________________
भ्वादयः परस्मैपदिनः। १४५ नामिनो गुणोऽङ्किति ॥७॥ किडित्वर्जे प्रत्यये परे नाम्यन्तस्य धातोगुणः स्यात् । अवादेशे, स धार्मिको भवति । तौ भवतः । लुगस्यादेत्यपदे इत्यकारलोपे, ते भवन्ति । त्वं भवसि । युवां भवथः । यूयं भवथ ।
मव्यस्याः ॥८॥ धातोर्विहिते मादौ वादौ च प्रत्यये परे अत आः स्यात् । अहं भवामि । आवां भवावः । वयं भवामः । अन्यदर्थादिद्वयत्रययोगे पराश्रयमेव वचनम् । स च त्वं च भवथः । स च त्वं चाहं च भवामः। विधिनिमन्त्रणाधीष्टसंप्रश्नप्रार्थने ॥९॥
विधिः क्रियायां प्रेरणा । विध्यादिषु सप्तमी स्यात् । संभावनादिष्वपि सप्तमी ।
सप्तमी।
परस्मैपदिनः।
आत्मनेपदिनः । यात् याताम् युस्। ईत ईयाताम् ईरन् । यास् यातम् यात । ईथासू ईयाथाम् ईध्वम् । याम् याव याम। ईय' ईवहि ईमहि।
___ यः सप्तम्याः ॥१०॥ आत् परस्य सप्तम्या याशब्दस्य इ: स्यात् ।
व्या. १३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org