________________
खरान्ताः पुंलिङ्गाः। २१ देवाभ्याम्। देवेभ्यः। टाडन्सोरिति डसः स्याऽऽदेशे, देवस्य । ओस्येत्वेऽयादेशे, देवयोः। देव-आम् इति स्थिते ।
हखाऽऽपश्च ॥ १०॥ ह्रस्वादाबन्तात् स्त्रीदूदन्ताच्च परस्यामो नाम् स्यात् ।
दीर्घो नाम्यतिसृचतसृषः ॥ ११ ॥ . तिस-चतसृ-परान्तवर्जसमानस्य नामि परे दीर्घः स्यात् । देवानाम् । सप्तम्येकवचने, देवे । द्विवचने देवयोः । बहुवचने, एबहुस्भोसि इत्येत्वे, देवे-सु इति स्थिते । नाम्यन्तस्थाकवर्गात् पदान्तः कृतस्य सः
शिडान्तरेपि ॥.१२॥ नाम्यन्तस्थाकवर्गेभ्यः परस्य पदमध्ये वर्तमानस्य केनचित् सूत्रेण कृतस्य सस्य षः स्यात् । शिटा नकारेण च व्यवधानेपि स्यात् । देवेषु ।
अदेतः स्यमोलक् ॥ १३॥ अकारान्तादेकारान्ताच्च सेस्तदादेशस्याऽमश्च संबोधने लुक् स्यात् । संबोधनाभिव्यक्तये हेशब्दस्य प्राक्प्रयोगः । हे देव । हे देवौ । हे देवाः। एवं घटपटादयोऽकारान्ताः पुंलिङ्गाः । सर्वादीनां तु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org