________________
व्यवनान्ताः पुल्लिङ्गाः। . नोऽन्तः स्यात् । युङ् । युञ्जौ । युजा । युग्भ्याम् । असमासे इति किम् ? अश्वयुक्, अश्वयुम् । युज इति किम् ? युजिञ्च् समाधौ। युजमापन्ना मुनयः। (पदान्ते ऋत्विजो गत्वं वाच्यम्*) ऋत्विक्, ऋस्विर । तकारान्तो मरुत् शब्दः। मरुत्, मरुद् । मरुतौ । मरुद्भ्याम् । ऋकारानुबन्धो महत् शब्दः।
___ऋदुदितः ॥ १२॥ ऋदित उदितश्च घुटि परे धुटः प्रार नोऽन्तः स्यात् । पदस्येति तलोपे।
स्महतोः ॥ १३॥ न्सन्तस्य महतश्च स्वरस्य शेषे घुटि परे दीर्घः स्यात् । महान् । महान्तौ । शेषघुटीत्येव । हे महन् । हे महान्तौ । हे महान्तः। महतः । शतृप्रत्ययान्तानां घुटि दीर्घाभावो विशेषः । पचन् । पचन्तौ । पचन्तः । हे पचन् । उकारानुबन्धो भवत् शब्दः।
अभ्वादेरत्वसः सौ ॥ १४॥ अत्वन्तस्यासन्तस्य च भ्वादिवर्जस्य शेषे सौ परे दीर्घः स्यात् । भवान् । भवन्तौ । भवन्तः । हे भवन् । मतुष्प्रत्ययान्ता अप्येवम् । गोमान् । गोमन्तौ । हे गोमन् । थकारान्तो दधिमथ्शब्दस्तस्य धुटस्तृतीय इति दत्वे । दधिमद्, दधिमत् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org