________________
स्त्रीप्रत्ययाः। पालकान्तवर्जात्संबन्धतः स्त्रीवृत्तेर्धवनाम्नो डीः स्यात् । प्रष्ठस्य भार्या प्रष्ठी । गणकी। अपालकान्तादिति किम् । गोपालिका । धवयोगोऽनुवर्तनीयः पञ्चसूत्र्याम् ।
पूतक्रतुवृषाकप्यग्निकुसित
कुसीदादै च ॥ १७॥ एभ्यः पञ्चभ्यो डीस्तद्योगेऽन्तस्यैः । पूतक्रतो स्त्री पूतकतायी।
- मनोरौ च वा ॥ १८ ॥ मनोडस्तद्योगे औरैश्च वा स्याताम् । मनायी। मनावी । मनुः।
वरुणेन्द्रभवशवरुद्रमृडादा
। चान्तः ॥ १९ ॥ एभ्यः षड्भ्यो डीस्तद्योगे आन्चान्तः । वरुणानी । इन्द्राणी।
मातुलाचार्योपाध्यायाद्वा ॥ २०॥ __ एभ्यस्त्रिभ्यो डीस्तद्योगे चानन्तो वा। मातुलानी मातुली । क्षुभादिपाठान्न णत्वमिति । आचार्यानी आचायीं । उपाध्यायानी उपाध्यायी। (सूर्याद्देवतायां वा डीस्तद्योगे चानन्तः*) सूर्याणी सूर्या । (अर्यक्षत्रियाद्वा*) अर्याणी अर्या । क्षत्रियाणी क्षत्रिया।
Jain Education International:
'For Personal & Private Use Only
www.jainelibrary.org