________________
व्यजनान्ताः पुल्लिङ्गाः।
'.
.
भवति तस्यैकस्वरस्य शब्दावयवस्यादेश्चतुर्थःस्यात्, पदान्ते सादौ ध्वादौ च प्रत्यये परे । धर्मभुत्, धर्मभुद् । धर्मबुधौ । हे धर्मभुत् हे धर्मभुद् । धर्मभुयाम् । धर्मभुत्सु । नकारान्तो राजन् शब्दः। नि दीर्घ इति दीर्थे । राजा । राजानौ । राजानः। अघुट्स्वरेऽनोऽस्येत्यल्लोपे नस्य अत्वे जजोः । राज्ञः । राज्ञा । राजभ्याम् । असदधिकारविहितस्य नलोपस्यासत्वादीर्घाभावः । राज्ञे । राज्ञः। राज्ञः। राज्ञोः । राज्ञाम् । राज्ञि, राजनि । राजसु ।
नामन्ये ॥ १९॥ संबोधने नानो नस्य लुगू न स्यात्। हे राजन्।
न वमन्तसंयोगात् ॥ २० ॥ वान्तान्मान्ताच्च संयोगात्सरस्यानोऽस्य लुगू न स्यात् । यज्वनः । यज्वना । आत्मनः । आत्मनि । शेषं राजन्वत् । एवं सुपर्वन्प्रभृतयः ।।
इन्हन्पूषार्यम्णः शिस्योः ॥ २१ ॥ इन्नन्तस्य हनादीनां च शिस्योरेव दीर्घः स्यात् । नि दीर्घ इति दीर्घ सिद्धे नियमार्थोऽयं योगः । दण्डी । दण्डिनौ । दण्डिनः । दण्डिना । दण्डिभ्याम् । हे दण्डिन् । विन्प्रत्ययान्ता अप्येवम् । वचस्वी । वचस्विनौ २ । वृत्रहा ।
कवर्गकखरवति ॥ २२ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org