________________
१७६
हैमलघुप्रक्रियाव्याकरणे
तद्योगे तलुक् च । ञ्चावितौ । आप्यायि चैत्रः । आप्यायिष्ट ५ ।
प्यायः पीः ॥ १२७ ॥
प्यायः परोक्षायङोः पीः स्यात् । आपिये । आपिप्यिषे ६ | आप्यायिषीष्ट ७ । आप्यायिता ८। आप्यायिष्यते ९ । आप्यायिष्यत १० । तायृङ् संतानपालनयोः । तायते ४ । अतायि अतायिष्ट इत्यादि । अवियिप्रभृतयो गतौ । अयते । उपसर्गस्यायौ रो लः । प्लायते - पलायते ४ । पलायिष्ट ५ ।
दयायास्कासः ॥ १२८ ॥
एतश्चतुर्भ्यः परोक्षाया आम् स्यात् । पलायांचक्रे ६ | दयि दानगतिहिंसादानेषु च । दयते ४ । अदयिष्ट ५ । दयांचक्रे ६ । षेवृङ सेवृङ् सेवने ।
परिनिवेः सेवः ॥ १२९ ॥
I
एभ्यः परस्य सेवः सो द्वित्वेप्ययपि पू स्यात् । सेवते परिषेवते । पर्यषेवत ४ । पर्यषेविष्ट ५ । परिषिषेवे ६ । परिषेविषीष्ट ७ । परिषेविता ८ । परिविष्यते ९ । पर्यषेविष्यत १० । षहि मर्षणे । सहते ।
·
असोङसिवूसहस्सदाम् ॥ १३० ॥ परिनिविभ्यः परस्य सिवूसहोः स्सटश्च सः पू
www.jainelibrary.org
Jain Education International
For Personal & Private Use Only