SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ हैमलघुप्रक्रियाव्याकरणे रागाहो रक्ते ॥ ४१ ॥ येन कुसुम्भादिना वस्त्रादि रज्यते स रागस्तस्माट्टान्ताद्रक्तमित्यर्थेऽण् स्यात् । कुसुम्भेन रक्तं कौसुम्भं वस्त्रम् । ( लाक्षारोचनादिकण* ) लाक्षिकः रौचनिकः पटः । षट्याः समूहे ॥ ४२ ॥ षष्ठ्यन्तात्समूहेऽणादयः स्युः । चाषम् । (भिक्षादेः ) भैक्षं गार्मिंणम् । ( गोत्रोक्षादिभ्योऽकञ्* ) औपगवकम् । औक्षकम् । (केदाराण्ण्याकज ) कैदार्य कैदारकम् । ( कवचिहस्त्यचित्ता - चेकण* ) कावचिकं । हास्तिकम् । आपूपिकम् । कैदारिकम् । (ब्राह्मणमाणववाडवाद्यः) ब्राह्मण्यम् । ( गणिकाया ण्यः* ) गाणिक्यम् । ( केशाद्वा*) कैश्यं कैशिकम् । ( वाऽश्वादीयः ) अश्वीयं आश्वम् । ( पर्श्वदङ्गण* ) पशूनां समूहः पार्श्वम् । गोरथवातान्त्रल्कट्यल्लूलम् ॥ ४३ ॥ एभ्यस्त्रिभ्य एते त्रयः स्युः । लित्प्रत्ययान्तानां स्त्रीत्वम् । गोत्रा रथकट्या वातूलः । पाशादेश्व ल्यः ॥ ४४ ॥ १२० गवादिभ्यः पाशादेश्च ल्यः स्यात् । य्यये ॥ ४५ ॥ ओदौतोः क्यवर्जे यादौ प्रत्ययेऽवावौ स्याताम् । For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy