SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ हैमलघुप्रक्रियाव्याकरणे मैत्रान्मैत्रेण । (अनुमानहेतोरप्येवम्) शब्दोऽनित्यः कृतकत्वेन कृतकत्वाद्वा । ८८ ऋते द्वितीया च ॥ ४८ ॥ ऋयोगे द्वितीयापञ्चम्यौ स्याताम् । ऋते धर्मं धर्माद्वा कुतः सुखम् । विना ते तृतीया च ॥ ४९ ॥ विनायोगे द्वितीयापञ्चमीतृतीयाः स्युः । विना पापं पापात् पापेन सुखं स्यात् । तुल्यार्थैस्तृतीयाषष्ट्यौ ॥ ५० ॥ मात्रा तुल्यः मातुस्तुल्यः । द्वितीयाषष्ठयावेनेनानञ्चेः ॥ ५१ ॥ पूर्वेण ग्रामं ग्रामस्य । अनश्चेरिति किम् । प्राग् ग्रामात् । हेत्वर्थैस्तृतीयायाः ॥ ५२ ॥ हेत्वर्थैर्योगे तृतीयाद्याः सर्वा विभक्तयः स्युः । धनेन हेतुना । धागो हेतवे । धनाद्धेतोः । धनस्य हेतोः । धने ता इति । एवं निमित्तादिभिरपि । सर्वादेः रे ॥ः ॥ ५३ ॥ हेत्वर्थैर्युक्तात्सर्वादेः सर्वा विभक्तयः स्युः । को हेतुः । कं हेतुम् । केन हेतुना । कस्मै हेतवे । कस्माद्धेतोः । कस्य हेतोः । कस्मिन् हेतौ याति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy