SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ हैमलघुप्रक्रियाव्याकरणे ईयः स्वसुश्च ॥ ३० ॥ .. भ्रातुः स्वसुश्च ईयः । भ्रात्रीयः स्वस्त्रीयः । मातृपित्रादेर्डेयणीयणौ ॥ ३१ ॥ मातृपितृपूर्वात्स्वसुरेतौ स्याताम् । मातृष्वसेयः मातृष्वस्रीयः । पैतृष्वसेयः पैतृष्वस्रीयः । ( श्वशुराधः * ) श्वशुर्यः । जातौ राज्ञः ॥ ३२ ॥ राज्ञोऽपत्ये यः स्यात् जातौ गम्यायाम् । अनोऽव्ये ये ॥ ३३ ॥ अन्नन्तस्य व्यवर्जे यादौ तद्धिते परेऽन्त्यस्वरादेर्लुगू न स्यात् । राजन्यः । क्षत्रियजातिश्चेत् । ( क्षत्रादियस्तथा* ) क्षत्रियः । ( मनोर्याणौ पश्चान्तो जातो) मनुष्याः मानुषाः । ( माणवः कुत्सायामु*) मनोरपत्यं मूढं माणवः । ૨૮ कुलादीनः ॥ ३४ ॥ कुलान्तात् केवलाच्च कुलादपत्ये ईनः । बहुकुलीनः कुलीनः । (दुष्कुलादेयण वा ) दौष्कुलेयः दुष्कुलीनः । (महाकुलाद्वाऽञीनञ) माहाकुलः । माहाकुलीनः महाकुलीनः । ( कुर्वादेः ) कौरव्याः । शाङ्कव्याः । राष्ट्रक्षत्रियात्सरूपाद्राजापत्ये द्विरम् ॥३५॥ For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy