SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ । ४४ हैमलघुप्रक्रियाव्याकरणे दधिमथौ । दधिमत्सु । हे दधिमद्, हे दधिमत् । दकारान्तास्त्यदादयस्तेषामाद्वेर इत्यत्वे । लुगस्यादेत्यपदे ॥१५॥ अपदादावकारे एकारे च परे अस्य लुक् स्यात्। त्य इति जाते। __तः सौ सः॥ १६ ॥ - द्विशब्दान्तानां त्यदादीनां स्वसंबन्धिनि सौ परे तः सः स्यात् । स्यः । त्यौ। त्ये । इत्यादि सर्ववत् । स्वसंबन्धिनीति किम् ? प्रियत्यद् । सः। तौ । ते । यः । यौ । ये । एषः । एतौ । एते। त्यदामेनदेतदो द्वितीयाटौस्यवृत्त्यन्ते॥१७॥ किञ्चिद्विधातुं कथितस्य पुनरन्यद्विधातुं कथनमन्वादेशस्तस्मिन् गम्यमाने द्वितीयाटौसि परे एतद् एनत् स्यात्, न तु वृत्त्यन्ते । आगत एषः। अथो एनं भोजय । एनं । एनौ । एनान् । एनेन । एतयोः, एनयोः। अन्वादेशाभावे । एतम् । एतौ। एतान् । वृत्त्यन्तेऽपि । परमैतं पश्य । इदमोऽप्येवम् । धकारान्तो धर्मबुधशब्दः। गडदबादेश्चतुर्थान्तस्यैकखरस्यादे। श्चतुर्थः स्ध्वोश्च प्रत्यये ॥१८॥ यस्य गडदबानां कोऽप्यादौ भवति चतुर्थश्चान्ते Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy