SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ . . .... . द्वितीयावृत्तिप्रस्तावना। लक्षयन्तु लक्षणवन्तो लक्षणशास्त्रदत्तलक्ष्याः । अस्मिन्ननन्यसाधारणे जिनशासने तर्कव्याकरणकाव्यादीनि सर्वशास्त्राणि विशिष्टज्ञानकारणानीत्यतो व्याकरणग्रन्था महावैयाकरणप्रथिता मु. द्रिता अमुद्रिताश्च दरीदृश्यन्ते, तेषामेकतमोऽयं ग्रन्थोऽध्येतणामुपकाराय पूर्वमस्माभिर्मुद्रापित आसीत्, परंतु लघीयसैव कालेनास्य प्रतयो रिकीभूताः, प्रार्थयितारश्चानेकशो मार्गयन्तो विफलप्रार्थनावत्त्वेन विषण्णा आसते,. अतोऽस्माभिः पठनानुकूल्यं विधित्सुभिः पेथापुरवासि कालिदासात्मजसकरचन्द्र श्रेष्ठिनः सम्प्रत्यमदाबादनिवासिनो द्रव्यसाहाय्येनायं मुद्रापितः । ग्रन्थस्थास्यैतत्प्रणेतुश्च माहात्म्यं प्रथमावृत्तिप्रस्तावनायां लिखितप्रायत्वात्सुप्रसिद्धत्वाच्च न प्रतन्यते ! अधीत्येममध्येतार आत्महिते प्रवर्तन्तामित्याशास्महे । शुद्धिविषये चास्य प्रथमावृत्तितोऽधिकतरे प्रयले कृतेऽपि दृष्टिदोषादिना कारणेन स्खलितानि भधेयुश्चेत्तज्ज्ञातारः शोधयेयुरिति प्रार्थ्यते. इति ॥ संवत् १९७४ । श्रीजैनधर्मप्रसारकसभा, चत्र. भावनगर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy