________________
--
हैमलघुप्रक्रियाव्याकरणम्।
ANTOP
अथ उत्तरार्द्धम् ॥
॥श्रीजिनाय नमः ॥ अथाख्यातप्रक्रिया निरूप्यते । आख्यातप्रत्ययाश्च धातोर्वक्तव्याः। ..
क्रियार्थों धातुः॥१॥ कृतिः क्रिया पठनपचनादिरूपा साऽर्थो यस्य स धातुः स्यात् । स च त्रेधा गणजो नामजः सौत्रश्च । आद्यो नवधा । तथाहुः।।
अदादयः कानुबन्धाश्चानुबन्धा दिवादयः । . स्वादयष्टानुबन्धाश्च तानुबन्धास्तुदादयः॥१॥
रुधादयः पानुबन्धा यानुबन्धास्तनादयः ।। क्यादयः शानुबन्धाश्चणानुबन्धाश्चुरादयः॥२॥
उक्तानुबन्धरहिता भ्वादयः। यत्र नामैव प्रत्ययसंबन्धाद्धातुत्वं याति स नामधातुः। सौत्राश्च कण्डादयो दोलणप्रमुखाश्च । प्रत्येकमेते त्रिविधाः परस्मैपदिन आत्मनेपदिन उभयपदिनश्च । ड्नुबन्ध इदनुबन्धः कर्तर्यप्यात्मनेपदी धातुः। ईगनुबन्धस्तूभयपदी परस्मैपदी शेषः ॥३॥
....
S
.
..
.
.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org