SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २५४ हैमलघु प्रक्रियाव्याकरणे ज्वलयति ज्वालयति । अनुपसर्गस्येति किम् । प्रज्वलयति । णिजन्तादपि णिगू । चोरयन्तं प्रयुङ्क्ते चोरयति । णिलुपि स्वरादेशत्वात्स्थानिवद्भावेनोपान्त्यत्वाभावान्न ह्रस्वः । अचुचोरत् । अणिक्कर्मणिक्कर्तृकाण्णिगोऽस्मृतौ ॥ ३३ ॥ अणिमवस्थायां कर्म तदेव णिगवस्थायां कर्त्ता यस्य तस्माण्णिगन्तादस्मृत्यर्थात् कर्तर्यात्मनेपदमेव स्यात् । आरोहयते हस्ती हस्तिपकम् । अणिगि प्राणिकर्तृकानाप्याण्णिगः ॥ ३४ ॥ अणिगवस्थायां यः प्राणिकर्तृको कर्मकश्च धातुस्तस्माण्णिगन्तात्परस्मैपदमेव स्यात् । आसयति चैत्रम् । चल्याहारार्थेड्नुभयुधद्रुस्नुनशजनः ॥३५॥ चल्याहारार्थेभ्य इङादिभ्योऽष्टाभ्यश्च णिगन्तेभ्यः परस्मैपदमेव स्यात् । चलयति । घटादित्वात् ह्रस्वः इत्यादि । इति महोपाध्यायश्री कीर्त्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां हैमलघुप्रक्रियायां णिगन्तप्रक्रिया समाप्ता । Jain Education International ang For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy