________________
१० हैमलघुप्रक्रियाव्याकरणे बहुव्रीह्यादिसंज्ञाऽभावे यत्रैकार्थता तत्रानेनैव समासः। विस्पष्टपटुः । स च षोढा । बहुव्रीहिः १ अव्ययीभावः २ तत्पुरुषः ३ कर्मधारयो ४ द्विगुः ५ द्वन्द्वश्च ६ । तत्र बहुव्रीहिरन्यपदार्थप्रधानः । अव्ययीभावः पूर्वपदार्थप्रधानः । द्विगु-तत्पुरुषौ परपदार्थप्रधानौ । द्वन्द्व-कर्मधारयौ चोभयपदार्थप्रधानौ । तस्य क्रियाभिसंबन्धात् ऐकपद्यादिकं च समासप्रयोजनम् । समर्थः पदसमुदायो विग्रहो वाक्यमिति च । आरूढाः पुरुषा यमिति वाक्ये । _ एकार्थं चानेकं च ॥ २॥
एकमनेकं चैकार्थ समानाधिकरणं नाम, अव्ययं च नाम्ना द्वितीयाद्यन्तान्यपदस्यार्थे समस्यते । स च बहुव्रीहिः।
- ऐकायें ॥३॥ ऐकार्यमैकपद्यं तन्निमित्तस्य स्यादेर्लुप् स्यात् । अत एव लुम्विधानात् नाम नाम्नेत्युक्तावपि स्याद्यन्तानां समासः। 'उक्तार्थानामप्रयोगः' इति यच्छब्दाप्रयोगे आरूढपुरुषो गिरिः । अयं चान्यपदार्थप्राधान्यात्तत्संबन्धिनीर्लिङ्गसङ्ख्याविभक्तीरनुसरति । कृतानि पुण्यानि येन सः कृतपुण्यः। एवं दत्तदानो वीतदुःखो बहुधनोऽनन्तज्ञानः (अनेक घ) आरूढबहुपुरुषो गिरिः । (अव्ययं च*) उच्चै
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org