________________
रेफसन्धिः ।
लि लौ ॥१९॥ पदान्तस्थस्य तवर्गस्य ले परे लौ स्याताम् । तत्र नकारस्य सानुनासिको लः शेषाणां निरनुनासिकः। तद्-लूनं, तल्लूनम् । भवान्-लिखति, भवाँल्लिखति ।
इति महोपाध्यायश्रीकीर्ति विजयगणिशिष्योपाध्यायश्रीविनयविज-... .. यगणिविरचितायां हैमलघुप्रक्रियायां व्यञ्जनसन्धिः समाप्तः ॥
. HP
tra29.
...
अथ रेफरसन्धिः ॥ कर-चारु इति स्थिते।
सो रुः ॥१॥ पदान्ते सो रुः स्यात् । उकारः स्वाभाविकरे'फाझेदज्ञापनार्थ इत् । कर चारु इति जाते ।
- चटते सद्वितीये ॥२॥ - पदान्तस्थस्य रस्य चटतेषु सद्वितीयेषु परेषु यथासंख्यं शषसा नित्यं स्यः चारु (निरनब--- न्धग्रहणे सामान्यग्रहणम्)प्रातश्चरति। कश्छन्नः। कष्टः । कष्ठः । कस्तः । कस्थः ।
शषसे शषसं वा ॥३॥ पदान्तस्थस्य रस्य शषसेषु परेषु शषंसा वा स्युः। कश्शेते । पक्षे
रः पदान्ते विसर्गस्तयोः ॥४॥ पदान्तस्थस्य रस्य विरामेऽयोफे परे च विसर्गः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org