________________
समासे कर्मधारयः ।
૧૦×
च नीलोत्पलम् । श्वेतगवी । एकार्थमिति किम् । वृद्धस्योक्षा वृद्धक्षा |
पूर्वकालैकसर्वजरत्पुराणनवकेव
लम् ॥ ५९ ॥
पूर्वः कालो यस्य तद्वाचि एकादीनि चैकार्थानि नाम्ना समस्यन्ते । पूर्व स्नातः पश्चादनुलिप्तः स्नातानुलिप्तः । एकशाटीत्यादि ।
निन्द्यं कुत्सनैरपापाद्यैः ॥ ६० ॥
निन्द्यं निन्दावाचिभिः समस्यते । तार्किकखसूची । अपापाद्यैरिति किम् । पापमुनिः । हतविधिः । उपमानं सामान्यैः ॥ ६१ ॥
उपमानवाचि उपमानोपमेयसाधारणधर्मवाचिभिः समस्यते स तत्पुरुषः कर्मधारयश्च स्यात् । शस्त्रीव श्यामा शस्त्रीश्यामा |
उपमेयं व्याघ्राद्यैः साम्यानुक्तौ ॥ ६२ ॥
उपमेयवाचि उपमानवाचिभिर्व्याघ्राद्यैः साधारणधर्मानुक्तौ समस्यते । पुरुषो व्याघ्र इव पुरुषव्याघ्रः । साम्योक्तौ तु पुरुषो व्याघ्र इव शूर इत्यत्र न स्यात् ।
सन्महत्परमोत्तमोत्कृष्टं पूजायाम् ॥ ६३ ॥ पूजायां गम्यायामेतानि पञ्च पूज्यवाचिभिः स
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org