SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ हैमलघुप्रक्रियाव्याकरणे समानादमोऽतः ॥ ४ ॥ समानात्परस्यामोऽकारस्य लुक् स्यात् । देवम् । देवौ । बहुवचने, देव शस् । शकारः प्राग्वत् । शसोऽता सश्च नः पुंसि ॥ ५ ॥ शस्संबन्धिनाऽकारेण सह पूर्व समानस्य दीर्घः स्यात्, तत्सन्नियोगे च पुंलिङ्गे शसः सो नः स्यात् । देवान् । तृतीयैकवचने, देव टा । टकार इत् । टाङसोरिनस्यौ ॥ ६ ॥ आत्परयोष्टाङसोरिनस्यौ स्याताम् । देवेन । अत आ स्यादी इत्याssवे । देवाभ्याम् । भिस ऐस् ॥ ७ ॥ आत्परस्य स्यादेर्भिस ऐस् स्यात् । देवैः । चतुयेकवचने, देव ङे । डकारो ङित्कार्यार्थः सर्वत्र । डेङस्योर्यातौ ॥ ८ ॥ अकारात्परस्य ङेर्यो, ङसेश्च आत् स्यात् । अ आ इत्यात्वे देवाय । देवाभ्याम् । देव-भ्यस् इति स्थिते । भोसि ॥ ९ ॥ बहुत्वे स्यादौ सादौ भादौ ओसि च परेऽत एत्स्यात् । देवेभ्यः । पञ्चम्येकवचने, देव ङसि । इकारो ङसो विशेषार्थः । डेन्डन्स्योरित्यात् । देवात् । For Personal & Private Use Only www.jainelibrary.org Jain Education International
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy