________________
१७८ हैमलघुप्रक्रियाव्याकरणे . विशिष्टार्थोपसर्गादेः परस्मैपदिनामपि । तथा चोभयपदिनामात्मनेपदिता भवेत् ॥ १॥ देवार्चामैत्रीसङ्गमपथिकर्तृकमन्त्र
करणे स्थः ॥ १३३ ॥ ___एतदर्थादुपपूर्वात्तिष्ठतेरात्मनेपदं स्यात् । देवाचर्चा जिनेन्द्रमुपतिष्ठते उपातिष्ठत ४।..
- इश्च स्थादेः ॥ १३४॥ स्थाधातोर्दासंज्ञाच्चात्मनेपदविषयः सिच् किद्धस्यात् तद्योगे च स्थादोरिश्च । सिचः कित्त्वाद्गुणाभावः । धुहस्वादिति सिज्लोपे उपास्थित उपास्थिषाताम् उपास्थिषत ५। उपतस्थे ६ । उपस्थासीष्ट ७ । उपस्थाता ८ । उपस्थास्यते ९। उपास्थास्यत १० । मैत्री रथिकानुपतिष्ठते । संगमः यमुना गङ्गामुपतिष्ठते । पन्थाः कर्ता यस्य तत्र श्रुघ्नमुपतिष्ठते पन्थाः । मन्त्रः करणं यस्य तत्र ऐन्द्रया गाहेपत्यमुपतिष्ठते ।
वा लिप्सायाम् ॥ १३५॥ । उपात्स्थो लिप्सायां गम्यायामात्मनेपदं वा स्यात् । भिक्षुर्वदान्यमुपतिष्ठते ।
उदोऽनूबेहे ॥ १३६ ॥ अनू चेष्टायां उत्पूर्वात्स्थस्तथा । मुक्तावुत्ति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org