SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ भ्वादयः आत्मनपदिनः। १८१ त्वम् । समदृष्ट समदृक्षाताम् समदृक्षत ५। संददृशे संददृशिषे ६। संदृक्षीष्ट ७ । संद्रष्टा ८ । संद्रक्ष्यते ९ । समद्रक्ष्यत १० । सकर्मकत्वे तु संगच्छति रवि शशीत्यादि । (गमेः क्षान्तौ आत्मनेपदम् ) आगमयते गुरुम् । कंचित्कालं प्रतीक्षत इत्यर्थः । चर गतिभक्षणयोः। उदश्चरः साप्यात् ॥ १४५॥ उत्पूर्वाञ्चरेः सकर्मकादात्मनेपदं स्यात् । मार्गमुच्चरते । उत्क्रम्य यातीत्यर्थः । अकर्मकत्वे तु धूम उच्चरति । ऊर्ध्वं गच्छतीत्यर्थः । समस्तृतीयया ॥ १४६ ॥ संपूर्वाञ्चरेस्तृतीयान्तेन योगे आत्मनेपदं स्यात्। अश्वेन संचरते ४ । समचरिष्ट ५। संचेरे संचेरिषे ६ । इत्यादि । अन्यत्र तु संचरति समचारीत् । संचचारेत्यादि । ( नुप्रच्छ: *) आनुते भृगालः। आपृच्छते गुरुम् । क्रीड विहारे । - क्रीडोऽकूजने ॥ १४७ ॥ कूजनमव्यक्तशब्दस्ततोऽन्यार्थात्संपूर्वात्क्रीडतेरात्मनेपदं स्यात् । संक्रीडते । कूजने तु संक्रीडन्त्यनांसि। . . अन्वाङ्परेः ॥ १४८॥ एभ्यस्त्रिभ्यः क्रीडतेरात्मनेपदं स्यात् । अनुक्रीडते व्या. १६ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy