________________
स्वरान्ता नपुंसकलिङ्गाः। ३९ नोऽन्तः स्यात् । वारिणी २। वारीणि २। वारिणा। वारिणे । वारिणः २। वारिणोः २। आमि मुनिवत् । वारीणाम् । वारिणि । संबोधने ।
नामिनो लुग्वा ॥१३॥ नाम्यन्तस्य नपुंसकस्य स्यमोलुंग् वा स्यात् । लुकि च स्थानिवद्भावाल्लुप्तप्रत्ययनिमित्तकं कार्य स्यादिति सिना सह गुणे हे वारे । पक्षे अनतो लुबिति सेलृप् । लुपि न तनिमित्तमिति गुणाभावे हे वारि । स्वसम्बन्धिविज्ञानात् हे प्रियवारे नर, नात्र विकल्पः । मधु २। मधुनी २। मधूनि २ । मधुना । हे मधो । हे मधु । दध्यादीनां टादौ विशेषः। दध्यस्थिसक्थ्यक्ष्णोऽन्तस्यान् ॥ १४ ॥
एषां नपुंसकानां स्वेऽस्वे वा टादौ स्वरे अन् स्यात् । अनोऽस्येत्यल्लुकि । दना। प्रियदना । ईडौ वा । दनि, दधनि. । अस्ना । अत्यस्ना । सना। अक्षणा । इह द्विधा लिङ्गव्यवस्था । केचिद् दध्यादिवजातिशब्दाः स्वत एव लिङ्गमुपाददते । गुणक्रियाद्रव्यसंबन्धनिमित्ताश्च केचित्पादिवद्विशेघ्यानुरूपं लिङ्गमिति । ___ वान्यतः पुमांष्टादौ खरे ॥ १५॥
अन्यतो विशेष्यवशानपुंसको नाम्यन्तष्टादौ स्वरे पुंवद्वा स्यात् । पटुना २। पटुने, पटवे । प
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org