________________
-
युष्मदस्मदोः प्रक्रिया। लुगस्यादेत्यपदे इत्यकारलोपे अमो मत्वे दस्यात्वे च त्वाम् माम् । युवाम् आवाम् ।
.. शसो नः ॥७॥ युष्मदस्मद्भ्यां परस्य शसो नः स्यात् । युष्मान् अस्मान् । टायां त्वमादेशे।
टाड्योसि यः॥८॥ - एषु चतुर्षु युष्मदस्मदोर्यः स्यात् । त्वया मया । युवाभ्याम् आवाभ्याम् । युष्माभिः अस्माभिः ।
तुभ्यं मह्यं ड्या ॥९॥ डन्या सह युष्मदस्मदोरेतौ स्याताम् । तुभ्यम् मह्यम् ।
... अभ्यं भ्यसः ॥१०॥ । युष्मदस्मद्भ्यां परस्य चतुर्थीभ्यसोऽभ्यम् स्यात् । अकारो व्यञ्जनादित्वव्यावृत्त्यर्थस्तेन युष्मदस्मदोरित्यात्वं न भवति । .. .
शेषे लुक् ॥ ११॥ यस्मिन्नायौ कृतौ ततोऽन्यः शेषस्तस्मिन् स्यादौ परे युष्मदस्मदोर्लक् स्यात् । युष्मभ्यम् अस्मभ्यम् ।
उसेश्चाद् ॥ १२॥ - युष्मदस्मद्भ्यां परस्य डन्सेः पञ्चमीभ्यसश्च अद् स्यात् । अकारः प्राग्वत् । त्वत् मत् । युष्मद् अस्मद् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org