SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ भ्वादयः परस्मैपदिनः । १५९ समानान्तस्य धातोः परस्मैपदविषये सिचि अङिति वृद्धिः स्यात् । अजैषीत् अजैष्टाम् अजैषुः । अजैषीः अजैष्टम् अजैष्ट । अजैषम् अजैष्व अजैष्म ५ । जेर्गिः सन्परोक्षयोः ॥ ६२ ॥ सन्परोक्षयोः परयोर्द्वित्वे सति पूर्वात्परस्य जेर्गि: स्यात् । नामिनोऽकलिहलेरिति वृद्धिः । जिगाय । योsनेकस्वरस्य । जिग्यतुः जिग्युः । जिगयिथ जिगेथ जिग्यथुः जिग्य | णिद्वान्त्यो णव ॥ ६३ ॥ परोक्षाया अन्त्यो णवू णिद्वा स्यात् । जिगाय - जिग जिग्यव जिग्यिम ६ । दीर्घश्वीति दीर्घे -जीयात् जीयास्ताम् जीयासुः ७ । जेता ८ । जेष्यति ९ । अजेष्यत् १० । स्मं चिन्तायाम् । स्मरति १ । स्मरेत् २ । स्मरतु- स्मरतात् ३ । अस्मरत् ४ । अस्मात् अस्माष्टम् अस्मार्षुः । अस्माषः अस्मार्ष्टम् अस्मार्ष्ट । अस्मार्षम् अस्मा अस्मा ५ । स्मृ स्मृ इति द्वित्वे । ऋतोऽत् ॥ ६४ ॥ द्वित्वे सति पूर्वस्य ऋतोऽत् स्यात् । सस्मार । संयोगादृदः ॥ ६५ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy