________________
भ्वादयः आत्मनेपदिनः ।
१७९
1
ष्ठते । ऊर्ध्वचेष्टायां तु आसनादुत्तिष्ठति । अचेष्टायामपि ग्रामाच्छतमुत्तिष्ठति ।
उदः स्थास्तम्भः सः ॥ १३७ ॥ उदः परयोः स्थास्तम्भोः सस्य लुक् स्यात् । उत्थाता ।
ज्ञीप्सा स्थेये ॥ १३८ ॥
ज्ञीप्सात्मप्रकाशनं स्थेयः सभ्यस्तयोर्विषये स्थ आत्मनेपदम् । तिष्ठते कन्या छात्रेभ्यः । त्वयि तिष्ठते विवादः । प्रतिज्ञायामप्येवम् । नित्यं शब्दमातिष्ठते । ( संविप्रावात् * ) संतिष्ठते इत्यादि ।
उपात्स्थः ॥ १३९ ॥
कर्मण्यसति तथा । योगे उपतिष्ठते । सकर्मणस्तु नृपमुपतिष्ठति ।
प्रोपादारम्भे ॥ १४० ॥
आभ्यामारम्भेऽर्थे क्रम आत्मनेपदं स्यात् । प्रक्रमते ४ । क्रम इतीडूनिषेधे प्राक्रंस्त ५ । प्रचक्रमे ६ । प्रसीष्ट ७ । प्रक्रन्ता ८ । प्रक्रंस्यते ९ । प्राक्रंस्यत १० । (क्रमोऽनुपसर्गाद्वात्मनेपदम् ) क्रमते - क्रामति इत्यादि । ( आङो ज्योतिरुद्गमे* ) आक्रमते भानुः । वद व्यक्तायां वाचि । व्यक्तवाचां सहोक्तौ ॥ १४१ ॥ व्यक्तवाचो नरादयस्तेषां संभूयोच्चारणार्थाद्वद
।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org