________________
३८
हैमलघुप्रक्रियाव्याकरणे
स्यात् । अन्यत् । अन्यतरद् २। इतरद् २। कतरद् २ | कतमद् २ । एकतर वर्जनादेकतरम् | ( आसनस्य शसादौ स्यादौ परेऽन्त लुग्वा ।) आस्यशब्दस्यासन्नादेश इति पाणिनीयाः । आसानि । आस्ता । आसभ्याम् । ( हृदयोदकयोर्हदुदन्नादेशौ च शसादौ वा । )
1
घुटां प्राक् ॥ ८ ॥ स्वरात्परा या धुड्जातिस्तदन्तस्य घुटि परे धुटः प्राग्नोऽन्तः स्यात् ।
नां धुर्गेऽन्त्योऽपदान्ते ॥ ९ ॥ अपदान्तस्थानां नां वर्ये धुटि परे पुरःस्थधुसंबन्धी पञ्चमः स्यात् । हृन्दि । हृदा । हृद्भ्याम् । उदानि । उद्भा । उदभ्याम् । पक्षे त्वासनादयः कुलवत् ।
क्लीबे ॥ १० ॥
नपुंसकस्य स्वरान्तस्य ह्रस्वः स्यात् । विश्वपम् । इत्यादि कुलवत् । इकारान्तो वारिशब्दः ।
अनतो लुप् ॥ ११ ॥
अकारान्तवर्जनपुंसकस्य स्यमोलुप् स्यात् । वारि २ | वारि औ इति स्थिते औरीः, इतीकारे जाते । अनामूखरे नोऽन्तः ॥ १२ ॥ नाम्यन्तस्य नपुंसकस्याऽऽभूवर्जे स्वरादौ स्यादौ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org