SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ८ भ्वादयः आत्मनेपदिनः । १७७ स्यात् अटि च वा नच सोङविषये । विषहते । पर्यषहत - पर्यसहत ४ । पर्यषहिष्ट २ । ५ । सेहे ६ । सहिषीष्ट ७ । सहलुभेच्छरुषरिषस्तादेः ॥ १३१ ॥ एभ्यः परस्य तादेरशित आदिरिङ् वा स्यात् । सहिता । पक्षे होधुट्पदान्ते इति हस्य दत्वे, अधश्चतुर्थादिति तस्य धत्वे, तवर्गश्चवर्गेति धस्य ढत्वे । सहिवहेरोच्चावर्णस्य ॥ १३२ ॥ 1 सहिवह्योस्य तड्ढे परे लुक् स्यात् ओच्चावर्णस्य । सोढा - सहिता सोढारौ । असोङेति किम् । विषहिता से विसोढासे ८ । सहिष्यते ९ । असहिष्यंत १० । गाहौङ विलोडने । गाहते ४ । इड्डिकल्पे अगाहिष्ट - अगाढ अगाहिषाताम् अघाक्षाताम् अगाहिषत अघाक्षत । अगाहिष्ठाः - अगाढाः इत्यादि ५ । जगाहे. जगाहिषे - जघाक्षे ६ । गाहिषीष्ट-घाक्षीष्ट ७ । गाहिता - गाढा ८ । गाहिष्यते घाक्ष्यते ९ । अगाहिष्यत-अघाक्ष्यत १० । ईहि चेष्टायाम् । ईह ऐहत ४ । ऐहिष्ट ५ । ईहांचक्रे ६ । ईहिषीष्ट ७ । ईहिता ८ । ईहिष्यते ९ । ऐहिष्यत १० । ईक्ष दर्शने । ईक्षते ऐक्षत ४ । ऐक्षिष्ट ५ । ईक्षांचक्रे ६ | ईक्षिपीष्ट ७ । ईक्षिता ८ | ईक्षिष्यते ९ । 1 ऐक्षिष्यत १० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy