________________
हैमलघुप्रक्रियाव्याकरणे
मैत्रान्मैत्रेण । (अनुमानहेतोरप्येवम्) शब्दोऽनित्यः
कृतकत्वेन कृतकत्वाद्वा ।
८८
ऋते द्वितीया च ॥ ४८ ॥
ऋयोगे द्वितीयापञ्चम्यौ स्याताम् । ऋते धर्मं
धर्माद्वा कुतः सुखम् ।
विना ते तृतीया च ॥ ४९ ॥ विनायोगे द्वितीयापञ्चमीतृतीयाः स्युः । विना
पापं पापात् पापेन सुखं स्यात् । तुल्यार्थैस्तृतीयाषष्ट्यौ ॥ ५० ॥
मात्रा तुल्यः मातुस्तुल्यः । द्वितीयाषष्ठयावेनेनानञ्चेः ॥ ५१ ॥
पूर्वेण ग्रामं ग्रामस्य । अनश्चेरिति किम् । प्राग्
ग्रामात् ।
हेत्वर्थैस्तृतीयायाः ॥ ५२ ॥ हेत्वर्थैर्योगे तृतीयाद्याः सर्वा विभक्तयः स्युः । धनेन हेतुना । धागो हेतवे । धनाद्धेतोः । धनस्य हेतोः । धने ता इति । एवं निमित्तादिभिरपि ।
सर्वादेः रे ॥ः ॥ ५३ ॥ हेत्वर्थैर्युक्तात्सर्वादेः सर्वा विभक्तयः स्युः । को हेतुः । कं हेतुम् । केन हेतुना । कस्मै हेतवे । कस्माद्धेतोः । कस्य हेतोः । कस्मिन् हेतौ याति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org