________________
१४२ हैमलघुप्रक्रियाव्याकरणे - बहूनां प्रश्ने डतमश्च वा ॥ १३० ॥
यदादिभ्यो बहूनां मध्ये निर्धार्यार्थेभ्यः प्रश्ने डतमो डतरश्च वा स्यात् । यतमो यतरो वा भवतां कठादिस्ततमस्ततरो वा यातु । एवं कतमः कतरः । अन्यतमः अन्यतरः । पक्षे यको यो वेत्यादि । (वैकात् तमप्तथा*) एकतमः एककः एको वा भवतां कठादिः । (प्रायोऽतोयसट् मात्रट् स्वार्थे * ) यावदेव यावद्वयसम् । यावन्मात्रम् । तीयाट्टीकण न विद्या चेत् ॥ १३१॥ तीयान्तात् स्वार्थे टीकण् वा स्यात् । द्वैतीयीकं तार्तीयीकी । विद्या तु द्वितीया । (वर्णाऽव्ययात्स्वरूपे कारः) ककारः (रादेफ) रेफः । (नामरूपभागाद्धेयः* ) नामधेयम् । (देवात्तल *) देवता । (भेषजादिभ्यष्ट्यण * ) भैषज्यम् । (प्रज्ञादिभ्योऽण् * ) प्राज्ञः वाणिजः । (वाच इकणसन्दिष्टे *) वाचिकम् । (उपायादिकण ह्रस्वश्चास्य*) औपयिकम् । (विनयादिभ्य इकण वा भवति *) वैनयिकम् । इति तद्वितदिग्मात्रम्। इति श्रीमहोपाध्यायश्रीकीर्तिविजयगणिशिम्योपाध्यायश्रीविनयविजयामिविरचितायां हेमलम्बुप्रक्रियाको प्रथमवृत्तिः समाप्ता। हैमलघुप्रक्रियाव्याकरणे पूर्वाई समाप्तम् ॥ .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org