SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ १८ हैमलघुप्रक्रियाव्याकरणे वाहर्पत्यादयः ॥ १३ ॥ एषु विसर्गाद्यभावो वा स्यात् । अहर्पतिः। अहरपतिः। अहःपतिः । गीपतिः। गीपतिः । गी:पतिः। एतत्तदश्च व्यञ्जनेऽनग्नसमासे ॥१४॥ । एतच्छब्दात्तच्छब्दाच्च परस्य सेर्व्यञ्जने परे लुक् स्यात । एष दत्ते । स लाति । अकि नसमासे च न । एषकः कृती । सको याति । अषो याति। असो वाति । तदः सेः खरे पादार्था ॥ १५॥ तच्छब्दात्परस्य सेः स्वरे परे लुक् स्याद्यदि से कि सत्यामेव श्लोकादिपादः पूर्येत । सैष दाशरथी रामः सौषधीरनुरुध्यति ॥ अन्यत्र यथाप्राप्तम् । स एष भरतो राजा स एष नलभूपतिः ॥२॥ संहितैकपदे नित्या नित्या धातूपसर्गयोः। नित्या समासे वाक्ये तु सा व्यपेक्षामपेक्षते ॥३॥ इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयवि.. जयाणिबिरचितायां हैमलधुप्रक्रियायां रेफसन्धिः समाप्तः। . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy