________________
- स्त्रीप्रत्ययाः। .. अव्ययाना स्यादेर्लुप् स्यात् । स्वः प्रातरस्ति पश्य कृतमिति । इति श्रीमहोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविज- यगणिविरचितायां हैमलघुप्रक्रियायां अव्ययानि समाप्तानि ।
॥ अथ स्त्रीप्रत्ययाः॥ अथ लिङ्गविशेषज्ञानाय स्त्रीप्रत्ययाः प्रस्तूयन्ते ।
... अजादेः ॥१॥ एभ्यः स्त्रियामाप् स्यात् । अजा एडका कोकिला बाला शूद्रा ज्येष्ठा ।
अस्यायत्तत्क्षिपकादीनाम् ॥२॥ आबेव परो यस्मात्तस्मिन्ननिकि यदादिवर्जस्यात इत्स्यात् । पाचिका कारिका मद्रिका । यदादिवर्जनाद्यका सका क्षिपकेत्यादौ नेत्त्वम् ।
क्वचिद्वा ॥३॥ अनिक्कि परे क्वचिदापः स्थाने इह्रस्वौ वा । खट्रिका खट्टाका खटका । क्वचिन्नेत्त्वम् । तारका ज्योतिः।
स्त्रियां नृतोऽखस्त्रादेर्डीः ॥४॥ । सस्रादिवर्जान्नान्तादृदन्ताच्च स्त्रियां डीः स्यात् । राज्ञी की। ...
... अधातूदितः ॥ ५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org