________________
४६ हैमलघुप्रक्रियाव्याकरणे
पूर्वपदस्थाद्रादेः परस्य कवर्गवत्येकस्वरवति चोत्तरपदे नो ण् स्यात् । न चेदसौ पक्वस्य । वृत्रहणौ।
हनो हो नः ॥ २३ ॥ हन्तेह्रौं नः स्यात् ।
हनो घि ॥ २४ ॥ - हनो घकारे निमित्तनिमित्तिनोरन्तरे सति नो णो न स्यात् । वृत्रघ्नः। वृत्रनि, वृत्रहणि । पूषा । पूषणौ । पूष्णि, पूषणि । अर्यमा । अर्यमणौ । अर्यम्णः । इत्यादि। श्वन्युवन्मघोनो ङीस्याद्यघुट्खरे व उः२५
ड्यां स्याद्यघुट्स्वरे च श्वनादीनां व उ: स्यात् । श्वा । श्वानौ । श्वानः । हे श्वन् । शुनः। शुना। युवा । युवानौ । हे युवन् । यूनः । मघवा । मघवानौ । मघोनः । हे मघवन् । मघवच्छब्दस्तु मत्वन्तः । मघवान् ।
पथिन्मथिन्ऋभुक्षः सौ॥ २६ ॥ पथ्यादीनां नान्तानामन्तस्य सौ परे आः स्यात् । इति नकारस्य आत्वे ।
एः ॥ २७॥ पथ्यादीनामिकारस्य घुटि परे आः स्यात् । पथा इति जाते।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org