________________
.
खरान्ताः पुंलिङ्गाः। १९ अथ विभक्तिर्विभाव्यते॥ अधातुविभक्तिवाक्यमर्थवन्नाम ॥१॥ • धातुविभक्त्यन्तवाक्यवर्जमर्थवच्छब्दरूपं नाम स्यात्ततः स्यादयः सप्त विभक्तयो योज्यन्ते।
स्यौ जसित्यादि ॥२॥ -सि औ जस् इति प्रथमा । अम् श्री शम इति द्वितीया । दाभ्यो मिस इति तृतीया । डे भ्यां भ्यस् इति चतुर्थी । उसि भ्यां भ्यस् इति पञ्चमी। डस् ओस् आम् इति षष्ठी । ङि ओस् सुप् इति सप्तमी। तत्राप्यर्थैकत्वविवक्षायां प्रथमैकवचनं सिः। इकार उच्चारणार्थ इत् । देवस् इति स्थिते । सोरुः। रः पदान्ते विसर्गस्तयोः । देवः। द्वित्वे, देव औ । ऐदौत्सन्ध्यक्षरैरिति । देवौ । बहुत्वे, देव जस् । जकारो विशेषणार्थः।
अत आः स्यादौ जस्भ्याम्ये ॥३॥ स्यादौ जसि भ्यामि ये च परे अत आः स्यात्। ततः समानानां तेनेति दीर्घे, देवाः।
अदीर्घो दीर्घतां याति नास्ति दीर्घस्य दीर्घता । . पूर्व (वै)। दीर्घस्वरं दृष्ट्वा परलोपो विधीयते ॥१॥ । यद्वा 'पर्जन्यवल्लक्षणप्रवृत्तिः' इति दीर्घस्यापि दीर्घत्वम् । द्वितीयैकवचने, देव अम् ।
16.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org