________________
हैमलघुप्रक्रियाव्याकरणे
नवाद्यानि शत्रुकसू च परस्मैपदम् ॥ २ ॥ सर्वासां त्यादिविभक्तीनामाद्यानि नववचनानि शतृक्कसू च प्रत्ययौ परस्मैपदसंज्ञानि स्युः । ( पराणि कानानशौ चात्मनेपदम् * ) त्रीणि त्रीण्यन्ययुष्मदस्मदि ॥ ३ ॥ सर्वासां विभक्तीनां त्रीणि त्रीण्येकद्विबहुवचनान्यन्यदर्थे युष्मदर्थेऽस्मदर्थे च यथाक्रमं स्युः । सति ॥ ४ ॥
आरब्धासमाप्तवस्तुविषयः कालः सन् वर्तमानस्तदर्थाद्धातोर्वर्तमाना स्यात् ।
वर्तमाना ।
१४४
परस्मैपदानि । तिवू तसू अन्ति । सिधू थस् थ ।
मिव् वस् मस् । एताः शितः ॥ ५ ॥
वर्तमाना सप्तमीपञ्चमीह्यस्तन्यः शितो ज्ञेयाः । भू सत्तायाम् । भू तिव् इति स्थिते । वकारो विकार्यार्थः ।
आत्मनेपदानि ।
Jain Education International
आते अन्ते ।
आये ध्वे ।
ए वहे महे ।
ते
से
कर्तर्यनद्भयः शब् ॥ ६ ॥ अदादिवर्जाद्धातोः कर्तरि विहिते शिति शब् प्रत्ययः स्यात् । शकारवकारावितौ ।
For Personal & Private Use Only
www.jainelibrary.org