी न स्यात् । वदिता धर्मम् । विश्वं जिष्णुः । कटं कृत्वा । ओदनं भोक्तुं याति । अन्नं पेचिवान कारटं चक्राणः । अधीयंस्तत्त्वार्थम् । कटं कु । कष्टं सासहिः । कटं कारको याति । सुनिधर्मः । सुज्ञानं तत्त्वं भवता । पृथग्नांना पञ्चमी च ॥ ४७ ॥ आभ्यां योगे तृतीयापञ्चम्यौ स्याताम् । पृथम् For Personal & Private Use Only www.jainelibrary.org Jain Education International
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy