________________
समासे बहुव्रीहिः। ९१ मुखः। (उष्ट्रमुखादयः*) एते बहुव्रीहिसमासा निपात्यन्ते । उष्ट्रस्य मुखमिव मुखं यस्य सः उष्ट्रमुखः । वृषस्कन्धः।
सहस्तेन ॥४॥ तेनेति तृतीयान्तेन सहशब्दोऽन्यपदार्थे सम स्यते ।
सहस्य सोऽन्यार्थे ॥५॥ बहुव्रीही सहस्य सो वा स्यात् । सपुत्रः सहपुत्रो वा गतः। क्वचिन्नित्यम् । सरसा दूर्वा । साग्निः कपोतः। सद्रोणा खारी (क्वचिन्न*) स्वस्ति गुरवे सहशिष्याय ।
दिशो रूढ्यान्तराले ॥६॥ दक्षिणस्याः पूर्वस्याश्च यदन्तरालं सा दक्षिणपूर्वा दिक् । सर्वादयोऽस्यादौ इति पूर्वपदस्य पुंवद्भावः। इत्यादयोऽपि बहुव्रीहिसमासा ज्ञेयाः। यत्र प्रधानस्यैकदेशो विशेषणतया ज्ञायते स तद्गुणसंविज्ञानः । लम्बौ कौँ यस्य स लम्बकर्णः । विशेषणं सर्वादिसङ्ख्यं बहुव्रीहौ ॥ ७ ॥
विशेषणं सर्वादिकं सङ्ख्यावाचि च बहुव्रीही प्राक् स्यात् । (गौणस्य गोशब्दस्य डयाद्यन्तस्य चान्तस्थस्य ह्रस्वो वक्तव्यः*) चित्रगुः। सर्वशुक्लः । द्विकृष्णः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org