________________
ALISA
तत्र मध्यव्याकरणं लघुल्याकरणं च प्रायो दुष्मा वर्तते।
इदं हैमलपुप्रक्रियाल्यं व्याकरणं शब्दानुसासनसूत्रानुसारेण श्रीविनयविजयोपाध्यायै रत्रित. मति, तदुपरि चतुर्विशत्सहनलोकमिता खोपशटीकास्ति । एतद्न्थकर्तारः श्रीविनयविजयगमिनः श्रीमहोपाध्यायपदभाजोऽतिविद्वांस आसन् । ते कस्मिन् देशे समुद्भता इति निर्णेतुं न शक्यते परं प्रायस्तेषां गुर्जरेषु विहारः संभाव्यते । तेषां गुरवः श्रीकीर्तिविजयगणिनस्तद्गुरवः श्रीमदकबरपातसाहिपूज्याः श्रीहीरविजयसूरको विविधग्रन्थकार आसन् । इदानीमपि तेषां कीर्तिकौमुदी भारताम्बरे प्रकाशते । महोपाध्यायश्रीविनयविजयसूरबस्तपागच्छीया उपकेशवंशोद्भवाश्चासन् । तेषां निर्वाणकालस्तु श्रीविक्रमार्कसमयावेदाग्निमु. निचन्द्र (१७३४) मिते वर्षेऽभूत् । एभिरनेके ग्रन्था जैनमतोपयोगिनः समारचिताः । तत्र लोकप्रकाशः, शान्तसुधारसः (गेयमयः), नयकर्णिका, सुबोधिका कल्पवृत्तिः (कल्पसूत्रटीका) इत्यादयोऽद्यापि प्रसिद्धाः प्रवर्तन्ते ।
एतव्याकरणं ब्युसित्सूनां सुखबोधकमनतिविस्तरं चास्ति । तस्य सङ्कलनायां प्रथम संज्ञाधिकारी मूलसूत्रसहितकारिकाभिरेव प्रतिपादितः, सन्धि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org