SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ __ तद्धितेष्वपत्यत्वाधिकारः। ११९ राष्ट्रक्षत्रियसरूपाच्छब्दाद्राष्ट्रार्थाद्राजार्थे क्षत्रियार्थाच्चापत्येऽञ् स्यात् स च द्रिसंज्ञः। बहष्वस्त्रियाम् ॥३६॥ बहुत्वे च दूरस्त्रियां लुक् । विदेहानां राजानोऽपत्यानि वा विदेहाः। स्त्रियस्तु वैदेह्यः । सरूपादिति किम् । सौराष्ट्रको राजा । एवं दाशरथिः । पुरुमगधकलिङ्गशूरमसद्विखरादण् ॥३७॥ पुर्वादिभ्यो द्विस्वरेभ्यश्चाण द्रिः स्यात् । पौरवः । आङ्गो राजाऽपत्यं वा। दुनादिकुर्वित्कोसलाऽऽजादायः॥३८॥ दुसंज्ञेभ्यो नादेः कुरोरिदन्तेभ्यः कोसलाऽऽजादाभ्यां च द्रियः स्यात् । आम्बष्ठ्यो राजाऽपत्यं वा । एवं नैषध्यः कौरव्यः आवन्त्यः कौसल्यः आजाद्यः। (पाण्डोड्यण). पाण्ड्यः। (शकादिभ्यो द्रे प्*) शकः । यवनः। - इत्यपत्यप्रत्ययाधिकारः। पितृमातुर्व्यडुलं भ्रातरि ॥३९॥ आभ्यां यथासङ्ख्यं भ्रातरि व्यडुलौ स्याताम् । पितृव्यः मातुलः। - पित्रोडामहट् ॥ ४०॥. पितृमातृभ्यां मातापित्रोर्डामहट् स्यात् । पितामहः पितामही । मातामहः मातामही । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy