________________
ANE
विचारोऽपि सुगमत्वेन विशदीकृतस्तथा पलिङ्गगतानां शब्दानामकाराद्यनुक्रमेणैव सर्वः क्रमः सा. धिता, अव्ययादितद्धितान्तानां प्रकरणानां तथा चोत्तरार्धे धातुकृत्प्रत्ययानां यादृशी अमरचना . रचित्ताऽस्ति तादृशी न कापि व्याकरणान्तरे हश्यते।
एवं सर्वतः संस्कृतपाठकानामत्युपयोगकारि शास्त्रोपकारक चेदं व्याकरणं विज्ञाय श्रीमन्महामुनिश्रीवृद्धिचन्द्रगुरुप्रेरणयाऽस्माभिर्मुद्राप्य प्रकाशितं । आशास्महे व्युसिसूनां सर्वेषामत्र प्रवृत्तिः साधीयसी स्यादिति । महता यत्नेन ग्रन्थोऽयं अस्मदीयशास्त्रिनर्मदाशंकरशर्मणा परिशोधितस्तथापि यद्यत्र किञ्चित् स्खलितं सुधीभिर्लक्ष्येत तत्परिशोधनीयम् । एतद्वन्थस्य शुद्धिपत्रमपि स. कलितं तदवलोकनीय पाठकैरिति सानुनयं प्रार्थयामहे वयम् । संवत् १९४९? श्रीजैनधर्मप्रसारकसभा, श्रावण.
भावनगर.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org