________________
णिगन्तप्रक्रिया।
अदुषो णौ ॥ २७॥ दुषेरुपान्त्यस्य णौ ऊत् स्यात् । दूषयति।
चित्ते वा ॥ २८ ॥ चित्तकर्तृकस्य दुषेरूद्वा स्यात् । चित्तं दोषयति दूषयति वा मैत्रः । गोहः स्वरे इत्यूत्वे, गृहयति । घटादेर्हस्वे दीर्घस्तु वा भिणमारे णौ वर्तते। घटयति । अपाटि-अघटि । घार्ट २ । घटं २। व्यथयति । अव्याथि अव्यथि। व्याथं २ व्यथं २। ___ कगेवनूजनैजृषकस्रजः ॥ २९ ॥
एषां षण्णां णौ ह्रस्वो भवति । त्रिणम्परे तु णौ वा दीर्घः । कगयति । जनयति (णौ मृगरमणे रञ्जनों लुक् *) रजयति मृगान् । अराजि-अरजि ।
- अमोऽकम्यमिचमः ॥३०॥
कम्यमिचमिवर्जस्यामन्तस्यं णी हस्वः स्यात्, जिणम्परे तुः णौ वा दीर्घः । रमयति ।
मारणतोषणनिशाने ज्ञश्च ॥३१॥ एष्वर्थेषु ज्ञो णौ ह्रस्वः स्यात् । संज्ञपयति पशुम् । विज्ञपयति गुरुम् । प्रज्ञपयति शस्त्रम् । ज्वलह्वलह्मलग्लानावनूवमनमोऽ
नुपंसर्गस्य वा ॥ ३२॥ एषामष्टानामनुपसर्गाणां णौ ह्रस्वो वा स्यात् ।
व्या. २२ . Jain Education International
For Personal & Private Use Only
www.jainelibrary.org