________________
१५८ हैमलघुप्रक्रियाव्याकरणे स्थासेनिसिसिचूसञ्जां द्वित्वेऽपि ॥५८॥ ___ उपसर्गस्थानाम्यादेः परेषां स्थादीनां सः षः स्यात् द्वित्वेऽपि। अध्यष्ठात् अध्यष्ठाताम् अध्यष्टुः । . अघोषे शिटः ॥ ५९ ॥ द्वित्वे पूर्वस्य शिटस्तत्संबन्धिन्येवाघोषे लुक् स्यात् । तस्थौ अधितष्ठौ तस्थतुः तस्थुः ६ । स्थेयात् स्थेयास्ताम् स्थेयासुः । ७ स्थाता अधिष्ठाता ८ । स्थास्यति अधिष्ठास्यति ९ । अस्थास्यत् अध्यष्ठास्यत् १०।म्नां अभ्यासे। मनति १।मनेत् २।मनतु मनतात् ३ । अमनत् ४ । अनासीत् ५। मनौ ६ । ने. यात्-नायात् ७ । नाता ८ । नास्यति ९ । अम्नास्थत् १० । दाम् दाने । यच्छति १ । यच्छेत् २॥ यच्छतु ३ । अयच्छत् ४।
अवौ दाधौ दा ॥६०॥ अवितौ दाधारूपौ धातू दासंज्ञौ स्यातामिति दासंज्ञत्वात्पिबतीत्यादिना सिलुप् । अदात् । विद्वर्जनात् दांव दैव् इत्यादेर्न दासंज्ञा । ददौ ६। गापास्थासादामेत्येत्वे, देयात् ७ । दाता ८ । दास्थति ९ । अदास्यत् १० । किं जिं अभिभवे । जयति १ । जयेत् २ । जयतु जयतात् ३ । अजयत् ४। सिचि परस्मै समानस्याङिति ॥ ६१ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org