________________
तद्धितेष्वपत्यत्वाधिकार ४१ त्रयः स्युः । पचतिकल्पं पचतिदेश्य पचतिदेशीयम् । पटुकल्पा पटुदेश्या पटुदेशीया । (नपत्रः प्राग्बहुर्वा किञ्चिदूने *) बहुपटुः पटुकल्पः । (कुसिताल्पाज्ञातादिषु यथार्ह कबादयो वाच्या*) अश्वकः । अनुकम्पायां पुत्रक एहकि । (एकादाकिन् चाऽसहाये * ) एकाकीपकः । त्यादिसर्वादेः खरेष्वन्त्यात्पूर्वोऽक् ॥१२६॥ . त्याद्यन्तात्सर्वादेश्चान्त्यस्वरात्पूर्वोऽक् स्यात् कुसितादिषु । पचतकि सर्वके इति ।
युष्मदस्मदोऽसोभादिस्यादेः ॥ १२७॥ ___ सकारादिओकारादिभकारादिवर्जितस्याद्यन्तयोर्युष्मदस्मदोरन्त्यस्वरादेः पूर्वोऽक् स्यात् । त्वयका मयका । सकारादिवर्जनात् युष्मकासु अमकासु। युवकयोः आवकयोः । युवकाभ्याम् आवकाभ्याम् ।
अव्ययस्य को द् च ॥ १२८ ॥ अस्यान्त्यस्वरात्पूर्वोऽक् तद्योगे को द् च । कुत्सिताद्युच्चैरुच्चकैः धिक् धकिद् । (वैकाद्वयोर्निर्धार्ये डतरः*) एकतर एकको वा भवतोः कठः पटुः
यत्तत्किमन्यात् ॥ १२९ ॥ एभ्यो द्वयोरेकस्मिन्निर्धार्ये इतरः स्यात् । यतरो भवतोः कठादिस्ततर आगच्छेत् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org