SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ तद्धितेष्वपत्यत्वाधिकारः। ११७ दुसंज्ञवर्जान्नदीनानो मानुषीनाम्नश्चापत्ये अण् स्यात् । यामुनः। दैवदत्तः। याप्त्यूङः ॥२६॥ एभ्यश्चतुर्थ्य एयण स्यात् । सौपर्णेयः । वैशलेयः । यौवतेयः (कद्रूपाण्डूव|वर्णस्य एये लुग वक्तव्या*) कामण्डलेयः । (द्विस्वरनद्यर्थात्तु नैयण*) सैप्रः। इतोऽनित्रः॥२७॥ इञ्वर्जेदन्ताद्विस्वरादेयण स्यात् अपत्ये । नाभेयः । (शुभ्रादिभ्य एयण*) । शौभ्रेयः । गाङ्गेयः। कल्याणादेरिन् चान्तस्य ॥ २८॥ एभ्य एयण् स्यात् अन्तस्य चेन् । काल्याणिनेयः। (कचिदुभयपदवृद्धिा*) सौभागिनेयः । पारस्त्रैणयः। (कलटाया वा अन्तस्येन) कौलटिनेयः कौलंटेयः । (चटकाण्णैरः स्त्रियां तु लुप् तस्य*) चाटकैरः चटका। . क्षुद्राभ्य एरण वा ॥२९॥ अङ्गहीना व्यभिचारिण्यो वा स्त्रियःक्षुद्रास्ताभ्य एरण वा स्यात् । काणेरः काणेयः । दासेरः दासेयः । नाटेर नाटेयः। (गोधाया दुष्टेणारश्च*) गौधारः गौधेरः। अदुष्टे तु गौधेयः।(भ्रातुर्व्यः*) भ्रातृव्यः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy