________________
७४. हैमलघुप्रक्रियाव्याकरणे - सहादिवर्जपूर्वपदेभ्यः एभ्यः स्वाङ्गेभ्यः स्त्रियां डीर्वा स्यात् । सुनासिकी सुनासिका। नियमसूत्रमिदम् । तेनान्येभ्यो बहुस्वरेभ्यः संयोगोपान्तेभ्यश्च डीन स्यात् । सुललाटा । सुपार्था । (नखमुखादनाम्नि वा*) सुनखी सुनखा । सुमुखी सुमुखा । नाम्नि तु शूर्पणखा । (पुच्छात्तथा*) दीर्घपुच्छी। दीर्घपुच्छा। (कबरादिपूर्वान्नित्यम्*) कबरपुच्छी। (क्रीतात्करणादेः* ) अश्वक्रीती । (क्तादल्पे*) अभ्रविलिप्ती द्यौरित्यादि । (सपत्यादौ डीनोंन्तादेशच*) सपत्नी। एकपत्नी। ऊढायां पाणिगृहीती । पतिवत्नी । अन्तर्वनी । एवं दृढपत्नी । दृढपतिः। ग्रामपत्नी।
जातेरयान्तनित्यस्त्रीशूद्रात् ॥१५॥ यान्तादिवर्जजातिवाचिनोऽदन्तास्त्रियां डीः स्यात्।
आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक् । सकृदाख्यातनिग्राह्या गोत्रं च चरणैः सह ॥ ३ ॥ __ कुक्कुटी । तटी । नाडायनी । कठी। यान्तादिवर्जनं किम् । क्षत्रिया। खदा। शूद्रा । (क्वचिन्नित्यस्त्रीजातेरपि*) ओदनपाकी। शङ्खपुष्पी। पूगफली । दर्भमूली । औषधिविशेषा एते । - धवाद्योगादपालकान्तात् ॥ १६॥ .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org