SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ १४ हैमलघुप्रक्रियाव्याकरणे स्यात् । कन्याच्छत्रं, कन्याछत्रम् । मुनेच्छत्रं, मुनेछत्रम् । (आमाद्भ्यां तु नित्यम् । *) आच्छाया । माच्छिदत् । तवर्गस्य चवर्गष्टवर्गाभ्यां योगे चटवर्गौ ॥ १४ ॥ तवर्गस्य शचवर्गयोगे चवर्गः षटवर्गयोगे टवर्गः स्वात् । तत्-शास्त्रं तच्शास्त्रम् । तत् चारु, तच्चारु । पिष्-तं, पिष्टम् । तत्-टकारः, तट्टकारः । ईट-ते, ईट्टे । सस्य शषौ ॥ १५ ॥ सकारस्य शचवर्गाभ्यां योगे शः षटवर्गाभ्यां च योगे षः स्यात् । वृस्-चति, वृश्चति । दोस्-पु, दोष्षु । पदान्तापदान्तयोरयं विधिः । न शात् ॥ १६ ॥ शात्परस्य तवर्गस्य चत्रर्गो न स्वात् । प्रश्नः । पदान्ताद्दवर्गादनामनगरीनवतेः ॥ १७ ॥ पदान्तस्थादवर्गात्परस्य तवर्गस्य टवर्गः सस्य च षो न स्यात् षट्-नयाः षण्नयाः । षट्सु । नाम्नगरीनवतीनां तु स्यात् । षण्णाम् । षण्णगरी । षपणवतिः । षि तवर्गस्य ॥ १८ ॥ पदान्तस्थस्य तवर्गस्य षे परे टवर्गो न स्यात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy