SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ हैमलघुप्रक्रियाव्याकरणे हुधुटो हेः ॥ १ ॥ .. होर्घुडन्ताच्च परस्य हेर्धिः स्यात् । अद्धि अत्तात् ३ । १९६ अदश्चाद् ॥ २ ॥ अत्तेरुत्पञ्चकाच्च दिस्योरादिरट् स्यात् । स्वरादेस्तास्विति वृद्धौ । आदत् आत्ताम् आदन् । आदः आत्तम् आत्त । आदम् आइ आद्म । घस्लुसनद्यतनी घञचलि ॥ ३ ॥ एषु पञ्चसु परेष्वदेर्घस्लृः स्यात् । लुदिद्युतादिपुष्यादेरित्यङ् । अघसत् अघसताम् अघसन् परोक्षायां नवा ॥ ४ ॥ अदेः परोक्षायां घस्लृ आदेशो वा स्यात् । जघास । द्वित्वे गमहनेत्यकारलोपे, अघोषे प्रथमोऽशिट इति घस्य कत्वे, घस्वस इति षत्वे । जक्षतुः जक्षुः । ऋवृव्येऽद इट् । जघसिथ जक्षथुः जक्ष । जघास- जघस जक्षिव जक्षिम । पक्षे । अस्यादेराः परोक्षायाम् ॥ ५ ॥ अस्यां द्वित्वे पूर्वस्यादेरतः आः स्यात् । आद. आदतुः आदुः । आदिथ ६ | अद्यात् ७ । अत्ता ८४ अत्स्यति ९ । आत्स्यत् १० । सांति प्सातः सान्ति १ । प्सायात् २ । प्सातु प्सातात् ३ । अप्सात् अप्साताम् । For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy